Page loading... Please wait.
1|1|39 - कृन्मेजन्तः
॥ तस्मै पाणिनये नम: ॥
1|1|39
SK 449
कृन्मेजन्तः   🔊
सूत्रच्छेद:
कृत् - प्रथमैकवचनम् , मेजन्तः - प्रथमैकवचनम्
अनुवृत्ति:
अव्ययम्  [1|1|37] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
मेजन्त: कृत् अव्ययम्
सूत्रार्थ:
यः कृत्-प्रत्ययः मकारान्त / एजन्तः अस्ति, तेन निर्मिताः शब्दाः अव्ययसंज्ञकाः भवन्ति ।
अष्टाध्याय्याम् धातोः 3|1|91 अस्मिन् अधिकारे सर्वे कृत्-प्रत्ययाः विहिताः सन्ति । एतेषु ये कृत्-प्रत्ययाः मकारान्ताः सन्ति, ये च "एच्" प्रत्याहारान्ताः अन्ति, तेषाम् प्रयोगेन अव्ययनिर्माणम् भवति । यथा -

1) आभीक्ष्ण्ये णमुल् च 3|4|22 अनेन निर्दिष्टः णमुँल्-प्रत्ययः मकारान्तः अस्ति (यतः अत्र उँकार-लकारयोः इत्संज्ञा लोपश्च भवति) । अतः अस्मिन् प्रत्यये कृते निर्मितस्य शब्दस्य अव्ययसंज्ञा भवति । यथा -
स्मृ + णमुँल्
→ स्मृ + अम् [इत्संज्ञालोपः]
→ स्मार् + अम् [अचो ञ्णिति 7|2|115 इति उपधावृद्धिः । ऋकारस्य वृद्धिः उरण् रपरः 1|1|51 इति रपरः आकारः]
→ स्मारम् [कृन्मेजन्तः [11।39]] इति अव्ययसंज्ञा ।

2) तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः 3|4|9 अनेन सूत्रेण वेदानां विषये से, सेन्, असे, असेन् एतादृशाः प्रत्ययाः पाठ्यन्ते । एतेषु से, असे, क्से, अध्यै, कध्यै, शध्यै, तवै एते प्रत्ययाः एच्-प्रत्ययान्ताः सन्ति । अतः एतेषाम् प्रयोगेन अपि अव्ययाः सिद्ध्यन्ति । यथा -
पा + शध्यै
→ पा + शप् + अध्यै [कर्त्तरि शप् 3|1|68 इति सार्वधातुके प्रत्यये परे औत्सर्गिकं विकरणम् "शप्"]
→ पिब् + अ + अध्यै [पाघ्राध्मास्थाम्ना... 7|3|78 इति पा-इत्यस्य पिब्-आदेशः]
→ पिबध्यै

ज्ञातव्यम् - एतेषाम् सर्वेषाम् शब्दानाम् कृत्-तद्धितसमासाश्च 1|2|46 इत्यनेन प्रातिपदिकसंज्ञा भवति । अतः ङ्याप्-प्रातिपदिकात् 4|1|1 अस्मिन् अधिकारे एतेभ्यः सुप्-प्रत्ययाः विधीयन्ते । परन्तु तेषाम् अव्ययादाप्सुपः 2|4|82 इति लुक्-भवति ।

प्रश्नः - अस्मिन् सूत्रे केवलं "कृत् मेच्" इति उच्यते चेदपि येन विधिस्तदन्तस्य 1|1|72 इत्यनेन "मेच्" इत्यस्य अर्थः "मकारान्तः / एच्-वर्णान्तः" इत्येव भवति, यतः अत्र "मेच्" इति विशेषणम्, "कृत्" इति विशेष्यम् च अस्ति । एवमस्ति चेत् अस्मिन् सूत्रे "अन्त" शब्दः किमर्थम् स्वीकृतः ?
उत्तरम् - अस्मिन् विषये तत्त्वबोधिनिकारः वदति - "येन विधिस्तदन्तस्य इत्यनेन एव सिद्धे सूत्रे अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थं" । इत्युक्ते, अत्र अन्त-ग्रहणेन एतत् स्पष्टीक्रियते यत् केवलं धातुपाठे निर्दिष्टानां धातूनां विषये एव अस्य सूत्रस्य प्रसक्तिः स्यात्, आतिदेशिक-धातूनां विषये न ।
One-line meaning in English
The words formed using a मकारान्त कृत्-प्रत्यय or a कृत्-प्रत्यय that ends in a letter of the "एच्" प्रत्याहार are called अव्ययs.
काशिकावृत्तिः
कृद् यो मकारान्तः, एजन्तश्च तदन्तं शब्दरूपम् अव्ययसंज्ञं भवति । स्वादुङ्कारं भुङ्क्ते ; सम्पन्नङ्कारं भुङ्क्ते ; लवणङ्कारं भुङ्क्ते । एजन्तः - वक्षे रायः ; ता वामेषे रथानाम् (ऋग्वेदः 5.6.63) ; ऋत्वे दक्षाय जीवसे (ऋग्वेदः 10.5.74); ज्योक् च सूर्यं दृशे (ऋग्वेदः 10.5.74) । "वक्षे" इति वचेः तुमर्थे सेसेनसे... 3|4|9 इति सेप्रत्यये कुत्वे षत्वे च कृते रूपम् । "एषे" इति इणः सेप्रत्यये गुणे षत्वे च कृते रूपम् । "जीवसे" इति जीवेः असे प्रत्यये रूपम् । "दृशे" इति दृशेः केन्प्रत्ययो निपात्यते दृशे विख्ये च 3|4|11 इति । अन्तग्रहणम् औपदेशिकप्रतिपत्त्यर्थम्; इह मा भूत् - आधये, चिकीर्षवे, कुम्भकारेभ्यः इति ॥
`स्वादुङ्कारं भुङ्क्ते` इति। `स्वादुमि णमुल्` 3|4|26 । `स्वादुमि` इत्यत एवनिर्देशादुपपदस्य मकारान्तत्वं निपात्यते। स्वादुमिति चार्थग्रहणम्। तेन सम्पन्नादावप्युपपदे णमुल् भवति। `वक्षे` इति। `वच परिभाषणे` (धातुपाठः-1063), `ब्राउवो वचिः` 2|4|56 इति ब्राऊञादेशो वा। `चोः कुः` 8|2|30 इति कुत्वम्।`अन्तग्रहणम्` इत्यादि। `औपदेशिकप्रतिपत्त्यर्थम्` इति। नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपत्तिः। उपदेशे भवमौपदेशिकम्।तस्य प्रतिपत्तिज्र्ञानम् प्रयोजनं यस्य तत् तथा। एवं मन्यते- विनाप्यन्तग्रहणेन `येन विधिस्तदन्तस्य` 1|1|71 इति सामथ्र्याद्वा कृतस्तदन्तविधौ सिद्धे यदन्तग्रहणं क्रियते तस्यैतत् प्रयोजनम् नियोगतो यस्यैजन्तत्वमुपदेशावस्थायामेव भवति तस्यैव प्रतीतिर्यथा स्यादिति। `आधये` इति। दधातेराङ्पूर्वात् `उपसर्गे घोः किः` 3|3|92 इति किः, `आतो लोप इटि च` 6|4|34 इत्याकारलोपः, चतुर्थ्येकवचने `घेर्ङिति` 7|3|111 इति गुणः। `चिकीर्षदः` इति। करोतेः सन्, `अज्झनगमां सनि` 6|4|16 इति दीर्घः; `सनाशंसभिक्ष उः` 3|2|168 इत्युप्रत्ययः; अतो लोपः, शेषं पूर्ववत्। `कुम्भकारेभ्यः` इति। `कर्मण्यण्` 3|2|1 `उपपदमतिङ` 2|2|19 इति समासः; `बहुवचने झल्येत्` 7|3|103 इत्येत्त्वम्। ननु च लक्षमप्रतिपदोक्तपरिभाषयैव वा `असिद्धं बहिरङ्गमन्तरङ्गे` (व्या।प।42) इत्येव वात्र संज्ञा न भविष्यति- विभक्तिप्रत्ययं ह्राश्रित्य विधीयमानत्वाद् गुणादिकार्यं बहिरङ्गम्, अव्ययसंज्ञा त्वन्तरङ्गम्, बाह्रस्य निमित्तस्यानाश्रयणात्, सत्यमेतत्; एवं त्वर्थप्रतिपत्तौ प्रतिपत्तिगौरवं स्यात्। अतस्तत्परिहारार्थमन्तग्रहणं कृतम्॥
अत्रापि पूर्ववतदन्तस्य संज्ञेति स्थिते मेजन्तग्रहणं कदन्तस्य विशेषणम्--"कृदन्तम्मेजन्तमब्ययम्" इति । कृत एव वा-कृद्यो मेजन्तस्तदन्तमव्यमिति । तत्राद्यो पक्षे प्रतामौ प्रतामः, लवमाचष्टे इति णिचि क्विपि णिलोपे ऊठि "एत्येधत्यूठ्सु" इति वृद्धौ लौरत्रापि प्राप्नोति, भवति ह्यएतत् प्रत्ययलक्षणेन कृदन्तम्, मेजन्तं च श्रूयत इतीमं दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह--कृद्य इति । नन्वत्रापि कारयाञ्चकार--आमन्तस्य न प्राप्नोति, पूर्वत्र तु लिटः कृत्वात्सिद्धम्, अत्रापि स्वरादिष्वामिति पाठात् सिद्धम् । अथापि तत्र तद्धितस्य पाठः; एवमपि कृदन्तत्वादुत्पन्नानां सुपाम् "आमः" इति लुग्भविष्यति, "लेः" इति हि तत्र नानुवर्तते । स्वादुङ्कारमिति । श्वादुमि णमुल्" स्वादुमित्यर्थग्रहणात्सम्पन्नङ्कारमित्यपि भवति, स्वादुमिति । निपातनात्पूर्वपदस्य मान्तत्वम् । "येन विधिस्तदन्तस्य" इत्येव सिद्धेरपार्थकमन्तग्रहणं तत्राह-अन्तग्रहणमित्यादि । नित्ययोगे बहुव्रीहिविज्ञानादौपदेशिकप्रतिपतिः । आधय इति । आङ्पूर्वाद्धाञः "उपसर्गे घोः किः",चतुर्थ्येकवचने "घेर्ङिति" आधये, भवत्ययं संप्रत्येजन्तः, नोपदेशे । एवं चिकीर्षवे-करोतेः सन्नन्तात् शनाशंसभिक्ष उः ", कुम्भकारशब्दः कर्मण्यणन्तः "बहुवचने झल्येत्", अत्राव्ययसंज्ञायाम् "अव्ययात्" इति लुक् स्यात्, सन्निपातपरिभाषयाऽप्येतत्सिद्धम्, तथा लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति । अन्तग्रहणं तु यत्नान्तरं द्रष्टव्यम् ॥
सिद्धान्तकौमुदी
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै ॥
कृन्मेजन्तः - कृन्मेजन्तः । कृत्-मेजन्त इति छेदः । म् च एच्च मेचौ , तौ अन्ते यस्येति बहुव्रीहिः । तदाह — कृद्योमान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगाऽनर्हत्वात्संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति ।आभीक्ष्ण्ये णमुल्चे॑ति स्मृधातोर्णमुल्,अचो ञ्णिती ति वृद्धिः, रपरत्वम्,नित्यवीप्सयो॑रिति द्वित्वं, मान्तकृदन्तत्वादव्ययत्वम् । जीवसे इति । "तुमर्थे सेसेनसे" इत्यादिनाऽसेप्रत्ययः । पिबध्यै इति । "तुमर्थे से" इत्यादिना शध्यैप्रत्ययः । शित्त्वात्सार्वधातुकत्वम् ।पाघ्राध्मे॑ति पिबादेश इति भावः । शप्तु न, कत्र्रर्थे सार्वधातुके तद्विधेः, "अव्ययकृतो भावे" इति सिद्धान्तादित्याहुः ।
कृन्मेजन्तः - कृन्मेजन्तः । अत्रमेजन्त॑इत्येतच्छतत्वात्कृत एव विशेषणं नतु कृदन्तस्याऽश्रुतस्य । अन्यथाप्रतामौ॑प्रतामः॑ । लवमाचष्टे णौ क्विपि णिलोपे वस्योठि वद्धौ चलौः॑ — -अत्रापि प्रसज्यतेति भावः । भवति ह्रेतत्प्रत्ययलक्षणेन कृदन्तम्, एजन्तं च श्रूयते इति, तदाह — कृद्यो मान्त एजन्त इति । स्मारं स्मारमिति । स्मरतेः॒आभीक्ष्ण्ये णमुल् । वृद्धिः । रपरत्वम् ।नित्यवूप्सयोः॑इति द्वित्वम् । जीवसे इति ।तुमर्थे सेसेन्इत्यसेप्रत्ययः । पिबध्यै इति ।तुमर्थे॑ इत्यनेनैवशध्यै॑प्रत्ययः ।पाघ्रे॑ति पिबादेशः ।येन विधिस्तदन्तस्ये॑त्यनेनैव सिद्धे सूत्रेऽन्तग्रहणमौपदेशिकप्रतिपत्त्यर्थं, तेनेह न — -आधये । चिकीर्षवे । लक्षणप्रतिपदोक्त — संनिपातपरिभाषाभ्यां सिद्धे तयोरनित्यत्वज्ञापनायेदमिति मनोरमायां स्थितम् । एतच्चअव्ययादाप्सुप॑इत्यत्राव्ययात्परस्य सुपो लु॑गिति यथाश्रुतव्याख्यानमभिप्रेत्योक्तम् ।अव्ययाद्विहिकस्ये॑ति व्याख्याने त्वाधये इत्यादौ अव्ययसंज्ञामनिष्टान्तरमूह्रम् ।
लघुसिद्धान्तकौमुदी
कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात्। स्मारं स्मारम्। जीवसे। पिबध्यै॥
महाभाष्यम्
कृन्मेजन्तः कथमिदं विज्ञायते- कृद् यो मकारन्त इति। आहोस्वित् कृदन्तं यन्मान्तमिति। किं चातः? यदि विज्ञायते ‐ ‐ कृद् यो मान्त इति। कारयांचकार हारयांचकार इत्यत्र न प्राप्नोति। अथ विज्ञायते- कृदन्तं यन्मान्तमिति प्रतामौ प्रतामः अत्रापि प्राप्नोति। यथेच्छसि तथास्तु। अस्तु तावत् कृद् यो मान्त इति। कथं कारयांचकार हारयांचकार इति? किं पुनरत्राव्ययसञ्ञ्ज्ञया प्रार्थ्यते ? अव्ययादित लुग् यथा स्यादिति। मा भूदेवम्। आमः इत्येवं भविष्यति। न सिध्यति। लिग्रहणं तत्रानुवर्तते। लिग्रहणं तत्र निवर्तिष्यते। यदि निवर्तते प्रत्ययमात्रस्य लुक् प्राप्नोति। इष्यते च प्रत्ययमात्रस्य। आतश्चेष्यते। एवं ह्याह- कृञ्ञ्चानुप्रयुज्यते लिटीति। यदि च प्रत्ययमात्रस्य लुग् भवति तत एतदुपपन्नं भवति। अथवा पुनरस्तु कृदन्तं यन्मान्तमिति । कथं प्रतामौ प्रतामः इति। आचार्यप्रवृत्तिर्ज्ञापयति ‐ - न प्रत्ययलक्षणेनाव्ययसञ्ञ्ज्ञां भवतीति। यदयं प्रशान् शब्दं स्वरादिषु पठति। ।। कृन्मेजन्तश्चानिकारोकारप्रकृतिः ।। । कृन्मेजन्तश्चानिकारोकारप्रकृतिरिति वक्तव्यम्। इह मा भूत् ‐ आधये, आधेः। चिकीर्षवे- चिकीर्षोरिति। ।। अनन्यप्रकृतिरिति वा ।। । अथवा ‐ - अनन्यप्रकृतिः कृदव्ययसंज्ञो भवतीति वक्तव्यम्। किं पुनरत्र ज्यायः ? अनन्यप्रकृतिरिति वचनमेव ज्यायः। इदमपि सिद्धं भवति ‐ कुम्भकारेभ्यो नगरकारेभ्य इति। तत्तर्हि वक्तव्यम् ? ।। न वा संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति ।। । न वा वक्तव्यम्। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्येषा परिभाषा कर्तव्या। कः पुनरत्र विशेषः ‐ एषा वा परिभाषा क्रियेत। अनन्यप्रकृतिरिति वोच्येत? अवश्यमेषा परिभाषा कर्तव्या। बहून्येतस्याः परिभाषायाः प्रयोजनानि। कानि पुनस्तानि ? प्रयोजनं ह्रस्वत्वं तुग्विधेर्ग्रामणिकुलम्। ग्रामणिकुलम् सेनानिकुलम् इत्यत्र ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। नैतदस्ति प्रयोजनम्। बहिरङ्गं ह्रस्वत्वम्। अन्तरङ्गस्तुक्। असिद्धं बहिरङ्गमन्तरङ्गे। ।। न लोपो वृत्रहभिः ।। । वृत्रहभिर्भ्रूणहभिरित्यत्र नलोपे कृते ह्रस्वस्य पिति कृति तुगिति तुक् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। असिद्धो नलोपः। तस्यासिद्धत्वान्न भविष्यति। ।। उदुपधत्वमकित्त्वस्य निकुचिते ।। । उदुपधत्वमकित्त्वस्यानिमित्तम्। क्व? निकुचिते। निकुचितमित्यत्र नलोपे कृते उदुपधाद् भावादिकर्मणोरन्यतरस्यामित्यकित्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। अस्त्वत्राकित्त्वम्। न धातुलोप आर्धधातुके इति प्रतिषेधो भविष्यति। ।। नाभावो यञ्ञि दीर्घत्वस्यामुना ।। । नाभावो यञ्ञि दीर्घत्वस्यानिमित्तम्। क्व? अमुना। नाभावे कृते अतो दीर्घो यञ्ञि सुपि चेति दीर्घत्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। वक्ष्यत्येतत् ‐ न मु टादेशे इति। ।। आत्वं कित्त्वस्योपादास्त ।। । आत्वं कित्त्वस्यानिमित्तं स्यात्। क्व? उपादास्तास्य स्वरः शिक्षकस्येति। आत्वे कृते स्थाघ्वोरिच्चेतीत्त्वं प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। उक्तमेतत् ‐ - दीङः प्रतिषेधः स्थाघ्वोरित्त्वे इति। ।। तिसृचतसृत्वं ङीब् विधेः ।। । तिसृचतसृत्वं ङीब् विधेरनिमित्तम्। क्व? तिस्रस्तिष्ठन्ति। चतस्रस्तिष्ठन्तीति। तिसृ चतसृभावे कृते ऋन्नेभ्यो ङीप् इति ङीप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। एतदपि नास्ति प्रयोजनम्। आचार्यप्रवृत्तिर्ज्ञापयति न तिसृचतसृभावे कृते ङीप् भवतीति। यदयं न तिसृचतसृ इति नामि दीर्घत्वस्य प्रतिषेधं शास्ति। इमानि तर्हि प्रयोजनानि ‐ शतानि सहस्राणि नुमि कृते ष्णान्ता षडिति षट्संज्ञा प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। शकटौ पद्धतौ। अत्त्वे कृते अतः इति टाप् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। इयेष -उवोष। गुणे कृते इजादेश्च गुरुमतोऽनृच्छः इत्याम् प्राप्नोति। संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति न दोषो भवति। ।। तस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्य ।। । तस्यैतस्य लक्षणस्य दोषो वर्णाश्रयः प्रत्ययो वर्णविचालस्यानिमित्तं स्यात्। क्व? अत इञ्ञ्। दाक्षिः। प्लाक्षिः। न प्रत्ययः संनिपातलक्षणः। अङ्गसञ्ज्ञा तर्ह्यनिमित्तं स्यात्। ।। आत्वं पुग्विधेः क्रापयति ।। । आत्वं पुग्विधेरनिमित्तं स्यात्। क्व? क्रापयतीति। ।। पुग् ह्रस्वत्वस्यादीदपत् ।। । पुग् ह्रस्वत्वस्यानिमित्तं स्यात्। क्व? अदीदपदिति। ।। त्यदाद्यकारष्टाब् विधेः ।। । त्यदाद्यकारष्टाब्विधेरनिमित्तं स्यात्। क्व? या सेति। ।। इड्विधिराकारलोपस्य पपिवान् ।। । इड्विधिराकारलोपस्यानिमित्तं स्यात्। क्व? पपिवान्। तस्थिवानिति। ।। मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्य ।। । मतुब्विभक्त्युदात्तत्वं पूर्वनिघातस्यानिमित्तं स्यात्। क्व? अग्निमान्। वायुमान्। परमवाचा। परमवाचे इति। ।। नदीह्रस्वत्वं सम्बुद्धिलोपस्य ।। । नदीह्रस्वत्वं सम्बुद्धिलोपस्यानिमित्तं स्यात्। क्व? नदि कुमारि किशोरि ब्राह्मणि बह्मबन्धु इति। नदीह्रस्वत्वे कृते एङ्ह्रस्वात्संबुद्धेरिति सम्बुद्धिलोपो न प्राप्नोति। मा भूदेवम्। ङ्यन्तादित्येवं भविष्यति। न सिध्यति। दीर्घादित्युच्यते। ह्रस्वान्ताच्च न प्राप्नोति। इदमिह सम्प्रधार्यं ह्रस्वत्वं क्रियतां सम्बुद्धिलोप इति। किमत्र कर्तव्यम्? परत्वाद्ह्रस्वत्वम्। नित्यः सम्बुद्धिलोपः। कृते ह्रस्वत्वे प्राप्नोति, अकृतेपि। अनित्यः सम्बुद्धिलोपः। न हि कृते ह्रस्वत्वे प्राप्नोति। किं कारणम्? संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। एते दोषाः समा भूयांसो वा। तस्मान्नार्थोऽनया परिभाषया। न हि दोषाः सन्तीति परिभाषा न कर्तव्या, लक्षणं वा न प्रणेयम्। नहि भिक्षुकाः सन्तीति स्थाल्यो नाधिश्रीयन्ते। न च मृगाः सन्तीति यवा नोप्यन्ते। दोषाः खल्वपि साकल्येन परिगणिताः प्रयोजनानामुदाहरणमात्रम्। कुत एतत्? नहि दोषाणां लक्षणमस्ति। तस्माद् येन्येतस्याः परिभाषायाः प्रयोजनानि तदर्थमेषा परिभाषा कर्तव्या। प्रतिविधेयं दोषेषु।।39।।