॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|4
SK 2656
1|1|4
न धातुलोप आर्धधातुके   🔊
SK 2656
सूत्रच्छेद:
न - अव्ययम् , धातुलोपे - सप्तम्येकवचनम् , आर्धधातुके - सप्तम्येकवचनम् , (विषयसप्तमी)
अनुवृत्ति:
इकः  [1|1|3] - षष्ठ्येकवचनम् , गुण-वृद्धी  [1|1|3] - प्रथमाद्विवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
इक: गुणवृद्धी आर्धधातुके धातुलोपे न
सूत्रार्थ:
यदि धातोः कस्यचित् अंशस्य कस्मिंश्चित् आर्धधातुके प्रत्ययस्य विषये लोपः भवति, तर्हि तस्य धातोः इकः वर्णस्य तस्मिन् आर्धधातुकप्रत्ययस्य विषये गुणवृद्धी न भवतः ।
अर्थः एषः -
- यदि धातोः कश्चन आर्धधातुकप्रत्ययः विहितः अस्ति, तथा च
- सः प्रत्ययः धातोः कस्यचित् अंशस्य लोपं कारयति, तर्हि
- तस्य धातोः अङ्गस्य यः इक्-वर्णः, तस्य
- तस्मिन् आर्धधातुकप्रत्यये परे
- यद्यपि गुणः वृद्धिः वा (केनचित् सूत्रेण) भवितुम् अर्हतः,
- तथापि ते न भवतः ।

सूत्रार्थं सम्यक् ज्ञातुम् एकम् उदाहरणम् विस्तारेण पश्यामः । "लूञ् छेदने" अस्मात् धातोः "पुनः पुनः लूनाति" अस्मिन् अर्थे धातोरेकाचो हलादे क्रियासमभिहारे यङ् 3|1|22 इत्यनेन यङ्-प्रत्ययः भवति, तेन च "लोलूय" इति आतिदेशिकः धातुः सिद्ध्यति । यथा - लोलूयते = पुनः पुनः लूनाति । अग्रे, "यः लोलूयते सः" अस्मिन् अर्थे "लोलूय" धातोः नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3|1|134 इत्यनेन "अच्" प्रत्ययः विधीयते, येन "लोलूव" इति प्रातिपदिकं सिद्ध्यति । यः पुनः पुनः लूनाति सः = यः लोलूयते सः = लोलुवः । अस्य प्रक्रिया एतादृशी -

लू + यङ् + अच्
→ लू + लू + यङ् + अच् [सन्यङोः 6|1|9 इत्यनेन यङ्-प्रत्यये परे अङ्गस्य यः एकाच्-अवयवः तस्य द्वित्वम् भवति । द्वित्वात् अनन्तरम् यः प्रथमः "लू" तस्य पूर्वोभ्यासः 6|1|4 इत्यनेन "अभ्यास" इति संज्ञा भवति ।]
→ लो + लू + यङ् + अच् [गुणो यङ्लुकोः 7|4|82 इत्यनेन यङ्-प्रत्यये परे इगन्तस्य अभ्यासस्य गुणः भवति । उकारस्य गुणः स्थानसाधर्म्येण ओकारः ।]
→ लो + लू + अच् [यङोऽचि च 2|4|74 इत्यनेन अच्-प्रत्यये परे यङ्-प्रत्ययस्य लुक्-भवति ।]

अस्याम् अवस्थायाम् अग्रे सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन अच्-प्रत्यये परे "लू" इत्यस्य गुणादेशः प्राप्नोति । परन्तु एषः गुणादेशः न धातुलोप आर्धधातुके 1|1|4 अनेन सूत्रेण निषिध्यते । तत् इत्थम् -
(1) आर्धधातुकं शेषः 3|4|114 इत्यनेन अच्-प्रत्ययः आर्धधातुकप्रत्ययः अस्ति ।
(2) अच्-प्रत्ययस्य अङ्गम् "लोलूय" इति धातुः अस्ति ।
(3) अच्-प्रत्ययस्य निमित्तेन धातोः यः अंशः "यकारः" तस्य लोपः क्रियते ।
(4) अङस्य यः इक्-वर्णः तस्य गुणादेशः सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन विधीयते ।
एवम् वर्तमानसूत्रे निर्दिष्टाः सर्वाः स्थितयः अत्र दृश्यन्ते । अतः वर्तमानसूत्रस्य अत्र प्रसक्तिः अस्ति । अनेन सूत्रेण अत्र प्राप्तस्य गुणस्य निषेधः भवति ।

अग्रे प्रक्रिया एवं वर्तते -
→ लो + लुवङ् + अ ["लु" इत्यस्य गुणादेशः न धातुलोप आर्धधातुके 1|1|4 अनेन सूत्रेण निषिध्यते, अतः अचि श्नुधातुभ्रूवाम् य्वोः इयङ्-उवङौ 6|4|77 इति लू-इत्यस्य उवङ्-आदेशः विधीयते । ङिच्च 1|1|53 इति अयम् अन्त्यादेशः]
→ लोलुव् + अ [ङकारस्य इत्संज्ञा, लोपः । अकारः उच्चारणार्थः]
→ लोलुव ।

अनेन प्रकारेण अस्यां प्रक्रियायां गुणस्य वर्तमानसूत्रेण निषेधः भवति ।

"पूञ् पवने" अस्मात् धातोः "यः पुनः पुनः पूनाति सः" अस्मिन् अर्थे "पोपुव" अयं प्रातिपदिकं सिद्ध्यति । तस्यापि इयमेव प्रक्रिया ।
One-line meaning in English
If a part of धातु gets removed due to an आर्धधातुक प्रत्यय, then any गुण or वृद्धि that might happen on the last इक् letter of the remaining अङ्ग is prohibited in presence of that आर्धधातुक प्रत्यय.
काशिकावृत्तिः
धात्वेकदेशो धातुः, तस्य लोपो यस्मिन्नार्धधातुके, तदार्धधातुकं धातुलोपं, तत्र ये गुणवृद्धी प्राप्नुतः, ते न भवतः । लोलुवः, पोपुवः, मरीमृजः । लोलूयादिभ्यो यङन्तेभ्यः पचाद्यचि 3|1|134 विहिते यङोऽचि च 2|4|74 इति यङो लुकि कृते तम् एव अचम् आश्रित्य ये गुणवृद्धी प्राप्ते तयोः प्रतिषेधः । धातुग्रहणं किम् ? लूञ्, लविता, रेडसि, पर्णं नयेः । अनुबन्धप्रत्ययलोपे मा भूत् । रिषेर्हिंसार्थस्य विच्प्रत्ययलोप उदाहरणं रेडिति । आर्धधातुके इति किम् ? "त्रिधा बद्धो वृषभो रोरवीति" (ऋग्वेदः 4.58.3) - सार्वधातुके मा भूत् । इकः इत्येव - अभाजि, रागः । बहुव्रीहिसमाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ॥
उक्तपरिमाणस्य शब्दस्य धातुसञ्ज्ञा कृता। तस्य सर्वस्य लोपे कृते यत्र गुणवृद्धी प्राप्नुतस्तदार्धधातुकेन सम्भवत्येव, तत् किं प्रतिषेधेन? तस्मात् प्रतिषेधविधानसामथ्र्याद्धात्वेकदेशे धातुशब्दो वर्तत इति मत्वाह- `धात्वेकदेशो धातुः` इति। `धातुलोपे`इति। यद्ययं धातोर्लोपो धातुलोप इति तत्पुरूषः, तत आर्धधातुकग्रहणं गुणवृद्धिविशेषणं वा स्यात्- `धा4तुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवतः` इति। लोपविशेषणं वा स्यात्-` आर्धधातुकनिमित्ते धातुलोपे सति गुणवृद्धी न भवतः` इति? पूर्वस्मिन् `क्नोपयति`इत्यत्र प्रतिषेधः प्राप्नोति। तत्र प्रतिविधानं कर्तव्यम्। द्वितीये तु न भवत्येष दोषः। न हि `क्नोपयति` इत्यत्रार्धधातुकनिमित्तलोपः, किं तर्हि, कतवल्निमित्तकः। किन्तु द्वितीये पक्षे प्रेद्धमित्यत्र प्राप्नोति। अस्ति ह्रत्रार्धधातुकनिमित्तो लोपः। ननु चेग्लक्षणयोर्गुणवृद्धयोरयं प्रतिषेधः; न चात्रेग्लक्षणो गुणः? नैतदस्ति; अत्रापीग्लक्षण एव गुणो यो ह्रुभयोः स्थाने भवति, लभते सोऽन्तयतरव्यपदेशम्। तथा हि- `मातुः, पितुः` इत्यत्रोभयोः स्थाने भवन् रपरोऽण् भवति। तस्माल्लोपविशेषणपक्षेऽपि तत्पुरुषे प्रतिविधानंकत्र्तव्यमेव। बहुव्रीहौ तु न किञ्चित् प्रतिविधेयमिति मन्यमानो बहुव्रीहिरयमिति दर्शयन्नाह- `तस्य` इत्यादि। एतेन लोपविशेषणमार्धधातुकमित्येतद्दर्शितं भवति। एवं चार्धधातुके सम्भवति यदि तत्तस्य निमित्तं भवति, ततश्च क्नोपयतीत्यत्रातिप्रसङ्गोनावतरति। `तत्र` इत्यादि। नापि गुणवृद्ध्योरार्धधातुकं निमित्त्वेन विशेषणमित्या-ख्यातम्। ततश्च प्रेद्धमित्यत्राप्यतिप्रसङ्गो न भवति, न ह्राद्गुण आर्धधातुक-निमित्तः। `ये ते` इति। स्त्रीलिङ्गनिर्देशः `गुणवृद्धी`इत्यनेन स्त्रीलिङ्गेन सामानाधिकरण्यात्। अस्य तु स्त्रीलिङ्गता `परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः` 2|4|26 इत्यतिदेशात्। अर्थस्य च सोऽतिदेश इति यत्तदोरपि तत्रार्थे वर्तमानयोः स्त्रीलिङ्गता भवति। ननु च नियमस्य प्रकृतत्वात् तस्यैवायं प्रतिषेधो युक्तः, तत् किमित्येवमाह-`तत्र ये गुणवृद्धी प्राप्नुतस्ते न भवतः` इति। तयोः प्राधान्यात्। तत् पुनर्नियमेनोपक्रियमाणत्वात्, नियमस्य तु तादथ्र्यादप्राधान्यम्। तस्माद्गुणवृद्धयोरेवायं प्रतिषेधो न्याय्यः।`लोलुवः, पोपुवः` इति। `लूञ् छेदने` (धातुपाठः-1483), `पूञ् पवने (धातुपाठः-1482)इत्येताभ्यां `धातोरेकाचः` 3|1|22 इत्यादिना यङ्, `सन्यङो` 6|1|9 इति द्विर्वचनम्, `गुणोयङलुकोः` 7|4|82 इत्यभ्यासस्य गुणः, यङन्तात् पचाद्यचि `यङोऽचि च` 2|4|74 इति लुकि तन्निमित्तगुणप्रतिषेधः, तस्मिन् सति `अचि श्नुधातुकभ्रुवाम्` 6|4|77 इत्यादिनोवङ। `मरीमृजः` इति। `मृजू शुद्धौ` (धातुपाठः-1066), पूर्ववद्यङ, द्विर्वचनम्, उरदत्त्वम्, 7|4|66 `हलादिः शेषः` 7|4|60 `रीगृदुपधस्य च` 7|4|90 इतिरीगागमः। लोलूयादिभ्य इत्यादिशब्देन `पोपूय, मरीमृज्य` इत्येतयोग्र्रहणम्। `लूञ्-लविता` इति। यावदेव धातुसञ्ज्ञा न भवति तावदेव `सर्वविधिभ्यो लोपविधिर्बलीयात्` (व्या।प।70) इति ञकारस्य लोपो भवति, पश्चाल्लू इत्येतस्य धातुसञ्ज्ञा, तेन ञकारलोपो धातुलोपो न भवतीति भवति प्रत्युदाहरणम्। `रेड् ` इति। `रिष रुष हिंसायाम्` (धातुपाठः-1232,1230), `अन्येभ्योऽपि दृश्यन्ते` 3|2|75 इति विच्, इकारचकारौ `वेरपृक्तस्य` 6|1|65 इत्यत्र सामान्यग्रहणाविघातार्थो, वकारस्य चानेनैव लोपः, `पुगन्तलघूपध्स्य च` 7|3|86 इति गुणः। `झलां जशोऽन्ते` 8|2|39 इति षकारस्य डकारः। ननु च द्वयङ्गविकले द्वे अपि एते प्रत्युदाहरणे, तथैव ह्रत्र धातुलोपो न भवति, एवमार्धधातुकनिमि-त्तोऽपि न भवति, नैतदस्ति; सति हि धातुग्रहणे पदद्वयसान्निध्याद्बहुव्रीहिर्लभ्यते। तस्मश्च सत्यार्धधातुकनिमत्तत्वं लोपस्य। असति हि धातुग्रहणे `न लोप आर्धधातुके` इत्युच्यमाने `आर्धधातुकाश्रये ये गुणवृद्धी प्रतिषेधः स्यात्। `रोरवीति` इति। `रु शब्दे` (धातुपाठः- 1034) इत्यस्माद्यङ, `बहुलं छन्दसि` 2|4|73 इति यङो लुक्, लट्,तिप्, शप्। अदादित्वाच्छपो लुक् (2.4.72(,`यङो वा`7.3.94) इतीट्। अत्रसार्वधातुकनिमित्तो गुणो न प्रतिषिध्यते। ननु च द्वयङ्गविकलमेवेदम्, यथैवह्रार्धधातुकनिमित्तो गुणो न भवत्येवं लोपोऽपि? नैतदस्ति; सति ह्रार्धधातुकग्रहणेऽन्यपदार्थत्वे न तस्याश्रयणात् तन्निमित्तो लोपो लभ्यते, तस्मश्च सति `न धातुलोपे` इतीयत्युच्यमाने `ये केचन गुणवृद्धी ते च लोपे सति भवतः` इत्येष वाक्यार्थःस्यात्। ततश्चाविशेषितत्वाल्लोपस्य लोपमात्रे प्रतिषेधो विज्ञायते। `अभाजि` इति। `भञ्जो आमद्र्दने` (धातुपाठः- 1453),लुङ्, च्लिः, `चिण् भावकर्मणोः` 3|1|66 इति चिण्,`इणो लुक्` 6|4|104 इति तशब्दस्य लुक्, `भञ्जेश्च चिणि` 6|4|33 इत्यनुनासिकलोपः। `रागः` इति। अत्रापि `घञि च भावकरणयोः` 6|4|27 इति नलोपः। `रञ्ज रागे` (धातुपाठः-1167), भावे घञ्। यद्यप्यत्र रुआवमस्ति तथापीक इत्यत्रानुवृत्तेरिह चेकोऽसम्भवात् `अत उपधायाः` 7|2|116 इति वृद्धेः प्राप्तायाः प्रतिषेधो न भवति। `क्नोपयति` इति। `क्नूयी शब्दे` (धातुपाठः-485), `हेतुमति च` 3|1|26 इति णिच्, `अर्त्तिह्यी` गुणः। `प्रेद्धम्` इति। `ञीन्धी दीप्तौ` (धातुपाठः-1448), क्तः, `अनिदिताम्` 6|4|24 इत्या-दिनानुनासिकलोपः, `झषस्तर्थोर्घोऽधः` 8|2|40 इति तकारस्य धत्वम्। `झलां जश् झशि` 8|4|52 इति धातुधकारस्य दकारः, प्रगतमिद्धमिति `कुगतिप्रादयः` 2|2|18 इति समासः।
"दुरीणो लोपश्च" दुःशब्द उपपदे इणो धातोरप्रत्ययो भवति, धातोश्च लोपः । दुःखेन ईयतेउप्राप्यते दूरमित्यत्र यद्यपि कृत्स्नस्य धातोर्लोपः संभवति, तथाप्येवंविषये गुणवृद्ध्योः प्राप्त्यभावादेकदेशे धातुशब्दो वर्तत इत्याह--धात्वेकदेश इति । "धातुलोप" इति तत्पुरुषे सति आर्द्धधातुकग्रहणं लोपविशेषणम्, गुणवृद्धिविशेषणम्, उभयविषेषणं वा-इति त्रयः कल्पाः । तत्र यदि लोपविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सति यत्किञ्चिद् निमिते गुणवृद्धी न भवत इत्यर्थः स्यात् । ततश्च प्रेद्धम् इत्यत्र प्रपूर्वादिन्धेः क्तप्रत्यये तन्निमिते नलोपे सति प्राप्नुवत आद्गुणस्यापि निषेधः स्यात् । यद्यपीक इत्यनुवर्तते, तथापि द्वयोः षष्ठीनिर्द्दिष्टयोः स्थाने भवन्नन्यतरव्यपदेशं लभत इति स्यादेव । न चेह सूत्रे "इक" इत्यस्य रूपपरत्वे प्रमाणमस्ति । उतरसूत्रे तु प्रमाणं वक्ष्यामः । ननु "पूर्वं धातुः साधनेन युज्यते" इत्यस्मिन् दर्शने प्रथमोपनतक्तप्रत्ययापेक्षत्वादुपधालोपोऽन्तरङ्ग इति तदपेक्षः प्रतिषेधोऽप्यन्तरङ्गः, "पूर्वं धातुरुपसर्गेण युज्यते" इति तु दर्शने प्रथमोपनतोपसर्गापेक्षत्वाद् गुणोऽन्तरङ्गः, ततश्च "असिद्धं बहिरङ्गमन्तरङ्गे" इति प्रतिषेधो न भविष्यति ? नैतदस्ति; ङाजानन्तर्ये" इति निषेधात् । अथ गुणवृद्धिविशेषणमार्द्धधातुकग्रहणम्, ततोऽयमर्थः स्यात्--यत्किञ्चन निमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति ; तदा प्रेद्धमित्यत्र दोषो न, गुणस्यातन्निमितत्वात्; किन्तु क्नोपयतीत्यत्र "क्नूयी शब्दे" इत्यस्माण्णिचि पुकि च यलोपे पुगन्तलक्षणस्य गुणस्य निषेधः स्याद् । अत उभयविशेषणम्--आर्द्धधातुकनिमिते धातुलोपे सत्यार्द्धधातुकनिमिते गुणवृद्धी न भवत इति । तत्र सकृच्छ्4%अतस्योभयविशेषणत्वमेव तावद् दुर्लभम् ? अथापि स्याद्, एवमपि लोपगुणवृद्धीनामेकार्द्धधातुकनिमितत्वं न लभ्यते । ततश्च विभज्यान्वाख्यानपक्षे भेद्यत इत्यत्र भिदेर्ण्यन्तात्कर्मणि यकि भिद् अ इ अ य इति स्थिते नित्यत्वात्पूर्वं णिलोपे कृते यकमपेक्ष्य प्रवृते? प्रत्ययलक्षणेन णिचमपेक्ष्य प्राप्नुवतो गुणस्य निषेधः स्याद्, द्वयोरप्यार्द्धधातुकनिमितत्वादिति तत्पुरुषे सति सर्वथा दोषं दृष्ट्वाऽऽह--ऽतस्य लोपो यस्मिन्निऽति । अस्मिन्पक्षे धातोर्लोपो यस्मिन्निति अन्यपदार्थभूतेनार्द्धधातुकेन लोपो विशेष्यते, साक्षाच्च गुणवृद्धी, धातोर्लोपो यस्मिन् तस्मिन्निति । एकार्द्धधातुकनिमितत्वं च लोपगुणवृद्धीनां लभ्यत इति न कश्चिद् दोषः । ऽते न भवतऽ इति । अनेन गुणवृद्ध्योरयं निषेधः, न पूर्वसूत्रव्यापारस्येति दर्शयति । पदोपस्थापनं हि पूर्वसूत्रव्यापारः । न चैवम्भूत आर्द्धधातुके तस्य प्रसङ्गः, "दीधीवेवीटाम्" इति चासम्बद्धं स्यादुपस्थाननिषेधे । ऽलोलुवऽ इत्यादि । लूपूभ्यां यङ्, द्विर्वचनम्, "गुणो यङ्लुकोः" गुणे निषिद्धे उवङ् । ऽमरीमृज ऽइति । "रीगृदुपधस्य च" । लोलूयादिभ्य इत्यादिना सूत्रार्थमुदाहरणेषु दर्शयति । ननु च यङ्कारस्यातो लोपे कृते तस्या स्थानिवत्वादेव गुणवृद्धी न भविष्यतः, यथा--पापचक इति "अत उपधायाः" इति वृद्धिः, न ह्यत्रानेन निषेधः सिध्यति, किं कारणम् ? अनिग्लक्षणत्वात् । नालोपो लभ्यते, "यङेऽचि च " इति समुदायलुका प्रतिपदविहितेन बाधितत्वात् । योगविभागात्सिद्धम्--अतो लोपो भवत्यार्द्धधातुके, ततो "यस्य" य इत्यस्य समुदायस्य योऽकारस्तस्यापि लोपो भवति । किमर्थमिदम् ? विशेषविहितेन समुदायलुकाऽतो लोपो मा बाधीति । तेन स्थानिवत्वादेव गुणवृद्धी न भविष्यतः । यथैव तर्हि गुणवृद्धी न भवत एवं चेक्षियः, चेक्रियः, लोलुवः, तोष्टुअवः, सुश्रुव इतीयणुवङवप्यच्प्रत्ययमपेक्ष्य न स्याताम् । मा भूतामचि, य एव त्वसौ स्थान्यकारस्तदाश्रयौ भविष्यतः । स हि यकारे लुप्ते प्रत्ययसंज्ञकः । ननु क्षेत्रियः तोष्टुअव इत्यत्रान्तरङ्गानपि विधीन् बहिरङ्गो लुग् बाधत इति अकृत्सार्वधातुकयोर्दीर्घात् प्रागेव यङे लुकि कृते स्थानिवद्भावे सत्यपि चेक्षि अ अ, तोष्टुअ अ अ इति स्थिते स्थान्यकारेण सह लघूपधमङ्गं संजातमिति अच्प्रत्यये गुणः स्यादेव ; न अन्तरङ्गावियणुवङै भविष्यतः, अशिश्रियद् अदुद्रुवद् इति यथा । अतः स्थानिवत्वादेव सिद्धम्, नार्थोऽनेन ? उच्यते; सर्वत्र दीर्घान्तेषु ह्रस्वान्तेषु चेयणुवङेः कृतयोः पुनर्लघूपधलक्षणो गुणः प्राप्नोति । न च पुनरपि स्थानिवद्भावः, आदिष्टादचः पूर्वत्वात् । किञ्च यद्यतो लोपः क्रियेत, जङ्गम इत्यत्र "गमहन्" इत्युपधालोपः स्यात् । अथात्रानङीति प्रतिषेधस्तर्हि दरीदृश इत्यत्र "ऋदृशोः" इति गुणः स्याद्; देद्य इत्यत्र "दीङे युडचि" इति युट् स्यात्; सनीस्रंसः, दनीध्वंस इत्यत्र "अनिदिताम्" इत्युपधालोपः स्यात्; यायावर इत्यादिष्वाकारलोपः स्यात् । यदा पुनर्योगविभागमकृत्वा विशेषविहितः समुदायलुक् क्रियते, तदा हलचोरादेशस्य स्थानिवत्वाभावादुपधालोपादयो न भवन्तीत्यवश्यं समुदायस्य लुगेषितव्यः । एवं च लोलुव इत्यादावपि गुणवृद्धी स्यातामिति सूत्रमपि कर्तव्यम् ॥ ऽलूञ् लवितेऽति । प्रागेव धातुसंज्ञाया भवन्ननुबन्धलोपो धातुलोपो न भवति । ऽरेडसीऽति । "रुष रिष हिंसायाम्" । "अन्येभ्योऽपि दृश्यन्ते" इति विच्, वेरपृक्तस्य लोपः--न धातुलोपो भवति । नन्वसत्यपि धातुग्रहणे लुप्यतेऽस्मिन्नित्यधिकरणसाधनलोपशब्दस्याश्रयणादनैमितिकेऽनुबन्धप्रत्ययलोपे न भविष्यति । तत्र लोपशब्दो हि संज्ञाशब्दः, कथमस्याधिकरणसाधनता लभ्यते । ऽरोरवीतीऽति । "रु शब्दे" यङ्लुकि तिपि रूपम् । नन्वसत्यप्यार्धधातुकग्रहणे धातोर्लोपो यस्मिन्निति बहुव्रीहिर्विज्ञास्यते, रोरवीतीत्यत्र च यङ्लुगनैमितिकः । न ह्यार्द्धधातुकग्रहणं बहुव्रीहित्वे प्रमाणम्; सत्यपि तस्मिंस्तत्पुरुषसम्भवात् । इदं तर्हि प्रयोजनम्--"तुर्वी थुर्वी धुर्वी हिंसार्थाः", मुर्छा मोहसमुच्छ्राययोः, तेभ्यो यङ्लुगन्तेभ्यस्तिबादौ सार्वधातुके परतो राल्लोपे तोतोर्ति मोमोर्तीत्यादौ छरवोर्लोपस्य गुणस्य चैकनिमितत्वान्निषेधः स्यादेव । ऽइक इत्येवेऽति । इक इत्यस्यानुवृत्तिं प्रति न शङ्का कार्येत्येवशब्दस्यार्थः । अतः अभाजि, राग इति "भञ्जेश्च चिणि", "घञि च भावकरणयोः" इत्युपधालोपः ॥ प्रक्रियातर्कगहनप्रविष्टो हृष्टमानसः । हरदतहरिः स्वैरं विहरन् केन वार्यते ॥
सिद्धान्तकौमुदी
धात्वंशलोपनिमित्ते आर्धधातुके परे इको गुणवृद्धी न स्तः इति नेह निषेधः । तिबादीनामनार्धधातुकत्वात् । तोतोर्ति ।हलि च (कौमुदी-354) इति दीर्घः । तोतूर्तः । तोतूर्वति । तोथोर्ति । दोदोर्ति । दोधोर्ति । मुर्छा । मोमूर्च्छीति । मोमोर्ति । मोमूर्तः । मोमूर्छतीत्यादि । आर्धधातुक इति विषयसप्तमी । तेन यङि विवक्षिते अजेर्वी । वेवीयते । अस्य यङ्लुङ्नास्ति । लुकापहारे विषयत्वाभावेन वीभावस्याप्रवृत्तेः ॥। इति तिङन्तयङ्लुक्प्रकरणम्‌ ।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ज्वर रोगे। ञित्वरा संभ्रमे। अत्र वृत्तौ `झलादौ क्ङिती`त्युक्तं तत्र क्ङितीत्येतद्रभयसकृतमेवेत्याह-- क्ङितीति नानुवर्तत इति। अवतेस्तुनीति। `ज्वरत्वरे`त्युपधावकारयोरूठि गुणे च कृते मन्प्रत्ययस्य टिलोपे चोमिति सिध्यतीत्यर्थः। ज्वरादेरुदाहरणं क्विपि जूः। जुरौ। जुरः। झलादौ तु-- जूर्तिः। जूर्णः। जूर्णवान्। त्वर-- तूः। तुरौ। तुरः। तूर्तिः। तूर्णः। तूर्णवान्। रिउआवि- स्रूः। रुआउवौ। रुआउवः। रुआऊतिः। अवि-- ऊः। उवौ। उवः।ऊतिः। मव-- मूः। मुवौ। मूतः। मूतिः। मामोषीत्यादि। ईट्पक्षे मामवीषि। मामवीमि। मामवीतु। अमामवीत्। अमामवीरिति बोध्यम्। राल्लोपः। `च्छ्वोः शू`डित्तश्च्छ्वोरित्यनुवर्तते। क्वावुदाहरणं--तूः। तुरौ तुरः। धुर्वी-- धूः। धुरौ। धुरः। मुर्च्छा--मूः। मुरौ। मुरः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
न धातुलोप आर्धधातुके धातुग्रहणं किमर्थम्? इह मा भूत्। लूञ्ञ्- लविता। लवितुम्। पूञ्ञ्- पविता। पवितुम् । आर्धधातुकग्रहणं किमर्थम्? त्रिधा बद्धो वृषभो रोरवीति । किं पुनरिदमार्धधातुकग्रहणं लोपविशेषणम्। आर्धधातुकनिमित्ते धातुलोपे सति ये गुणवृद्धी प्राप्नुतस्ते न भवत इति। आहोस्विद् गुणवृद्धिविशेषणमार्धधातुकग्रहणम्। धातुलोपे सत्यार्धधातुकनिमित्ते ये गुणवृद्धी प्राप्नुतस्ते न भवत इति । किं चातः? यदि लोपविशेषणम्। उपेद्धः प्रेद्धः अत्रापि प्राप्नोति। अथ गुणवृद्धिविशेषणम्। क्नोपयतीत्यत्रापि प्राप्नोति । यथेच्छसि तथास्तु। अस्तु लोपविशेषणम् । कथम् उपेद्धः प्रेद्ध इति? बहिरङ्गो गुणः। अन्तरङ्गः प्रतिषेधः। असिद्धं बहिरङ्गमन्तरङ्गे । यद्येवं नार्थो धातुग्रहणेन। इह कस्मान्न भवति। लूञ्ञ् लविता। लवितुम्। पूञ्ञ्- पविता पवितुम्। आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः। अथवा पुनरस्तु गुणवृद्धिविशेषणम् । ननु चोक्तं क्नोपयतीत्यत्रापि प्राप्नोति ? नैष दोषः। निपातनात् सिद्धम्। किं निपातनम्। चेले क्नोपेः इति । परिगणनं कर्तव्यम्। ।। यङ्यक्क्यवलोपे प्रतिषेधः ।। । यङ्यक्क्यवलोपे प्रतिषेधो वक्तव्यः। यङ्। बेभिदिता। मरीमृजः। यक्। कुषुभिता। मगधकः। क्य। समिधिता। दृषदकः। बलोपे- जीरदानुः। किं प्रयोजनम् ? ।। नुम्लोपेस्रिव्यनुबन्धलोपेऽप्रतिषेधार्थम् ।।। नुम्लोपे स्रिव्यनुबन्धलोपे च प्रतिषेधो मा भूदिति। नुम्लोपे। अभाजि। रागः। उपबर्हणम्। स्रिवेः अस्रेमाणम्। अनुबन्धलोपे- लूञ्ञ् लविता लवितुम्। यदि परिगणनं क्रियते स्यदः प्रश्रथः हिमश्रथ इत्यत्रापि प्राप्नोति । वक्ष्यत्येतत्- निपातनात् स्यदादिषु इति। तत्तर्हि परिगणनं कर्तव्यम् ? न कर्तव्यम्। नुम्लोपे कस्मान्न भवति ? इक्प्रकारणान्नुम्लोपे वृद्धिः। इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। न चैषेग्लक्षणा वृद्धिः। यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्यदः हिमश्रथः इत्यत्र न प्राप्नोति। इह च प्राप्नोति । अवोदः एधः ओद्यः इति । ।। निपातनात्स्यदादिषु ।।। निपातनात् स्यादादिषु प्रतिषेधो भविष्यति। न च भविष्यति । यदीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। स्रिव्यनुबन्धलोपे कथम् ? प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। आर्धधातुकनिमित्ते लोपे प्रतिषेधः। न चैष आर्धधातुकनिमित्तो लोपः । यद्यार्धातुकनिमित्ते लोपे प्रतिषेधः। जीरदानुरित्यत्र न प्राप्नोति । नैतज्जीवे रूपम्। रकि एतद् ज्यः सम्प्रसारणं भवति। यावता चेदानीं रकि जीवेरपि सिद्धं भवति । कथमुपबर्हणम् ? बृहिः प्रकृत्यन्तरम्। कथं ज्ञायते बृहिः प्रकृत्यन्तरमिति ? अचीति हि लोप उच्यते। अनजादावपि दृश्यते-निबृह्यते। अनिटीति चोच्यते। इडादावपि दृश्यते- निबर्हिता निबर्हितुम् इति। अजादावपि न दृश्यते- बृहयति। बृंहकः। तस्मान्नार्थः परिगणनेन । यदि परिगणनं न क्रियते। भेद्यते छेद्यते अत्रापि प्राप्नोति । नैष दोषः। धातुलोप इति नैवं विज्ञायते- धातोर्लोपो धातुलोपो धातुलोपे इति। कथं तर्हि ? धातोर्लोपो यस्मिंस्तदिदं धातुलोपं धातुलोपे इति। तस्मादिग्लक्षणा वृद्धिः । यदि तर्हीग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः। पापचकः। पापठकः। मगधकः। दृषदकः। अत्र न प्राप्नोति । अल्लोपस्य स्थानिवत्त्वात्। अकारलोपे कृते तस्य स्थानिवद्भावात् गुणवृद्धी न भविष्यतः । अनारम्भो वा पुनरस्य योगस्य न्याय्यः । ।। अनारम्भो वा ।। कथं बेभिदिता। मरीमृजकः। कुषुभिता। मगधकः। समिधिता इति ? अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । यत्र तर्हि स्थानिवद्भावो नास्ति तदर्थमयं योगो वक्तव्यः। क्व च स्थानिवद्भावो नास्ति? यत्र हलचोरादेशः। लोलुवः। पोपुवः। मरीमृजः। सरीसृपः इति । अत्राप्यकारलोपे कृते तस्य स्थानिवद्भावाद् गुणवृद्धी न भविष्यतः । लुकि कृते न प्राप्नोति। इदमिह सम्प्रधार्यं लुक् क्रियतामल्लोपो वेति। किमत्र कर्तव्यम्? परत्वादल्लोपः। नित्यो लुक्। कृतेप्यल्लोपे प्राप्नोति अकृतेपि प्राप्नोति। लुगप्यनित्यः। कथम्। अन्यस्य कृते लोपे प्राप्नोति, अन्यस्याकृते। शब्दान्तरस्य च प्राप्नुवन् विधिरनित्योभवति । अनवकाशस्तर्हि लुक्। सावकाशो लुक्। कोऽवकाशः? अवशिष्टः। अथापि कथंचिदनवकाशो लुक् स्यादेवमपि न दोषः। अल्लोपे योगविभागः करिष्यते। अतो लोपः। ततो यस्य। यस्य च लोपो भवति। अत इत्येव। किमर्थमिदम्। लुकं वक्ष्यति तद्बाधनार्थम्। ततो हलः। हल उत्तरस्य यस्य च लोपो भवति। इह तर्हि परत्वाद् योगविभागाद्वा लोपो लुकं बाधेत। कृष्णो नोनाव वृषभो यदीदम्। (ऋ 1,79,2) नोनूयतेर्नोनाव। समानाश्रयो लुक् लोपेन बाध्यते। कश्च समानाश्रयः? यः प्रत्ययाश्रयः। अत्र च प्रागेव प्रत्ययोत्पत्तेर्लुग् भवति। कथं स्यदः प्रश्रथः हिमश्रथः। जीरदानुः। निकुचितः इति। ।। उक्तं शेषे ।।। किमुक्तम्। निपातनात् स्यदादिषु। प्रत्ययाश्रयत्वादन्यत्र सिद्धम्। रकिः ज्यः सम्प्रसारणम्। निकुचितेऽप्युक्तम्। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति।