॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|30
SK 223
1|1|30
तृतीयासमासे
SK 223
सूत्रच्छेद:
तृतीयासमासे - सप्तम्येकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
Unavailable at the moment
सूत्रार्थ:
This sutra is not updated yet.

The sutras are being written one by one, so this sutra will eventually get updated. Meanwhile, you can refer to the commentaries below.
One-line meaning in English
This sutra is not updated yet.
काशिकावृत्तिः
तृतीयासमासे सर्वादीनि सर्वनामसंज्ञानि न भवन्ति । मासपूर्वाय, संवत्सरपूर्वाय, द्व्यहपूर्वाय, त्र्यहपूर्वाय । समासे इति वर्तमाने पुनः समासग्रहणं तृतीयासमासार्थवाक्येऽपि प्रतिषेधो यथा स्यात् - मासेन पूर्वाय । पूर्वसदृशसमोनार्थकलहनिपुणमिश्रश्लक्ष्णैः 2|1|31 इति तृतीयासमासं प्रतिपदं वक्ष्यति - तस्यैदं ग्रहणम्, न यस्य कस्यचित् तृतीयासमासस्य - कर्तृकरणे कृता बहुलम् 2|1|32 इति । त्वयका कृतम्, मयका कृतम् ॥
ननु च `विभाषा दिक्समासे` 1|1|27 इत्यत समासग्रहणमनुवत्र्तत एव, तत् किमर्थं पुनः समासग्रहणमित्यत आह- `समास इत्यनुवत्र्तमाने` इत्यादि। अस्त्येव तृतीयासमासो मुख्यः, यस्मिन् सत्यैकपद्यमैकस्वर्यमेकविभ्कतिकत्वं च भवति। अस्ति च गौणः, यस्मस्तादथ्र्यादतस्मिन्नपि ताच्छबद्यं भवति। स पुनस्तृतीयासमासार्थंवाक्यम्। तत्रासति पुनः समासग्रहणे `गौणमुख्ययोर्मुख्ये कार्यसंप्रत्ययः` (व्या।प।4) इति मुख्य एव प्रतिषेधः स्यात्। नेतरत्र। तस्मात् तत्रापि प्रतिषेधो यथा स्यादित्येवमर्थं पुनः समासग्रहणम्। यदि तर्हि तृतीयासमासार्थेऽपि वाक्ये प्रतिषेधो भवति,यावान् कश्चित् तृतीयासमासः, तदर्थे वाक्ये सर्वत्र प्रतिषेधः स्यात्; ततश्च `त्वयका कृतम्, मयका कृतम्ित्यत्राकज् न स्यात्। भवति ह्रेतत् `कर्तृकरणे कृता बहुलम्` 2|1|31 इत्यनेन यः समासस्तदर्थं वाक्यम्;तत्र कप्रत्यये कृते `त्वत्केन कृतम्, मत्केन कृतम्` इति रूपं स्यादित्यत आह- `पूर्वसदृश`इत्यादि। एतच्च लक्षमप्रतिपदोक्तपरिभाषया लभ्यते।`त्वयका, मयका` इति। पूर्ववत् त्वमावादेशौ, सुबन्तादकच्। क्वचित् त्वकया, मकया इति पाठः स त्वयुक्तः। प्रातिपदिकात् त्वकजुत्पत्तौ त्वकया मकयेति भवति, न चात्र प्रातिपदिकादकजुत्पत्तिरिष्यते; अपि तु सुबन्तात्। तथा ह्रकज्विधौ वक्ष्यति-`प्रातिपिदकात्` सुपः` इति च द्वयमपीहानुवत्र्तते। तत्राभिधानतो व्यवस्था- क्वचित् प्रातिपदिकस्य प्राक् टेः प्रत्ययो भवति, क्वचित् सुबन्तस्य। `युष्मकाभिः,युष्मकासु, अस्मकासु, युवकयोः, आवयकयोः` इत्यत्र प्रातिपदिकस्य। त्वयका, मयका,त्वयकि,मयकि` इत्यत्र सुबन्तस्य` इति।
समासे इति, वर्तमाने इत्यादि । मुख्यस्यैव ग्रहणे प्राप्ते गौणस्यापि ग्रहणार्थं पुनः समासग्रहणमित्यर्थः । न च तृतीयासमासमात्रार्थे वाक्ये प्रसङ्ग इत्याह--पूर्वसदृशेत्यादि । एतच्च लक्षणप्रतिपदोक्तपरिभाषया लभ्यते । त्वयका, मयकेति । "युष्मदस्मदोस्तृतीयैकवचने","त्वमावेकवचने", "योऽचि" सुबन्तयोः प्राक् टेरकच् ॥
सिद्धान्तकौमुदी
अत्र सर्वनामता न स्यात् । मासपूर्वाय । तृतीयासमासाऽर्थवाक्येऽपि न । मासेन पूर्वाय ॥
तृतीयासमासे। `सर्वादीनी`त्यतः सर्वनामग्रहणम् , `न `बहिव्रीहा`वित्यतो नेति चानुवर्तते इत्यभिप्रेत्याह--इहेति। मासूपार्वायेति। मासेन पूर्व इति विग्रहः। हेतौ तृतीया। `पूर्वसदृशे`ति तृतीयातत्पुरुषसमासः। मासात्पूर्वभावीत्यर्थः। `विभाषा दिक्समासे बहुव्रीहा`वित्यतः समासग्रहणे अनुवर्तमाने पुनः समासग्रहणं तृतीयासमासीयलौकिकविग्रहवाक्यरूपगौणसमासस्यापि परिग्रहार्थम्। ततश्च फलितमाह--तृतीयासमासार्थेति। द्वन्द्वे च। सर्वादीनीत्यतः सर्वनामग्रहणं, न बहुव्रीहावित्यतो नेति चानुवर्तते।
तृतीयासमासे। अत्र `विभाषा दिक्समासे` इत्यतः समास इत्यनुवर्तमाने पुनः समासग्रहणं गौणार्थस्यापि सङ्ग्रहार्थमित्यभिप्रेत्याह--तृतीयासमासार्थेति। इह `पूर्वसदृशे`ति विहितः समासो गृह्यते, प्रतिपदोक्तत्वात्। न तु `कर्तृकरणे` इति समासः, तेन त्वयका कृत`मित्यत्र निषेधो न भवति। `ओकारसकारभकारादौ सुपी`ति व्यवस्थापयिष्यमाणत्वादिह सुपष्टेः प्रागकच्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
तृतीयासमासे समास इति वर्तमाने पुनः समासग्रहणं किमर्थम् ? अयं तृतीयासमासोऽस्त्येव प्राथमकल्पिकः। यस्मिन्नैकपद्यमैकस्वर्यमेकविभक्तिकत्वं चेति। अस्ति च तार्दथ्यात् ताच्छब्द्यम्। तृतीयासमासार्थानि पदानि ‐ तृतीयासमास इति। तद्यत् तार्दथ्यात् ताच्छब्द्यं तस्येदं ग्रहणम्। अथवा- समास इति वर्तमाने पुनः समासग्रहणस्यैतत् प्रयोजनम्। योगाङ्गं यथा विज्ञायेत। सति च योगाङ्गे योगविभागः करिष्यते ‐ - तृतीया तृतीयासमासे सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासपूर्वाय देहि। संवत्सरपूर्वाय देहीति। ततोऽसमासे। असमासे च तृतीयायाः सर्वादीनि सर्वनामसञ्ज्ञानि न भवन्ति। मासेन पूर्वाय देहि। संवत्सरेण पूर्वाय देहीति।।30।।