`षष्ठी स्थानेयोगा`
1|1|48 इत्यस्याः परिभाषाया अयमपवादः। तेनतत्सम्बन्धादस्यापि परिभाषात्वं विज्ञायते। यदि तह्र्रादिष्टिद् भवत्यन्तः किद्भवति, तदा `चरेष्टः`
3|2|16 `आतोऽनुपसर्गे कः`
3|2|3 इत्यादयोऽपि प्रत्ययाआद्यन्तभूताः स्युओः। न च टितः प्रत्ययस्यादित्वे `टिड्ढाणञ्`
4|1|15 इति टितो विधीयमानो ङीब् निरवकाश इत्याशङ्कनीयम्। यत्र हि प्रकृतेरेव सिद्धं टित्त्वं न प्रत्ययस्य, नदड् भषडित्येवमादौ, स तस्यावकाशो भविष्यतीति। टितश्च प्रत्ययस्या-दित्वे सति कुरुचर इत्येवमादिरूपमेव सिध्येत्। कितस्त्वन्त्यत्वे आध्योः, विध्योरि-त्यत्र `उपसर्गे घोः किः`
3|3|92 इति किप्रत्ययस्य प्रकृत्यन्तः-पातित्वाद्धातु-ग्रहणेन ग्रहणे सति `उदात्तयणो हल्पूर्वात्`
6|1|168 इत्येष स्वरो न स्यात्। `नोङ धात्वोः`
6|1|169 इति प्रतिषेधादित्यत आह- `षष्ठीग्रहणस्य सिंहावलोकितन्यायेनोप-स्थानात्। नन्वेवमपि `गापोष्टक्`
3|2|8 `व्रीहिशाल्योर्ढक्`
5|2|2 इत्येतावाद्य न्तौ प्राप्नुतः, नैष दोषः, `पुरस्तादपवादा अनन्तरात् विधीन् बाधन्ते नोत्तरान्` (व्या।प।9) इति स्थानेयोगत्वस्यैवायमपवादो भविष्यति, न प्रत्ययपरत्वस्य। अपर आह-आद्यन्तावयवौ, अवयवश्चावयविनमन्तरेण न सम्भवतीत्यवयविनमाक्षिप्य तौ वत्र्तेते।ततश्चावयवावयविसम्बन्धे यलस्यादिरन्तो वावयवो विधीयते, सोऽवयवो षष्ठआ निर्देष्ट-व्य इति सामथ्र्यादवयवषष्ठआ निर्दिष्टस्येति ज्ञायते। न चैवम्। `गापोष्टक्`
3|2|8 `व्रीहिशाल्योर्ढक्`
5|2|2 इत्येतौ प्रत्ययावाद्यन्तौ प्राप्नुतः, यस्मादिहप्रकृतयोऽवयवषष्ठआ निर्दिष्टाः, किं तर्हि? सुपां सुपो भवन्तीति पञ्चम्यर्थे या षष्ठी तयेति। `भीषयते` इति। `ञिभी भये`(धातुपाठः-1084) हेतुमण्णिच्, `भियो हेतुभये षुक्`
7|3|40 `भीस्म्योर्हेतुभये`
1|3|68 इत्यात्मनेपदम्।