॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|35
SK 219
1|1|35
स्वमज्ञातिधनाख्यायाम्
SK 219
सूत्रच्छेद:
स्वम् - प्रथमैकवचनम् , अज्ञाति-धनाख्यायाम् - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Menwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
अत्र अपि नित्या सर्वनामसंज्ञा प्राप्ता जसि विभाष्यते । स्वम् इत्येतच्छब्दरूपं जसि विभाषा सर्वनामसंज्ञं भवति , न चेज् ज्ञातिधनयोः संज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः ; स्वे गावः, स्वा गावः - आत्मीयाः इत्यर्थः । ज्ञातिप्रतिषेधः इति किम् ?
धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः ।
उल्मुकानीव मेऽमी स्वा ज्ञातयो भरतर्षभ (महाभारतम् 5.36.58) ॥
अधनाख्यायाम् इति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूताः स्वा न भुज्यन्ते । प्रभूतानि धनानि इत्यर्थः ॥
`अत्रापि नित्या सर्वनामसंज्ञा प्राप्ता` इति। गणपाठात्। एवमुत्तरत्रापि वेदतव्यम्। `न चेत्` इत्यादिना ज्ञातिधनाख्याशब्दस्यार्थमाचष्टे। यत्र च शब्दान्तर-निरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे, तत्रासौ संज्ञारूपेण तयोर्वत्र्तते। `आत्मीया इत्यर्थः` इति। कथं पुनरयमर्थः, यावता `स्वे पुत्त्राः` इति ज्ञात्यर्थोगम्यते, `स्वे गावः` इति धनार्थः? नैतदस्ति; पुत्त्रगोशब्दसान्निध्यादतदुभयंगम्यते। स्वशभ्देनात्मीयत्वमात्रं गम्यते- `स्वा ज्ञातयः` इति। प्रभूता स्वा इतिचोभयत्र शब्दान्तरमनपेक्ष्य ज्ञातिधने स्वरूपेणैव स्वशब्देनाभिधीयेते। यद्येवम्, ज्ञातय इत्यनुप्रयोगो नोपपद्यते; पर्यायत्वात्, यथा- वृक्षशब्दप्रयोगे सति तरुशब्द-शब्दस्यानुप्रयोगो विरुध्यते, नैष दोषः; पर्यायशब्दस्य हि यत्रानेकार्थो भवति सन्दिग्धार्थो वा, तत्र तदर्थस्यैव व्यक्तीकरणार्थः पर्यायान्तरस्यानुप्रयोगो नविरुध्यते; यथा- मेघाद्यनेकार्थवृत्तेर्वराहकशब्दस्य प्रयोगे शूकरशब्दस्य प्रयोगः। तथा सन्दिग्धार्थस्य पिकशब्दस्य प्रयोगे कोकिलशब्दस्य ! स्वशब्दश्चायमनेकार्थः, तत्रासत्यनुप्रयोगे किंविषयोऽयं प्रयुक्तः- इति सन्देह स्यात्।
अज्ञातिधनाख्यायामित्यस्यार्थमाह-न चेदित्यादि । यत्र शब्दान्तरनिरपेक्षः स्वशब्दो ज्ञातिधने स्वरूपेणाचष्टे तत्रासौ संज्ञारूपेण प्रवर्तते । आत्माया इत्यर्थ इति । पुत्राणां गवां सत्यपि ज्ञातिधनत्वे न तेनाकारेण तत्र वर्तते, किन्त्वात्मीयाकारेणेत्यर्थः । आख्याग्रहणे त्वसति ज्ञातिधनयोः पर्यवसानादत्रापि प्राप्नोति । धूमायन्त इत्यादि । यथोल्मुकान्यश्लिष्टानि असंहतानि धूमायन्ते, संहतानि प्रज्वलन्ति; तद्वत् ज्ञातयोऽपीत्यर्थः । स्वा ज्ञातय इति । स्वशब्दस्यानेकार्थस्य व्यक्तीकरणाय पर्यायस्यापि ज्ञातिशब्दस्य प्रयोगः, स एव तु न प्रयुक्तः; निरङ्कुशाः कविवाच इति ॥
सिद्धान्तकौमुदी
ज्ञातिधनान्यवाचिनः स्वशब्दस्य या प्राप्ता संज्ञा सा जसि वा स्यात् । स्वे । स्वाः । आत्मीया इत्यर्थः । आत्मन इति वा । ज्ञातिधनवाचिनस्तु स्वाः । ज्ञातयोऽर्था वा ॥
स्वमज्ञाति। अत्रापि सर्वनामानीति विभाषा जसीति चानुवर्तते। ज्ञातिश्च धनं च ज्ञातिधने, तयोराख्या-ज्ञातिधनाख्या, न ज्ञातिधनाख्या अज्ञातिधनाख्या, तस्याम्--अज्ञातिधनाख्यायाम्। `स्व`मिति शब्दस्वरूपापेक्षया नपुंसकत्वम्। तदाह--ज्ञातिधनान्येति। स्वेस्वा इति। सर्वनामत्वे शीभावः, तदभावे तदभाव इति भावः। आत्मा आत्मीयं ज्ञातिः धनं चेति स्वशब्दस्य चत्वारोऽर्थाः। `स्वो ज्ञातावात्मनि स्वं त्रिष्वात्मीये स्वोऽस्त्रियां धने` इत्यमरः। अत्र `स्वो ज्ञातावात्मनी`त्येकं वाक्यम्। ज्ञातावात्मनि च स्वशब्दः पुँल्लिङ्ग इत्यर्थः। `स्वं त्रिष्वात्मीये`इति द्वितीयं वाक्यम्। आत्मीये स्वशब्दो विशेष्यनिघ्न इत्यर्थः। `स्वोऽस्त्रियां धने` इति तृतीयं वाक्यम्। धने स्वशब्दः पुंनपुंसक इत्यर्थः। `स्वः स्यात्पुंस्यात्मनि ज्ञातौ, त्रिष्वात्मीये।ञस्त्रियां धने` इति मेदनीकोशः। तत्र ज्ञातिधनयोः पर्युदासादात्मनि आत्मीये च सर्वनामता जसि विकल्प्यत इत्यबिप्रेत्य व्याचष्टे--आत्मीया इत्यर्थः। आत्मान इति वेति। ज्ञातिधनपर्युदासस्य प्रयोजनमाह--ज्ञातिधनवाचिनस्त्विति। ज्ञातिवाचिनो धनवाचिनश्च सर्वनामत्वपर्युदासाज्जसि `स्वाः` इत्येव रूपमित्यर्थः। नच ज्ञातिधनयोरप्यात्मीयत्वपुरस्कारे सर्वनामत्वं न स्यादिति वाच्यम्, आख्याग्रहणबलेन ज्ञातित्वधनेत्वपुरस्कार एव पर्युदासप्रवृत्तेः।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
ज्ञातिधनान्यवाचिनः स्वशब्दस्य प्राप्ता संज्ञा जसि वा। स्वे, स्वाः; आत्मीयाः, आत्मान इति वा। ज्ञातिधनवाचिनस्तु, स्वाः; ज्ञातयोर्ऽथा वा॥
महाभाष्यम्
स्वमज्ञातिधनाख्यायाम् आख्याग्रहणं किमर्थम् ? ज्ञातिधनपर्यायवाची यः स्वशब्दस्तस्य यथा स्यात्। इह मा भूत्। स्वे पुत्राः। स्वाः पुत्राः। स्वे गावः। स्वाः गावः।