॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|42
SK 313
1|1|42
शि सर्वनामस्थानम्
SK 313
सूत्रच्छेद:
शि - प्रथमैकवचनम् , सर्वनामस्थानम् - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
शि सर्वनामस्थानम्
सूत्रार्थ:
"शि" इत्यस्य "सर्वनामस्थान" संज्ञा भवति ।
"शि" अयम् कश्चन आदेशः । जश्शसोः शिः 7|1|20 इत्यनेन नपुँसकात् परस्य जस्-प्रत्ययस्य शस्-प्रत्ययस्य च "शि" आदेशः विधीयते । अयम् शि-आदेशः एव "सर्वनामस्थान"संज्ञां प्राप्नोति ।

यथा - "फल + जस्" इत्यस्य प्रक्रिया इयम् -

फल + जस्
→ फल + शि [ जश्शसोः शिः 7|1|20 इति शि-आदेशः । शि सर्वनामस्थानम् 1|1|42 इत्यनेन शि-इत्यस्य सर्वनामस्थानसंज्ञा]
→ फलन् इ [नपुँसकस्य झलचः 7|1|72 इत्यनेन अजन्तस्य नपुँसकलिङ्गस्य सर्वनामस्थाने परे नुमागमः भवति ।]
→ फलान् इ [सर्वनामस्थाने चासम्बुद्धौ 6|4|8 इत्यनेन सर्वनामस्थाने परे नकारान्तस्य अङ्गस्य उपधादीर्घः ।]
→ फलानि ।

"सर्वनामस्थान"संज्ञायाः प्रयोगः सर्वनामस्थाने चासम्बुद्धौ 6|4|8 , उगिदचां सर्वनामस्थानेऽधातोः 7|1|70 एतादृशेषु सूत्रेषु कृतः अस्ति ।
One-line meaning in English
The "शि" आदेश that happens for the जस्-प्रत्यय and शस्-प्रत्यय which are attached to a नपुँसकलिङ्ग word gets the term "सर्वनामस्थान".
काशिकावृत्तिः
शि इत्येतत् सर्वनामस्थानसंज्ञं भवति । किम् इदं शि इति ? जश्शसोः शिः 7|1|20 इति शिः आदेशः । कुण्डानि तिष्ठन्ति, कुण्डानि पश्य ; दधीनि, मधूनि, त्रपूणि, जतूनि । सर्वनामस्थानप्रदेशाः सर्वनामस्थाने च असम्बुद्धौ 6|4|8 इत्येवम् आदयः ॥
`कुण्डानि` इत्यादि। `जश्शसोः शिः` 7|1|20 इति शिः, तस्य सर्वनामस्थानत्वे सति `नंपुसकस्य` स्थानम्` इति। पूर्वाचार्यैरेवेयं प्रयोजनमन्तरेणापि महतीसंज्ञा प्रणिता। तस्या इह यत् समाश्रयणम् तत् तत्कृतस्य शब्दानुशासनस्य दोषवत्त्वसूचनार्थम्। तत् पुनः स्वशास्त्रस्य पुनरुक्ततादोषपरिहारार्थम्। यदि हि तद्दोषवद्भवत्येवमस्य प्रणयनं युज्यते, नान्यथा।
कुण्डानीति । "जश्शसोझ शिः" शर्वनामस्थाने" इति वर्तमाने "नपुंसकस्य झलचः" इति नुम् । शर्वनामस्थाने चासम्बुद्धौ" इति दीर्घो यद्यपि "जसः शीः" ङपुंसकाच्च" इति विहितस्य शीशब्दस्य शब्दलूपापेक्षया नपुंसक ह्रस्वत्वे "शि" इति रूपं सम्भवति, तथापि लाक्षणिकत्वान्न तस्य ग्रहणम्, सर्वनामस्थानप्रदेशेषु शिग्रहणे सुटो ग्रहणं न स्यात् । शिसुटोरिति वचने नपुंसकसुटोऽपि ग्रहणं प्राप्नोति, अतः संज्ञा तावत्कर्तव्या । किमर्थं तु महती क्रियते ? के चिदाहुः-सर्वनाम तिष्ठत्यस्मिन्नति सर्वनामसोथानम्, नाम प्रतिपदिकम्, सर्वशब्दोऽवयवकार्त्स्यवचनः सर्वावयवयुक्तं यत्र नाम तिष्ठतीत्यर्थः, तेनान्यत्र न्यूनं नाम तिष्ठतीत्यर्थो गम्यते, किं सिद्धं भवति ? "उपेयुषः" इत्यादौ सम्प्रसारणे कृते पूर्वकृतस्येटो निवृत्तिः सिद्धा भवति; अन्यथा निवृत्तिकारणाभावात् अवतिष्ठेतेति । एवं तु कस्मिन् प्रातिपदिके किं न्यूनमिति न ज्ञायेत ! तस्मात्पूर्वाचार्यानुपालब्धुमेषा महती संज्ञा प्रणीता ॥
सिद्धान्तकौमुदी
शि इत्येतदुक्तसंज्ञं स्यात् ॥
शिसर्वनामस्थानम्। उक्तसंज्ञामिति। सर्वनामस्थानसंज्ञकमित्यर्थः। अनपुंसकस्येति पर्युदासाच्छीत्यस्य सर्वनामस्थानत्वेऽप्राप्ते वचनम्।
शि सर्वनामस्थानम्। महासंज्ञाकरणं पूर्वाचार्यानुरोधेन।
लघुसिद्धान्तकौमुदी
शि इत्येतदुक्तसंज्ञं स्यात्॥
महाभाष्यम्
शि सर्वनामस्थानम् ।। शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः ।। शि सर्वनामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेधः प्राप्नोति। कुण्डानि तिष्ठन्ति। वनानि तिष्ठन्ति। असमर्थसमासश्चायं द्रष्टव्योऽनपुंसकस्येति। न हि नञ्ञो नपुंसकेन सार्मथ्यम्। केन तर्हि ? भवतिना। न भवति नपुंसकस्येति। यत्तावदुच्यते ‐ शि सर्वामस्थानं सुडनपुंसकस्येति चेज्जसि शिप्रतिषेध इति। ।। नाप्रतिषेधात् ।। । नायं प्रसज्यप्रतिषेधः ‐ - नपुंसकस्य नेति। किं तर्हि ? पर्युदासोऽयम् ‐ यदन्यन्नपुंसकादिति। नपुंसके न व्यापारः। केनचित् यदि प्राप्नोति, तेन भविष्यति। पूर्वेण च प्राप्नोति। ।। अप्राप्तेर्वा ।। । अथवा ‐ - अनन्तरा प्राप्तिः सा प्रतिषिध्यते। कुत एतत् ? अनन्तरस्य विधिर्वा भवति प्रतिषेधो वेति पूर्वा प्राप्तिरप्रतिषिद्धा, तया भविष्यति। ननु चेयं प्राप्तिः पूर्वां प्राप्तिं बाधेत। नोत्सहते प्रतिषिद्धा सती पूर्वां बाधितुम्। यदप्युच्यते ‐ - असमर्थसमासश्चायं द्रष्टव्य इति। यद्यपि वक्तव्यः। अथवैतर्हि बहूनि प्रयोजनानि। कानि? असूर्यंपश्यानि मुखानि। अपुनर्गेयाः श्लोकाः। अश्राद्धभोजी ब्राह्मण इति।