॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|33
SK 226
1|1|33
प्रथमचरमतयाल्पार्धकतिपयनेमाश्च
SK 226
सूत्रच्छेद:
प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाः - प्रथमाबहुवचनम् , च - अव्ययम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet. It will be updated eventually, but if you would like us to update this sutra on priority, please send a message using the link at the bottom of this page. Thanks!
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
विभाषा जसि 1|1|32 इति वर्तते । "द्वन्द्वे" इति निवृत्तम् । प्रथम, चरम, तय, अल्प, अर्ध, कतिपय, नेम - इत्येते जसि विभाषा सर्वनामसंज्ञा भवन्ति । प्रथमे, प्रथमाः ; चरमे, चरमाः ; द्वितये, द्वितयाः ; अल्पे, अल्पाः ; अर्धे, अर्धाः ; कतिपये, कतिपयाः ; नेमे, नेमाः । "तय" इति तयप् प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र "नेम" इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभाषा, अन्येषाम् अप्राप्ते । "उभय"शब्दस्य तयप्प्रत्ययान्तस्य गणे पाठात् नित्या सर्वनामसंज्ञा, इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथायोगं वृत्तिः ॥
उभयशब्दस्य तयप्प्रत्ययान्तस्य` इति। `संख्याया अवयवे तयप्` 5|2|42 इत्युभशब्दाद्विहितस्य तयपो यद्यपि`उभादुदात्तो नित्यम्` 5|2|44 इत्ययजादेशो विधीयते, तथापि स्थानिवद्भावात् तद्ग्रहणेन गृह्रत इत्युभयशब्दस्तयप्प्रत्ययान्तो भवति।`तस्य गणे पाठान्नित्या सर्वनामसञ्ज्ञा`इति। न त्वनेन योगेन परेणापि पाक्षिकी। एतच्च व्यवस्थितविभाषात्वाल्लभ्यते। `काकचोर्यथायोगं वृत्तिः`इति। तेनोभय- नेम-शब्दयोः सर्वादित्वान्नित्यमकचो वृत्तिः, प्रथमादिभ्यस्तु कप्रत्ययस्य- इत्येष यथा-योगार्थः॥
उभयशब्दस्येत्यादि । उभाववयवावस्य "उभादुदातो नित्यम्" इति तयपोऽयजादेशः । स्थानिवद्भावाद्भवत्ययं तयबन्तः, तथापि गणे पाठाद् नित्यैव संज्ञा भवति । ननु गणे पाठस्योभयस्मिन्नुभयेषामित्यादिरवकाशः, इह तयब्ग्रहणस्य द्वितये द्वितया इति, उभयशब्दाज्जस्युभयप्रसङ्गे परत्वादियमेव विभाषा प्राप्नोति, नैष दोषः; अन्तरङ्गा नित्या संज्ञा विभक्त्यनपेक्षत्वादिति सैव प्रवर्तते । काकचोर्यथायोगं वृत्तिरिति । नेमशब्देऽकचो वृत्तिः, अन्येषु कस्येत्येष यथायोगार्थः । कः पनर्दोषो नेमशब्दे, यदि जसः कार्यं प्रति न स्यात्, पक्षे कोऽपि स्यात् ? अस्तु; नेमके, नेमकाः"-नित्येऽप्यकचि तस्य तद्ग्रहणेन ग्रहणादस्मिन् विकल्पे सति एतद्रूपद्वयं भवत्येव, सत्यम्; प्रथमादिषु पक्षेऽकज्न भवतीत्येवम्परो ग्रन्थः ॥
सिद्धान्तकौमुदी
एते जसः कार्यं प्रत्युक्तसंज्ञा वा स्युः । प्रथमे । प्रथमाः । शेषं रामवत् । तयो प्रत्ययस्ततस्तदन्ता ग्राह्याः । द्वितये । द्वितयाः । शेषं रामवत् । नेमे । नेमाः । शेषं सर्ववत् ॥ ।विभाषाप्रकरणे तीयस्य ङित्सूपसङ्ख्यानम् (वार्तिकम्) ॥ द्वितीयस्मै । द्वितीयायेत्यादि । एवं तृतीयः । अर्थवद्ग्रहणान्नेह । पटुजातीयाय ॥ निर्जरः ॥
प्रथमचरम। `विभाषा जसी`त्यनुवर्तते, `सर्वनामानी`ति च। तदाह--एते इति। प्रतमादय इत्यर्थः। उक्तसंज्ञा इति। सर्वनामसंज्ञका इत्यर्थः। तत्र नेमशब्दस्य जसि सर्वनामसंज्ञा गणे पाठान्नित्या प्राप्ता। तद्विकल्पोऽत्र विधीयते। नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां तु गणे पाठाऽभावादप्राप्तैव सर्वनामसंज्ञा जसि विकल्पेन विधीयते। अतो नेमशब्दव्यतिरिक्तानां प्रथमादिशब्दानां जसोऽन्यत्र न सर्वनामकार्यमित्याह-शेषं रामवदिति।
प्रथमचरम। नेमशब्दस्य नित्यं प्राप्तेऽन्येषामप्राप्ते चायमारम्भः। तयः प्रत्यय इति। `सङ्ख्याया अवयवे तय`बिति विहितः। तीयस्येति। `द्वेस्तीयः`, `त्रेः सम्प्रसारणं चेतिविहितस्य।
लघुसिद्धान्तकौमुदी
एते जसि उक्तसंज्ञा वा स्युः। प्रथमे, प्रथमाः॥ तयः प्रत्ययः। द्वितये, द्वितयाः। शेषं रामवत्॥ नेमे, नेमाः। शेषं सर्ववत्॥ (तीयस्य ङित्सु वा)। द्वितीयस्मै, द्वितीयायेत्यादि। एवं तृतीयः॥ निर्जरः॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!