॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|32
SK 225
1|1|32
विभाषा जसि
SK 225
सूत्रच्छेद:
विभाषा - प्रथमैकवचनम् , जसि - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
पूर्वेण नित्ये प्रतिषेधे प्राप्ते जसि विभाषा आरभ्यते । द्वन्द्वे समासे जसि विभाषा सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । कतरकतमे, कतरकतमाः । जसः कार्यं प्रति विभाषा, अकज् हि न भवति कतरकतमकाः ॥
`जसः कार्यं प्रति` इत्यादि। एतच्च् व्यवस्थितविभाषात्वादस्या विभाषाया लभ्यते। अथ वा जसीति कार्यापेक्षया आधारसप्तमीयम्, न तु सर्वाद्यपेक्षया परसप्तमी; तेन जसि यत् कार्यम्= जसाधारं यत् कार्यं जसः शीभावः तत्र विभाषा भवति, नान्यत्र। किं कारणमेवं व्याख्यायत इत्यत आह-`अकज् हि न भवति` इति हि शब्दो हेतौ।एवं व्याख्यायमाने सति `कतरकतमकाः` इत्यत्राकज् न भवति; पूर्वसूत्रेण संज्ञाप्रतिषेधात् अन्यथा हि यदि जसि परतः संज्ञा विकल्प्यते,तदा पक्षेऽकज् भवेदेव। तथा च तस्य तन्मध्यपतित्वात् तद्ग्रहणेन ग्रहणात् पाक्षिकः शीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानादेवैष दोषो न भवति।
जसः कार्य प्रति विभाषेति । तत् कथम् ? व्यवस्थितविभाषेयम् । यद्वा, जसीति कार्यापेक्षयाधिकरणसप्तमी--जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्य इति । अन्ये त्वाहुः- जस ई जसी शब्दरूपापेक्षया नपुंसकह्रस्वत्वे सप्तम्या लुका निर्देशः-जस ईकारे कर्तव्य इति । किं पुनः कारकणमेवं व्याख्यायते ? तत्राह--अकझीति । हि शब्दो यस्मादर्थे । यद्यविशेषेण विकल्पः स्यात्, कतर कतम अस् इति स्थिते कुत्साद्यर्थविवक्षायां यस्यामवस्थायामकज्विधिं प्रति संज्ञा स्यात्, ततश्च तन्मध्यपतितत्वातद्ग्रहणे शीभावः स्यात्; के तु सति न भवति ॥
सिद्धान्तकौमुदी
जसाधारं यत्कार्यं शीभावाख्यं तत्र कर्तव्ये द्वन्द्वे उक्ता संज्ञा वा स्यात् । वर्णाश्रमेतरे । वर्णाश्रमेतराः । शीभावं प्रत्येव विभाषेत्युक्तमतो नाकच् । किंतु कप्रत्यय एव । वर्णाश्रमेतरकाः ॥
विभाषा जसि। सर्वनामग्रहणमनुवर्तते, द्वन्द्व इति च। `जसी`त्यविभक्तिको निर्देशः। जस इः जशिः। आर्षः सप्तम्या लुक्। `इ`शब्द इवर्णपरः सन् `शी`तीकारमाचष्टे। ततश्च जसादेशे शीभावे कर्तव्ये इति फलितम्। तदाह --जसाधारमिति। जस् आधारो यस्येति बहुव्रीहिः। जस्स्थानकमित्यर्थः। ननु `जसि परतो द्वन्द्वे सर्वानामसंज्ञा वा स्या`दित्येव कुतो न व्याख्यायत इत्यत आह--शीभावं प्रत्येवेत्यादिना। यदि त्वकच्स्यात्तर्हि तस्याऽव्यवधायकत्वाच्छीभावः प्रसज्येत। कप्रत्यये तु सति तेन व्यवधानान्नोक्तदोष इत्याह--वर्णाश्रमेतरका इति। नचाऽकचि कर्तव्ये विकल्पाऽभावे।ञपि सर्वादीनी`ति नित्या सर्वनाम संज्ञा कुतोऽत्र न स्यादिति वाच्यं, `द्वन्द्वे चे`ति तस्या नित्यानिषेधात्। नच `द्वन्द्वे`चेति निषेधस्योक्तरीत्याऽवयवेषु प्रवृत्त्यभावाद्वर्णाश्रमेतरशब्दे समुदाये इतरशब्दस्याऽवयवस्य सर्वनामत्वाऽनपायादकज्दुर्वार इति वाच्यं, द्वन्द्वावयवमात्रे सुन्दरादिविशेषणान्वयाऽबाववत्कुत्सादिविवक्षाया अभावात्। समुदाये तद्विवक्षायां समुदायोत्तरप्रत्ययेनाऽवयवगतकुत्सादेरपि बोधेनोक्तार्थत्वादवयवेभ्यः पृथक् तदनुत्पत्तेः। अन्यथा अवयवेभ्यः प्रत्येकं कप्रत्ययापत्तेः। एतदेवाभिप्रेत्योक्तं भाष्ये--`वर्णाश्रमेतरशब्दे अकच् न भवती`ति। एवंच यदा इतरशब्देन द्वन्द्वं कृत्वा कुत्सिता वर्णाश्रमेतरा इति कुत्सायोगः क्रियते तदा कप्रत्यये सति `वर्णाश्रमेतरका` इत्येव रूपम्। यदा तु कुत्सित इतरः-इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते, तदा शीभावविकल्पः स्यादेव॥
जसाधारमिति। शीभावेन जस्यपह्मतेऽप्यौपचारिकमाधारत्वमत्र बोध्यम्। यद्वा जस इर्जसिः,तस्मिन्। सौत्रः सप्तम्या लुगित्यर्थतो व्याचष्टे-जसाधारमिति। अन्यथा सत्यकचि `जसः शी` त्यस्य प्रवृत्तौ `वर्णाश्रमेतरके` इत्यपि रूपं स्यादिति भावः। यदा अज्ञातः कुत्सितो वा इतरः इतरक इत्यकचं कृत्वा वर्णाश्च आश्रमाश्च इतरकश्चेति द्वन्द्वः क्रियते तदा रूपद्वयं स्यादेव। परं तु इतरशब्देन द्वन्द्वं कृत्वा अज्ञाता वर्णाश्रमेतरा इत्यज्ञाताद्यर्थयोगो यदा क्रियते तदा `वर्णाश्रमेतरका` इत्येकमेव रूपं साध्विति बोध्यम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
विभाषा जसि जसः कार्यं प्रति विभाषा। अकज् हि न भवति। द्वन्द्वे चेति प्रतिषेधात्।