Page loading... Please wait.
1|1|36 - अन्तरं बहिर्योगोपसंव्यानयोः
॥ तस्मै पाणिनये नम: ॥
1|1|36
SK 220
अन्तरं बहिर्योगोपसंव्यानयोः   🔊
सूत्रच्छेद:
अन्तरं - प्रथमैकवचनम् , बहिर्योग-उपसंव्यानयोः - सप्तमीद्विवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अत्र अपि पूर्वेण नित्या सर्वनामसंज्ञा प्राप्ता सा जसि विभाष्यते । अन्तरम् इत्येतच्छब्दरूपं विभाषा जसि सर्वनामसंज्ञं भवति बहिर्योगे उपसंव्याने च गम्यमाने । अन्तरे गृहाः, अन्तराः गृहाः । नगरबाह्याश्चाण्डालादिगृहा उच्यन्ते । उपसंव्याने - अन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयम् उच्यते, न प्रावरणीयम् । बहिर्योगौपसंव्यानयोः इति किम् ? अनयोः ग्रामयोरन्तरे तापसः प्रतिवसति ; तस्मिन्नन्तरे शीतान्युदकानि । मध्यप्रदेशवचनोऽन्तरशब्दः । गणसूत्रस्य चेदं प्रत्युदाहरणम् । अपुरि इति वक्तव्यम् । अन्तरायां पुरि वसति । विभाषाप्रकरणे तीयस्य वा ङित्सु सर्वनामसंज्ञेत्युपसंख्यानम् । द्वितीयस्मै, द्वितीयाय ; तृतीयस्मै, तृतीयाय ॥
`बर्हिर्योगे` इति। बहिरित्यनेनानावृतदेश उच्यते। तेन योगो बर्हिर्योगः। स चानावृतस्य बाह्रस्य वस्तुनो भवति। `उपसंव्याने च` इति। उपसंवीयते परिधीयते यत्तदुपसंव्यानम्- `कृत्यल्युटो बहुलम्` 3|3|113 इति कर्मणै ल्युट्। अथ वा, संवीयतेपिधीयतेऽनेनेति संव्यानम्- `करणाधिकरणयोश्च` 3|3|117 इति ल्युट्। संव्यानस्य समीपमुपसंख्यानम्। अबहिर्योगे सामथ्र्यात् तदेव वेदितव्यम्। `नगरबाह्राः` इति। अनेन बहिर्योगं दर्शयति- `परिधानीयमुच्यते` इति। उपसंव्यान्सयेदमुदाहरणमुपन्यस्तम्। वस्त्रान्तरावृतवस्तु वस्त्वन्तरेणापिहितमुच्यते। अविशेषाभिधानऽपि यद्वस्त्रान्तरेणावृतम्, सामथ्र्यात् तदेवोपसंव्यानमुच्यते, नेतरत्। `न प्रावरणीयम्` इति। प्राव्रियतेऽपिधीयते-नेनेति प्रावरणीयम्, तन्नभिधीयते। तदभिधाने तस्य बहिर्योगत्वात्बहिर्योग एवेदमुदाहरणं स्यादित्याभिप्रायः।`अन्तरे तापसः प्रतिवसति` इति। अत्र संज्ञाया अभावात् सप्तम्याः स्मिन्नादेशो न भवति। ननु च जसीत्यनुवत्र्ते, तत् कस्मात् सप्तम्यन्तं प्रत्युदाह्मतमित्यत आह-`गुणसूत्रस्य च` इत्यादि। `अपुरीति वक्तव्यम्` इति। अनन्तरं `गणसूत्रस्य च`इत्यभिधानाद् गणसूत्रमेवैतद् वक्तव्यमिति गम्यते। यद्यपि गणसूत्रेऽन्तरशब्द पठते,तथापि `प्रतिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्` (व्या।प।29) इति प्राकाराद्ब-हिर्वर्त्तिनी या पूस्तस्या अपि बहिर्योगोऽस्तीति तत्र वत्र्तमानस्य टाबन्तस्याप्यन्तराशब्दस्य सर्वनामसंज्ञा प्राप्नोति, तेनापुरीति वक्तव्यम्। तेनान्तरायामित्यत्र स्याण् न भवति। `विभाषाप्रकरणे` इत्यादि। उपसंख्यानशब्दस्येह प्रतिपादनमर्थः।अस्मिन् विभाषाप्रकरणे तीयप्रत्ययान्तस्य सर्वनामसंज्ञायाः प्रतिपादनं कत्र्तव्यमि-त्यर्थः। तत्रेदं प्रतिपादनम् `विभाषा जसि` 1|1|31 इत्यत्र `विभाषा` इति योग-विभागः क्रियते, तत्र च `सर्वादीनि` `द्वन्द्वे` इति च निवृत्तम्, तेन तीयस्य विभाषा सर्वनामसंज्ञा भविष्यतीति। न चैवं सत्यतिप्रसङ्गः; योगविभागदिष्टसिद्धेःनापि `विभाषा द्वितीयतृतीयाभ्याम्` 7|3|115 इत्यस्य वैयथ्र्यापत्तिः; प्रपञ्चार्तत्वात्। ततः `जसि` द्वितीयो योगः। अत्र विभाषाग्रहणम्, सर्वादिग्रहणम्, द्वन्द्वग्रहणं चानुवत्र्तते।
बहिरित्यनावृतो देश उच्यते । बहिरित्यनेन योगो बहिर्योग इतीतिशब्दाध्याहारेण विगृह्य समासः । स चानावृतस्य बाह्यस्य वस्तुनो भवति । उपसंवीयते विधीयते वासोऽन्तरेणेत्युपसंव्यानम्, कर्मणि ल्युट् । नगरबाह्या इति । बहिर्योगं दर्शयति । परिधानीयमन्तर्वासः, प्रावरणीयं बहिर्वासः । अन्तरे तापस इति । अत्र संज्ञाभावाद् णेóः स्मिन्न भवति । "जसि" इति वर्तमाने कथं सप्तमान्तं प्रत्युदाहरणे दीयत इत्यत आह--गणसूत्रस्य चेत्याद । गणसूत्रमप्येवमेव पठ।ल्ते । कस्मात्पुनरप्रस्तुतस्य गणसूत्रस्य प्रत्युदाहरणं दीयते, न सूत्रस्य ? "अपुरीति वक्तव्यम्" इति वक्ष्यति, तद् गणसूत्रविषयं यथा स्यादिति; तस्यायं प्रस्तावः । सूत्रस्याप्यनया दिशा प्रत्युदाहरणं गम्यत इति न पृथग्दर्शितम् । अन्तरायामिति । प्राकाराद्वहिर्वर्तिन्यामित्यर्थः । यद्यपि गणसूत्रेऽन्तरशब्दः पठ।ल्ते, तथापि तस्यैव सर्वनामत्वात् टापा सहैकादेशोऽपि तद्ग्रहणेन गृह्यत तैति स्यात् प्रसङ्गः । लिङ्गविशिष्टपरिभाषया वा टाबन्तस्यैव संज्ञाप्रसङ्गे वचनम् । विभाषाप्रकरण इत्यादि । यथायमर्थः सिद्ध्यति, तथा "विभाषा द्वितीयातृतीयाभ्याम्" इत्यत्र वक्ष्यामः ॥
सिद्धान्तकौमुदी
बाह्ये परिधानीये चार्थेऽन्तरशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । अन्तरे अन्तरा वा गृहाः । बाह्या इत्यर्थः । अन्तरे अन्तरा वा शाटकाः । परिधानीया इत्यर्थः ॥
अन्तरं बहिर्योगोपसंव्यानयोः - अन्तरम् । अत्रापिसर्वनामानी॑तिविभाषा जसी॑ति चानुवर्तते । बहिः=अनावृतप्रदेशः, तेन योगः=सम्बन्धः यस्य स बहिर्योगः=बहिर्विद्यमानोऽर्थ इति यावत् । उपसंवीयते=परधीयते इति उपसंव्यानम्न्तरीयं वस्त्रम् । तदाह — बाह्रा इत्यादिना ।
अन्तरं बहिर्योगोपसंव्यानयोः - अन्तरं बहिर्योगोपसंव्यानयोः ।बहि॑रित्यनावृतो देशो, बाह्रं चोच्यते । तत्राद्यमर्थं गृहीत्वाह — बाह्रा इत्यर्थ इति । द्वितीये त्वाभ्यन्तरा इत्यर्थो बोध्यः । बाह्रेन ह्रभ्यन्तरस्य योगोऽस्ति । अर्थद्वयमप्याकरे स्थितम् । इदमेवार्थद्वयं मनसि निधायअन्तरायां पुरी॑त्यत्र प्राकाराद्बाह्रायां तदन्तर्वर्तिन्यां वेति व्याख्यातम् ।उपसंव्यान॑ शब्दोऽपि करणव्युत्पत्त्या उत्तरीयपरः, कर्मव्युत्पत्त्यात्वन्तरीयपरः ।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
अन्तरं बहिर्योगोपसंव्यानयोः उपसंव्यानग्रहणमनर्थकं बहिर्योगेन कृतत्वात्। उपसंव्यानग्रहणमनर्थकम्। किं कारणम्? बहिर्योगेन कृतत्वात्। बहिर्योग इत्येव सिद्धम्। न वा शाटकयुगाद्यर्थम्। नवानर्थकम्। किं कारणम्? शाटकयुगाद्यर्थम्। शाटकयुगाद्यर्थं तर्हीदं वक्तव्यम्। यत्रैतन्न ज्ञायते ‐ किमन्तरीयं किमुत्तरीयमिति। अत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति निर्ज्ञातं तस्य भवति इदमन्तरीयमिदमुत्तरीयमिति। अपुरि। ।। अपुरीति वक्तव्यम् ।। । इह मा भूत् ‐ -अन्तरायां पुरि वसति। ।। वाप्रकरणे तृतीयस्य ङित्सूपसङ्ख्यानम् ।। । वाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानं कर्तव्यम्। द्वितीयायै। द्वितीयस्यै। तृतीयायै। तृतीयस्यै। विभाषा द्वितीयातृतीयाभ्यामित्येतन्न वक्तव्यं भवति। किं पुनरत्र ज्यायः ? उपसङ्ख्यानमेवात्र ज्यायः। इदमपि सिद्धं भवति। द्वितीयाय। द्वितीयस्मै। तृतीयाय। तृतीयस्मै।