Page loading... Please wait.
1|1|40 - क्त्वातोसुन्कसुनः
॥ तस्मै पाणिनये नम: ॥
1|1|40
SK 450
क्त्वातोसुन्कसुनः   🔊
सूत्रच्छेद:
क्त्वा-तोसुन्-कसुनः - प्रथमाबहुवचनम्
अनुवृत्ति:
अव्ययम्  [1|1|37] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
क्त्वा-तोसुन्-कसुन: अव्ययम्
सूत्रार्थ:
क्त्वा-प्रत्ययान्तशब्दाः, तोसुन्-प्रत्ययान्तशब्दाः, कसुन्-प्रत्ययान्तशब्दाः च अव्ययसंज्ञकाः भवन्ति ।
क्त्वा, तोसुन, तथा कसुन् - एते त्रयः कृत्-प्रत्ययाः सन्ति । तृतीयाध्यायस्य चतुर्थपादेषु भिन्नैः सूत्रैः एतेषाम् विधानम् क्रियते । एतेषाम् प्रयोगेन अव्ययनिर्माणं भवति । यथा -

1. समानकर्तृकयोः पूर्वकाले 3|4|21 इत्यनेन कृ-धातोः क्त्वा-प्रत्यये कृते "कृत्वा" इति अव्ययं सिद्ध्यति

2. ईश्वरे तोसुन्कसुनौ 3|4|17 इत्यनेन ईश्वर-उपपदे परे वेदेभ्यः "तोसुन्" तथा "कसुन्" प्रत्यययोः कृत्योः "अभिचरितः", "विलिखः", "वितृदः" आदीनि अव्ययानि सिद्ध्यन्ति ।

ज्ञातव्यम् - एतेषाम् सर्वेषाम् शब्दानाम् कृत्-तद्धितसमासाश्च 1|2|46 इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः ङ्याप्-प्रातिपदिकात् 4|1|1 अस्मिन् अधिकारे एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते । परन्तु तेषाम् अव्ययादाप्सुपः 2|4|82 इति लुक्-भवति ।
One-line meaning in English
The words ending in क्त्वा, तोसुन् and कसुन् प्रत्यय are called अव्यय.
काशिकावृत्तिः
क्त्वा, तोसुन्, कसुन् - इत्येवमन्तं शब्दरूपम् अव्ययसंज्ञं भवति । कृत्वा; हृत्वा । तोसुन् - पुरा सूर्यस्योदेतो राधेयः (काठकसंहिता 8.3)। पुरा वत्सानामपाकर्त्तोः (काठकसंहिता 31.15) । भावलक्षणे स्थेण्कृञ्वदिचरिहुतमिजनिभ्यस्तोसुन् 3|4|16 इति इणः, कृञश्च तोसुन् प्रत्ययः । कसुन् - सृपितृदोः कसुन् 3|4|17 । पुरा क्रूरस्य विसृपो विरप्शिन् (तैत्तिरीयसंहिता 1.1.9.3) । पुरा जत्रुभ्य आतृदः (ऋग्वेदः 8.1.12)॥
`कृत्वा,ह्मत्वा` इति। `समानुकर्तृकयोः पूर्वकाले` 3|4|21 इति क्त्वा। `उदेतोः` इति। `इण् गतौ` (धा।1045) `सार्वधातुक` 7|3|84 इति गुणः। `अपाकर्त्तोः` इति। कृञः। `विसृपः`इति।`गम्लृ` (धा।942) `सृप्लृ` (धा।983) इतौ। `आतृदः` इति।`तृदिर् हिंसानारदयोः` (धा।1447)
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः ॥
अव्ययीभावश्च - अव्ययीभावश्च ।अव्ययसंज्ञः स्या॑दिति शेषः । अधिहरीति । विभक्तयर्थेऽव्ययीभावः । हरावित्यर्थः ।
अव्ययीभावश्च - अव्ययीभावश्च । अव्ययसंज्ञः स्यात् । इहलुकि मुखस्वरोपचारयोर्निवृत्तौचे॑ति परिगणनं कर्तव्यम् । लुक्युदाहरमम् — -उपग्नि ।अव्यया॑दिति सुपो लिक् । मुखस्वरनिवृत्तौ उदाहरणम् — -उपग्निमुखः । प्रत्यग्निमुखः ।मुखं स्वाङ्ग॑मित्युत्तरपदान्तोदात्तत्वे प्राप्तेनाव्ययदिक्शब्दे॑त्यदिना प्रतिषेधः । तथाचबहुव्रीहौ प्रकृत्ये॑ति पूर्वशब्दप्रकृतिस्वर एव भवति, पूर्वपदं च समासस्वरेणाऽन्तोदात्तम् । विसर्गस्थानिकस्य सकारस्यउपचार॑इति प्राचां संज्ञा, तन्निवृत्तावुदाहरणम् — -उपपयःकारः ।उपपयःकामः । इहअतः कृकमी॑ति प्राप्तं सत्वम्अनव्ययस्ये॑ति पर्युदस्यते । परिगणनं किम् । उपागन्धीयान । इहसुबामन्त्रिते॑इति पराङ्गवद्भावेन याने॑त्यादौ मा भूदिति । तथाउपाग्निक॑मित्यादौ अव्ययसर्वनाम्ना॒मित्यकच्[च]न । उपकुम्भंमन्यः ।खित्यनव्ययस्ये॑ति वर्तमानेअरुर्द्विषदजन्तस्येति विहितो यो मुस्तस्येह प्रतिषेधो न । उपकुम्भीभूतः । इहअस्य च्वौ॑ इतीत्त्वस्य॒प्रतिषेधो न । ईस्वविधौ हि ॑अव्ययस्य च्वावितीत्वं ने॒ति प्रतिषे उच्यते, दोषाभूतमाहः दिवाभूता रात्रिरित्यत्र मा भूदिति । स्यादेतत् — स्वारादित्वेनैव सिद्धत्वात् ।तद्धितश्चे॑त्यादि चतुःसूत्री व्यर्था । तत्र हितसिलादिस्तद्धित एदाच्पर्यन्तः॑इत्यादिनाच्व्यर्थाश्चे॑त्यन्तेनाऽ‌ऽसिप्रत्ययमौणादिकं वर्जयित्वातद्धितश्चासर्वविभक्तिः॑ इत्यस्याऽर्थः सङ्गृह्रते ।कृन्मकारसन्ध्यक्षरान्तः॑इत्यनेनकृन्मेजन्तः॑इत्यस्यार्थः सङ्गृह्रते ।त्त्कातोसुन्कसुनः॒॑अव्ययीभावश्चे॑ति सूत्रद्वयं तु स्वरूपेणैव पटत इति । अत्राहुः — पुनर्वचनमनित्यत्वज्ञापनार्थम् । तेन प्रागुक्तंलुङ्मुखस्वरोपचाराः॑इति परिगणनं लभ्यते ।पुरा सूर्यस्योदेतोराधेयः॑ ।पुरा क्रूरस्य विसृपो विरप्श॑न्नित्यासिद्धयेन लोकाव्यये॑त्यत्रअव्ययप्रतिषेधे तोसुन्कसुनोरप्रितषेधः॑इति वक्ष्यते तदप्यनेनैव लभ्यत इति ।
लघुसिद्धान्तकौमुदी
एतदन्तमव्ययम्। कृत्वा। उदेतोः। विसृपः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!