॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|3
SK 34
1|1|3
इको गुणवृद्धी   🔊
SK 34
सूत्रच्छेद:
इकः - षष्ठ्येकवचनम् , गुण-वृद्धी - प्रथमाद्विवचनम्
अनुवृत्ति:
वृद्धिः  [1|1|1] - प्रथमैकवचनम् , गुणः  [1|1|2] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
गुण:, वृद्धि: (इत्यनेन निर्दिष्टा) गुण-वृद्धी इक:
सूत्रार्थ:
गुण-वृद्धी-शब्दाभ्याम् यत्र गुणः वृद्धिः वा विधीयते तत्र इकः इति षष्ठ्यन्तं पदम् उपतिष्ठते ।
यत्र "गुण" शब्देन गुणादेशः निर्दिश्यते, "वृद्धि" शब्देन वा वृद्ध्यादेशः निर्दिश्यते, परन्तु कस्य गुणादेशः वृद्ध्यादेशः वा भवति इति स्पष्टीकृतम् नास्ति, तत्र इक्-वर्णस्य (इत्युक्ते इकार/उकार/ऋकार/ऌकारस्य) गुणः वृद्धिः वा भवति इति अर्थः स्वीकरणीयः ।

यथा -
1. मिदेर्गुणः 7|3|82 अनेन सूत्रेण "मिद्-धातोः शित्-प्रत्यये परे गुणः भवति" इति उच्यते । अत्र "कस्य वर्णस्य गुणादेशः भवति" इति सन्देहः अस्ति । अतः अत्र अनेन सूत्रेण "इकः" गुणः भवति इति ज्ञातव्यम् । अतः, "मिद्" धातौ यः इकारः अस्ति तस्य गुणादेशे एकारे कृते "मेद्यति" एतादृशम् रूपम् सिद्ध्यति ।

2. मृजेर्वृद्धिः 7|2|114 अनेन सूत्रेण "मृज्-धातोः वृद्धिः भवति" इति उच्यते । अत्र "कस्य वर्णस्य वृद्धि-आदेशः भवति" इति सन्देहः अस्ति । अतः अत्र अनेन सूत्रेण "इकः" वृद्धिः भवति इति ज्ञातव्यम् । अतः, "मृज्" धातौ यः ऋकारः अस्ति तस्य वृद्ध्यादेशे रेफपरे आकारे कृते "मार्ष्टि" एतादृशम् रूपम् सिद्ध्यति ।
One-line meaning in English
If the words गुण (or वृद्धि) are used to denote the operation of गुणादेश (or वृद्धि-आदेश) without specifying where such an आदेश happens, then this आदेश should be done for the letters इ, उ, ऋ or ऌ.
काशिकावृत्तिः
परिभाषा इयं स्थानिनियमार्था । अनियमप्रसङ्गे नियमो विधीयते । वृद्धिगुणौ स्वसंज्ञया शिष्यमाणौ इकः एव स्थाने वेदितव्यौ । वक्ष्यति - सार्वधातुकार्द्धधातुकयोः 7|3|84 अङ्गस्य गुण - इति । स इकः एव स्थाने वेदितव्यः - तरति, नयति, भवति । वृद्धिः खल्वपि - अकार्षीत्, अहार्षीत्, अचैषीत्, अनैषीत्, अलावीत्, अस्तावीत् । गुणवृद्धी यत्र स्वसंज्ञया विधीयेते, तत्र इकः इति एतदुपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । मिदिमृजिपुगन्तलघू्पधर्च्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेनेग् विशेष्यते । जुसि सार्वधातुकादिगुणेषु इकाङ्गं विशेष्यते । मेद्यति, अबिभयुः । इकः इति किम् ? आत्सन्ध्यक्षरव्यञ्जनानां मा भूत् - यानम्, ग्लायति, उम्भिता । पुनर्गुणवृद्धिग्रहणं स्वसंज्ञया विधाने नियमार्थम्, इह मा भूत् - द्यौः, पन्थाः, सः, इमम् इति ॥
`परिभाषेयम्` इति। नाधिकारः, अस्वरितत्वात्। नापि गुणवृद्धयोर्विधायकं लक्षणम्, लक्षणान्तरेण तयोर्विधास्यमानत्वात्। `स्थानिनियमार्था` इति। स्थानिनि नियमः स्थानिनियमः, स्थान्यन्तरव्यवच्छेदेनैकत्र प्रवर्तनम्, सोऽर्थः प्रयोजनं यस्याः सा तथोक्ता। `अनियमप्रसङ्गे नियमो विधीयते` इति। यत्र साक्षात् स्थानी न निर्दिष्टः `सार्वधातुकार्धधातुकयोः` 7|3|84 , `सिचि वृद्धिः परस्मैपदेषु` 7|2|1 इत्यादौ, तत्रानियमे प्रसक्ते नियममेषां करोति-इक एव नान्यस्येति। अतः स एवस्या विषयो वेदितव्यः, न तु यत्र साक्षात् स्थानी निर्दिश्यते सोऽपि, यथा- `ओर्गुणः` 6|4|146 `अत उपधायाः` 7|2|116 इत्यादिः। तत्र ह्रनियमस्य प्राप्तिरेव नास्ति। लिङ्गवती चेयं परिभाषा, लिङ्गं चास्या गुणवृद्धिग्रहणम्, तत्रोपतिष्ठते। तथा च द्वे षष्ठ्यौ प्रादुर्भवतः,-`इकः` इत्येका षष्ठी, `मिदेर्गुणः` 7|3|82 इत्येवमादिका द्वितीया।तत्र कामचारादयथेष्टं सिध्यति। तयोर्विशेषणविशेष्यभावः क्रियते। `मिदेः` इत्यत्रान्त इग न सम्भवतीति त्सयाङविशेषणत्वं नोपपद्यतेतस्मादत्राङ्गेनेगेव विशिष्यते- मिदेरङ्गस्य य इगिति। तेन स्थानष्ठभावादलोऽन्त्यस्यानुपस्थाने सति यत्र तत्र स्थस्येको गुणः सिद्धो भवति। `सार्वधातुकार्धधातुकयोः` 7|3|84 इत्यादौ त्वङ्गस्य इगन्तत्वं सम्भवति। तेन चाङ्गे विशिष्यमाणे तदन्तविधौ सतीष्टं सिध्यति। तस्मादिकै-वाङ्गं विशिष्यते, `इगन्तस्याङ्गस्येति। एवंचय सत्यस्याः स्थानषष्ठीत्वात् `अलो।-न्त्त्यस्य` 1|1|51 इत्येतदुपतिष्ठछते, तेनेगन्तस्यैवाङ्गस्य गुणवृद्धी भवतः,नेतरस्य। `स्वसञ्ज्ञया` इति। अत्र वक्ष्यमाणोऽभिप्रायः। `इक एव स्थाने` इति।यदर्थेयं परिभाषा तस्य नियमस्य स्वरूपं दर्शयति- `अकार्षीत्` इति। `डुकृञ् करण` (धातुपाठः- 1472),लुङ, `च्लेः सिच्` 3|1|44 सिचि वृद्धिः 7|2|1 `अस्तिसिचोऽपृक्ते` 7|3|96 इतीट्। एवम् `अहार्षीत्` इति। अत्र `ह्मञ् हरणे` (धा।899) इत्ययं विशेषः। `इक इति किम्` इत। एकदेशद्वारेण समुदायस्य पर्यनुयोगो वेदितव्यः। न हि `गुणवृद्धी`इत्येतावता विनेग्ग्रहणेनार्थः कश्चित् संगृह्रते। `यानम्` इति। यातेर्ल्युटि गुणे विधीयमान आन्तरतम्यादकारः स्यात्। ततश्च द्वयोरकारयोः `अतो गुणे` (6.1.104पररूपत्वे कृते `यनम्` इत्यनिष्टं रूपं स्यात्। `ग्लायति` इति। `ग्लै म्लै हर्षक्षये` (धातुपाठः-903।904), अत्र सन्ध्यक्षरस्य ऐकारस्य एकारो गुणः स्यात्। ततश्चायादेशे कृते ग्लयति इत्यनिष्टं रूपं स्यात्। `उम्भिता`इति। `उभ उम्भ पूरणे` (धातुपाठः-1319,1320), तृच्, इट्। अत्र व्यञ्जनस्य कारस्यौष्ठस्य ओकारो गुणः स्यात्। ततश्चावादेशे कृते `उभविता` इत्यनिष्टं रूपं स्यात्।अथ कथं स्वसञ्ज्ञया शिष्यमाणावित्येष विशेषो लभ्यते? न हि सूत्रेस्वसञ्ज्ञाग्रहणमस्तीत्यत आह `पुनर्गुणवृद्धिग्रहणम्` इत्यादि। इहपूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते। कतस्मिन्ननुवर्तमाने यत् पुनरिह गुणवृद्धरिग्रहणं क्रियतेतस्यैतत् प्रयोजनम्- `यत्र स्वसञ्ज्ञया गुणवृद्धी विधीयेते तत्रायं नियमो यथा स्यात्, अन्यत्र मा भूत्िति। पुनर्गुणवृद्धिग्रहणसामथ्र्यादन्यतरस्य गुणवृद्धिग्रहणस्य सञ्ज्ञाप्रधानत्वं सम्पाद्यते। कतेन स्वसञ्ज्ञया विधाने नियमो भवतीत्येषोऽ-र्थो लभ्यते। अन्यथा हि यद्येवं पूर्वो नियमो नात्राभिमतः स्यात्, ततो नियतस्य निय मस्य प्रकृतगुणवृद्धिग्रहणानुवृत्त्यैव सिद्धत्वात् पुनरिह गुणवृद्धिग्रहणमनर्थकंस्यादित्येवमभिप्रायः। `इह मा भूत्` इत्यादिनार्यैवं प्रकारस्य नियमस्य व्यवच्छेद्यत्वं दर्शयति- `द्यौः` इति। `दिव औत्` 7|1|84 इत्यौकारः। स्वरूपेण विधीयमानोऽलोऽन्त्यस्यैव भवति, नेकः। `पन्थाः` इति। `पथिमध्यृभुक्षामात्` 7|1|85 इत्याकारोऽन्त्यस्यैव भवति, नेकः। `इतोऽत्सर्वनामस्थाने` 7|1|86 इतीकारस्य अकारः, `थोऽन्थः` 7|1|87 इति थकारस्य न्थादेशः। `इयम्` इति। `त्यदादीनामः` 7|2|102 इत्यत्वमन्तर्सयैव भवति, नेकः। `दश्च` 7|2|109 इति दकारस्य मकारः। स इत्यत्र त्वस्याः परिभाषाया उपस्थाने सति त्यदाद्यत्वं न स्यादेव। `तदोः सः सावन-न्त्ययोः` 7|2|106 इति सत्वम्, ननु च `अनश्च` 1|2|28 इत्ययमपि स्थानिनियमः स्वसञ्ज्ञाविधान एवेष्यते, तस्यापि च नियमस्य द्यौरित्यादिकं व्यवच्छेद्यम्। तथा हि वृत्तिकारस्तत्र वक्ष्यति `स्वसञ्ज्ञया विधाने नियमः। अजिति वर्तते। इह मा भूत्, द्यौः, पन्थाः, सः, द्युभ्याम्, द्युभिः` (का 38) इति, ततश्च यदनेन नियमेनैवंविधेन कत्र्तव्यं तत्तेनैव सिध्यति, नार्थ एवंविधयनियमर्थेन पुनरिह गुणवृद्धिग्रहणेनसत्यमेतत्` किन्त्वेवमर्थप्रतिपत्तौ य एते मन्दधियः प्राथमकल्पिकाः श्रोतारः, तेषांप्रतिपत्तिगौरवं स्यात्। तस्मात् ताननुग्रहीतं विस्पष्टार्थमिह सञ्ज्ञाविधाने नियमं प्रतिपादयितुं पुनर्गुणवृद्धिग्रहणं कृतम्। तद्येवम्, यत् येन विधातव्यं तदनेनैवविहितमिति तत्र सञ्ज्ञाविधाने नियमो न कत्र्तव्यः? नैतदस्ति; यदि ह्रसावित्थम्भूतो नियमो न स्यात्, ततो `द्युभ्याम् द्युभिः` इत्यत्र `दिव उत्` 6|1|127 इत्युकारः स्वरूपेणैव विधीयमानोऽच एव स्थाने स्यात्, नालोऽन्त्यस्य। न ह्रनेन नियमेनाचःशक्यते व्यावर्तयितुम्, तस्य गुणवृद्धिसञ्ज्ञकत्वात्।
ऽपरिभाषेयमिऽति । नाधिकारः; अस्वरितत्वात्, असंयुज्यनिर्देशाच्च । अधिकारे हि "इको गुणवृद्धी न धातुलोपः" इति संयुज्यैव निर्दिशेत् । नापि विधिः, "इकः स्थाने गुणवृद्धी भवतः" इति लक्षणान्तरेण विधास्यामानत्वात् । ननु यदायं स्वतन्त्रो विधिस्तदा तेष्विक इत्यस्योपस्थापकाभावाद् यातेत्यादावनिकोऽपि विधिः स्यात्, इह तु सार्वधातुकाद्यभावेऽपि दधि मध्वित्यादौ विधिरस्तु ? एवं तर्हि गुणवृद्ध्यधिकारे पुनर्गुणवृद्धिग्रहणान्न विधिः । यद्यपि प्रकृतं गुणवृद्धिग्रहणं संज्ञापरम्, इह त्वनुवृत्तिसामर्थ्यात्संज्ञिपरं भविष्यति । "अदेङ् गुणः" इत्यत्र चानुवर्तमानमपि वृद्धिग्रहणं न संबध्यते, अन्यवचनाच्चकाराकरणाच्च । अन्या हि तत्र गुणसंज्ञोच्यते, चकारश्च न क्रियते; अतो विधिपक्षे पुनर्गुणवृद्धिग्रहणं न कर्तव्यम् । अत एवाधिकारोऽपि न भवति । परिभाषायां तु तस्यां विशिष्टविषयत्वसिद्धये कर्तव्यं तदिति वक्ष्यामः । अतः परिभाषेयम् । योगो वायं व्यपदिश्येत, सूत्रं वा, तत्कथम् "इयम्" इति स्त्रीलिङ्गनिर्द्देशः ? उच्यते-यथायं योगः, यथा वा सूत्रमिदम्, एवं परिभाषापि, तत्सामानाधिकरण्यादियमिति निर्देशः । ननु परिभाषात्वं विधित्सितम्, इदंशब्दस्तु उद्देशकः, सिद्धरूपस्य चोद्देशः, सूत्ररूपता योगरूपता वा सिद्धेति पुनरप्युद्देशकस्य स्त्रीलिङ्गानुपपतिः । कश्चिदत्र परिभाषेयमित्यनूद्य स्थानिनियमार्थता विधीयते-"येयं परिभाषा सा स्थानिनियमार्थेति, न तु परिभाषारूपता विधीयते" इत्याह, स वाच्यः-"असिद्धं परिभाषात्वं कथमनूद्यते" इति । अव्यापकश्चायं परिहारः शमर्थः पदविधिः" इत्यादौ । तत्र परिभाषेयमित्येतावच्छ्रूयते, न पुनरेतदर्थेति । वयं तु ब्रूमः-निर्दिश्यमानप्रतिनिर्दिश्यमानयोरैक्यमापादयन्ति सर्वनामानि पर्यायेण तल्लिङ्गभाञ्जि भवन्ति । तत्र यथा "अणौ यत्कर्म णौ चेत्स कर्ता" इति कर्माकारपरामर्शिनोऽपि तच्छब्दस्य विधीयमानस्य कर्त्राकारस्य लिङ्गं भवति, तद्वदिहापि सूत्रमेवोद्दिश्यत इदंशब्दस्य विधीयमानपरिभाषाकारस्य लिङ्गं भविष्यति । ऽस्थानिनियमार्थेऽति । इगाख्ये स्थानिनि गुणवृद्ध्योर्नियमोऽर्थः उ प्रयोजनं यस्याः सा तथोक्ता । "द्वन्द्वे घि" इत वृइद्धिशब्दस्य पूर्वनिपातः प्राप्तः सूत्रनिर्देशेन नित्यं बाध्यते;"धर्मादिषु उभयम्" इति वचनादिति सूचयन्नाह-ऽवृद्धिगुणाऽवित्यादि । किं पुनरनेन ग्रन्थेनोच्यते ? ननु नियमरूपेणास्य सूत्रस्य प्रवृत्तिरिति; यथा "एच इग्घ्रस्वादेशे" ह्रस्व आदिश्यमान एच इगेवेति । यद्येवम्, अनियमप्रसङ्गे नियम इति "सार्वधातुकार्धधातुकयोः","सिचि वृद्धिः" इत्यत्रैव स्यात्, अत्र ह्यसत्यस्मिन्योगेऽलोऽन्त्यस्य भवन्तौ वृद्धिगुणावनन्त्यस्याविशेषितत्वादिकश्चानिकश्व प्राप्नुतः, न तु मिदिमृजिपुगन्तलधूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्वपि। अत्रालोन्त्यस्येत्यनिक एव प्रसङ्गः । अथ सर्ववाक्यानां सावधारणत्वात् प्राप्तमेवावधारणमिक एवेत्येव शब्देनाभिधीयते, न पुनर्नियमोऽनेन प्रदर्श्यते; यथा-"तपस्तपः कर्मकस्यैव" इति । अतो विधिरूपेणैवास्य व्यापारो विवक्षितः, परिभाषात्वाच्च गुणवृद्धिविधेः संस्कारकं विध्यन्तरमिदम्, यथा "इद्गोण्याः" इत्यादेः"अलोऽन्त्यस्य" इत्ययमिति पक्षः । ततो नाप्राप्तायामलोऽन्त्यपरिभाषायामियमारभ्यमाणा तस्या बाधिका स्यात् । ततश्च यत्रैषा, न तत्र सा प्रवर्तेतेति जुसि गुणो यथेह भवति--अबिभयुः अबिभरुरिति, एवमनेनिजुः पर्यवेविषुरत्रापि प्राप्नोति । "सार्वधातुकार्धधातुकयोः" यथेह भवति चेता स्तोतेति; एवमीहिता, ऊहिता, उम्भिता अत्रापि प्राप्नोति । अथ तु सामान्यविशेषयोरसम्भवे बाध्यबाधकभावः; अस्ति चात्र सम्भवो यद् अलोऽन्त्यस्य गुणवृद्धी स्याताम् इकश्च, ततः "जुसि च" इत्यादौ गुणवृद्धिलिङ्गादिक्परिभाषाप्युपतिष्ठत, अङ्गस्येति स्थानषष्ठीनिर्देशात्, "अलोऽन्त्यस्य" इत्येषापि । तत्र च न समुच्चयोऽङ्गान्त्यस्यानिकोऽपि गुणो भवति, तदवयवस्य चेकोऽनन्त्यस्यापीति । नापि विकल्पः;कदाचिदङ्गान्त्यस्यानिकोऽपि, कदाचितदवयवस्येकोऽनन्त्यस्यापीति, एकत्वात् षष्ठ।ल्र्थस्यैक एव हि सकृच्छ्4%अताया अङ्गस्येति षष्ठ।ल अर्थः-स्थानेयोगो वा थ अवयवयोगो वा, न द्वौ समुच्चितौ नापि विकल्पितौ । तत्र यद्यङ्गस्येत्येतत्पूर्वमिक इत्यनेन वैयधिकरण्येन संबध्येत-"अङ्गस्य य इक्, तस्य गुणः" इति, ततोऽलोऽन्त्यस्येत्येतदनन्वितं स्यात् । अतः पूर्वमलोन्त्यस्येत्यनेन संबध्यते, स चान्त्येका विशेष्यते "अङ्गान्त्यस्येको गुणः" इति । यद्वा-इकाऽङ्गं विशिष्यते, विशेषणेन च तदन्तविधिः-इगन्तस्याङ्गस्येति । एवमपि हि स्थानषष्ठीत्वानपायादलोन्त्यस्येत्यव्याहतप्रसरं सर्वथाङ्गान्त्यस्येको गुण इति जुसि सार्वधातुकार्धधातुकगुणे न कश्चिद्दोषः । मिदादिषु पूर्वोक्तेन प्रकारेण द्वयोरन्वयासंभावदन्यतरद्धातव्यम् । तत्राविशेषादुभयमपि त्यज्येत, उच्येते च वृद्धिगुणौ "मृजेर्वृद्धिः" "मिदेर्गुणः" इति, तौ सर्वादेशौ स्याताम् । अतो विधिरूपेण नियमरूपेण वास्य सूत्रस्य व्यापारो नाभ्युपगन्तव्यः, किं तर्हि ? अनेन क्रियते पदोपस्थापनम्; यत्र ब्रूयाद् गुणो भवतीति, वृद्धिर्भवतीति; तत्रेक इत्येतत् षष्ठ।ल्न्तं पदमुपतिष्ठतामिति । "अलोऽन्त्यस्य" इत्यस्य तु वाक्यभावः । एवं हि विज्ञायमाने "सिचि वृद्धिः" इत्यादौ यत्रान्त्य इक् संभवति, तत्रेक इत्येतेनोपस्थितेनाङ्गे विशेषिते तदन्तविधौ सतीगन्ताङ्गस्य गुण इति वाक्यव्यापारे परिनिष्ठते पश्चादलोऽन्त्यस्येत्येतदिगन्तस्य प्राप्तं गुणं ततोऽपकृष्याङ्गान्त्यस्य विधते, न त्विक इत्यस्योपस्थानवेलायामुपतिष्ठते । "मिदेर्गुणः" इत्यादौ तु यत्रान्त्य इङ् न संभवति तत्राङ्गेनेकि विशेषितेऽङ्गस्येको गुण इति वाक्यव्यापारे परिसमाप्ते स्थानषष्ठ।ल्भावात्स्वयं न प्रवर्तते, न त्विक इत्यनेन सहोपतिष्ठते, येनाविशेषादुभयोर्निवृत्तिः स्यादिति सिद्धमिष्टम् । वृत्तिकारेण त्वस्य सूत्रस्य प्रयोजनं पिण्डीकृत्य प्रदर्शितम्-सर्वथान्त्यस्य वाऽनन्त्यस्य वेक एव गुणवृद्धी भवतः, न त्वक्षरव्यापारः । अत एव ऽवेदितव्यौऽ इत्याह । अक्षरव्यापारप्रदर्शने तु इक एव स्थाने भवत इत्येतावद्वक्तव्यं स्यात् । ऽस्वसंज्ञया शिष्यमाणाऽविति । वृद्धिर्भवति गुणो भवतीत्येवं विधीयमानावित्यर्थः । ऽइक इति किमिऽति । प्रधानावयवाक्षेपेण समुदायस्यैवाक्षेपः-सूत्रं किमर्थमित्यर्थः । ऽआत्सन्ध्यक्षरेऽत्यादि । ननु "गापोष्टक्" इति टकः कित्करणं सामग इत्यादावाल्लोपे च सिद्धं स्यात् सामग इति । तथा ग्लायतीत्यादौ सन्ध्यक्षराणामप्युपदेशसामर्थ्याद् गुणो न भविष्यति, इतरथा प्रक्रियालाघवार्थमेकारमेवोपदिशेत् । "जनेर्डः" इति डित्करणाद्व्यञ्जनानामपि गुणो न भविष्यति । यदि हि तस्य स्याद्, अर्द्धमात्रस्य मात्रिकेऽकारे गुणे कृते सिद्धं स्यादुपसरज इति । यद्येवम्,मिदेर्गुणोऽन्त्याद्व्यावर्तितः सर्वादेशः स्यात् । किं च गमेरप्ययं डो भवति, तस्य च स्थानत आन्तर्यादोकारो गुणः स्यात्; रैनौग्लौशब्देभ्यश्चाचाराक्विबन्तेभ्यस्तृजादौ गुणप्रसङ्गो यद्यभिधानमस्ति; तथा चितः, चिनुतः,भिन्नः, बेभिद्यते इत्यादौ "क्ङिति च" इति प्रतिषेधार्थमपि गुणस्येग्लक्षणत्वमेषितव्यम् । अथ वृद्धिग्रहणं किमर्थम् ? "मृजेर्वृद्धिः" इको यथा स्यात्, अलोऽन्त्यस्य मा भूत् । योगविभागात्सिद्धम्--"मृजेर्वृद्धिरचः", मृजेरचो वृद्धिर्भवति, अङ्गाक्षिप्तेन प्रत्ययेनाचो विशेषणात् ङ्यमार्ट्" अटो न भविष्यति, सिचि वृद्धिस्तर्ह्यकारस्य मा भूत्, अचिकीर्षीत् । अतो लोपो भविष्यति, "ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घेभ्यः पूर्वविप्रतिषिद्धम्?" इति वचनात्, यथा-चिकीर्षक इति । आकारस्य नास्ति विशेषः; सग्विधानादसंभवश्च । एजन्तमपि न संभवति; आत्वविधानात् । रैनौग्लोशब्दानामाचारक्विबन्तानामविशेषः, गोशब्दस्य क्विबन्तस्य "आञ्त इद्धातोः" इत्यतः "धातोः" इत्यनुवृतेः धातुरेव यो धातुरिति विज्ञानात् सिचि वृद्ध्यभावः । अभैत्सीदित्यादौ "सिचि वृद्धिः" इत्यनेन व्यञ्जनस्य नाप्राप्तायां वृद्धौ विधीयमाना हलन्तलक्षणा वृद्धिर्बाधिका, ङेटि" इत्ययं च निषेधो यावती हलन्तस्य वृद्धिः, सिचि वृद्धिरिति वा, हलन्तस्याच इति वा, सा सर्वा न भवतीति विज्ञायते । तेन अनर्दीदित्यादौ अन्त्यस्य वृद्धिर्न भविष्यति । तदेवम् "इको वृद्धिर्यथा स्याद् अदेङ्व्यञ्जनानां मा भूद्" इत्येवमर्थं तावद् वृद्धिग्रहणं न कर्तव्यम् । एवं तर्हि मृज्यते, मृष्ट इत्यादौ "क्ङिति च" इति प्रतिषेधार्थं मृजेर्वृद्धेरिग्लक्षणत्वम् । इदमपि योगविभागात्सिद्धम्--मृजेर्वृद्धिरित्यस्यानन्तरमजादौ क्ङिति वेति वक्तव्यम्--परिमृजन्ति परिमार्ज्जन्ति,परिममृजतुः परिममार्जतुरित्येवमर्थम् । तत्र योगविभागः-"अजादौ क्ङिति मृजेरचो वृद्धिर्भवति" । किमर्थमिदम् ? नियमार्थम्--क्ङिति यदि भवति अजादावेवेति । तेन मृज्यते मृष्ट इत्यादौ न भविष्यति, ततो वा, अजादावपि विकल्पेनेति । सिचि वृद्धेस्तर्हि प्रतिषेधार्थमिग्लक्षणत्वम् । "णु स्तुतौ" "धू विधूनने" कुटादी, न्यनुवीद् न्यधुवीद् । अत्राप्यन्तर्भूतसिज्मात्रापेक्षत्वादन्तरङ्ग उवङ् सिति हलन्तत्वात् ङेटि" इति निषेधः । यदि सिच्यन्तरङ्गं भवति, अचैषीद् अहौषीद् अहौषीद्-गुणः स्यात् । अस्तु, तस्यैव वृद्धिः करिष्यते ? अकार्षीदित्यादौ हलन्तलक्षणा वृद्धिः, अतारीदित्यादौ हलन्तलक्षणायाः ङेटि" इति प्रतिषेधे "अतो हलादेः " इति विकल्पं बाधित्वा "अतो लरन्तस्य" इति नित्या वृद्धिः । अलावीदित्यादावुवर्णान्तेषु सेटि सिच्यन्तरङ्गत्वाद् गुणावादेशयोः कृतयोरपि "अतो लरन्तस्य" इत्यत्र वकारस्यापि लुप्तनिर्दिष्टत्वान्नित्या वृद्धिः । यद्येवम्, मा भवानवीत्, अमवीदित्यत्रापि तर्हि वकारप्रश्लेषान्नित्या वृद्धिः स्यात् । सिच्यन्तरङ्गं भवतीत्युक्ते "ह्म्यन्तक्षण" इत्यत्र णिश्विग्रहणं न कर्तव्यम्; औनयीत्?, अश्वयीदित्यत्रान्तरङ्गत्वाद् गुणावयादेशयोः कृतयोर्यान्तानां नेत्येव सिद्धत्वात् । तत्स्थाने "अविमवीङिवेशयिष्यामः-"अतो लरन्तस्य" इत्यत्र वकारप्रश्लेषेण प्राप्तवृद्धिरविमव्योर्नेति । तदेवमनर्थकं वृद्धिग्रहणम् ? नानर्थकम्, सिच्यन्तरङ्गस्य प्रवृत्तिमाश्रित्य हि वृद्धिग्रहणं प्रत्याख्यायते,यदि च सिच्यन्तरङ्गं स्यात् चिनीप्रभृतिभ्यो यङ्गलुगन्तेभ्यश्चिरिणोतिजिरिणोतिभ्यां च लुङ् इसिचि अचेचायीद्; अनेनायीद्, अचिरायीद्, अजिरायीदिति? न स्याद्; गुणायादेशयोः कृतयोः यान्तानां नेति प्रतिषेधप्रसङ्गाद् । इग्लक्षणायां तु सिचि वृद्धौ तयैवान्तरङ्गं बाध्यते, यदि स्याद्, न क्वापि सिचीगन्तमङ्गं भवेत्, ततश्चाचिरायीदित्यादि सिद्धम् । यथा च तया गुणायदेशौ बाध्येते, एवं न्यनुवीदित्युवङपि बाध्येत । अतः प्रतिषेधार्थमपि वृद्धेरिग्लक्षणत्वमेषितव्यमिति सर्वमवदातम् । एवं बहुवक्तव्यत्वाद् वृत्तिकारेण वृद्धिग्रहणस्य प्रयोजनं न दर्शितम् । अथ कथं स्वसंज्ञया शिष्यमाणावित्येष विशेषो लभ्यते इत्याह-ऽगुणवृद्धिग्रहणमिऽत्यादि । इह पूर्वसूत्राभ्यां गुणवृद्धिग्रहणमनुवर्तते । तेनैवादेङमादैचां च ग्रहणे सिद्धे यत्पुनर्गुणवृद्धिग्रहणं तत्स्वसंज्ञया विधाननियमार्थम्; अन्यथा प्रकृतंगुणवृद्धिग्रहणं तटस्थमुपलक्षणं स्याद्--ऽवस्तुतो ये गुणवृद्धी तद्विधौऽ इति । स तु विधिर्गुणवृद्धिशब्दाभ्यां प्रकारान्तरेण वेत्येव विशेषो नाश्रितः स्यात्, पुनर्गुणवृद्धिग्रहणसामर्थ्यातु शब्दव्यापारोऽप्याश्रीयते--गुणवृद्धी ये गुणवृद्धी, एवं शब्दिते ये गुणवृद्धी इत्यन्यतरस्य गुणवृद्धिग्रहणस्य स्वरूपप्रधानत्वं सम्पद्यते । तेनायं विशेषो लभ्यत इत्यर्थः । अन्यथा "अचश्च" इत्यस्य स्वसंज्ञया विधाने नियमस्य "दिव उत्" इत्यादिष्वगुणवृद्धिसंज्ञकेषु; तत्संज्ञेषु च यत्रेङ् न संभवति "अष्टन आ विभक्तौ" इत्यादौ, तत्र चरितार्थत्वात् "दिव औत्" इत्यादिषु गुणवृद्धिसंज्ञकेषु यत्रेक् संभवति तत्रायं नियमः स्यात् । द्यौः पन्थाः, सः,इममिति । स इत्येतदनुदाहरणम्, न ह्यत्रेगस्ति । एवं प्रकटितोऽस्माभिर्भाष्ये परिचयः परः । तस्य निःशेषतो मन्ये प्रतिपतापि दुर्लभः ॥
सिद्धान्तकौमुदी
॥ अथ परिभाषाप्रकरणम्‌ ॥

गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयेते तत्रेक इति षष्ठ्यन्तं पदमुपतिष्ठते ॥
इको गुणवृद्धि। `इक` इति षष्ट�न्तशब्दः स्वरूपपरो नपुंसकलिङ्गः प्रथमैकवचनान्तः। सोर्लुका लुप्तत्वादत्वसन्तस्येति दीर्घो न ओ। `इकस्`शब्द इत्यर्थः। `उपतिष्ठते` इति शेषः। `वृद्धिरादैच्` `अदेङ्गुणः` इत्यतो वृद्धिरिति गुण इति चानुवर्तते। इतिशब्दोऽध्याहार्यः। `यत्र विधीयते तत्रे`त्यप्यध्याहार्यम्। गुणो वृद्धिरित्युच्चार्य यत्र गुणवृद्धि विधीयेते तत्र इक इति षष्ठ�न्तं पदमुपतिष्ठत इति योजना। तदाह--गुणवृद्धिशब्दाभ्यामित्यादिना। उपतिष्ठत इति। सङ्गतं भवतीत्यर्थः। `उपाद्देवपूचासङ्गतिकरणे`त्यात्मनेपदम्। सोऽयं पदोपस्थितिपक्षो भाष्यादौ सिद्धान्तितः। `सार्वधातुकार्धधातुकयोः`, मिदेर्गुणः` इत्याद्युदाहरणम्। इक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभवष्यति। `यत्र विधीयेते` इत्युक्त्या `वृद्धिर्यस्याचा`मित्याद्यनुवादे इक इति नोपतिष्ठते। अनुवादे परिभाषामनुपस्थितेः। `त्यदादीनामः` इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात्।
इको गुणवृद्धी। यत्र साक्षात्स्थानी न निर्दिष्टः `सार्वधातुकार्द्धधातुकयोः` `सिचि वृद्धि` रित्यादौ, तत्रैवेयं परिभाषा प्रवर्तते नतु `अचो ञ्णिती`त्यादौ, स्थानिनिर्देशात्। गुणवृद्धिशब्दाभ्यामिति। एतच्च पूर्वसूत्राभ्यां गुणवृद्धिपदे अनुवर्त्त्य `गुणो वृद्धिरिति ये गुणवृद्धी` इति योजनया लभ्यते। तेनेह न `त्यदादीनामः` इमम्। `दिव औत्`द्यौः। विधीयेते इति। यत्र। त्वनुवादो `वृद्धिर्यस्याचामादि`रित्यादौ तत्रेक इति षष्ट�न्तं नोपतिष्ठते, अनुवादे परिभाषाणामनुपस्थितेरिति भावः। `अनुवादे परिभाषाणा`मित्यस्यानूद्यमानविशेषणेष्वित्यर्थः। अनुपस्थितौ लिङ्गं फलं च-`उदीचामातः स्थाने` इत्यत्र स्फुटीकरिष्यते। षष्ठ�न्तमिति। सूत्रे षष्ठ�न्तस्यानुकरणाच्छब्दस्वरूपपरतया नपुंसकत्वात्सोर्लुकि `अत्वसन्तस्ये`ति दीर्धो नेति भावः। पदमिति। तच्च संभवति सामानाधिकरण्ये `इगन्तस्याङ्गस्ये`त्यादिक्रमेण संबध्यते। `मिदेर्गुणः` मृजेर्बृद्धिः` इत्यादौ तु सामानाधिकरण्याऽसंभवान्मिदिमृज्योरवयवस्येक इति संबध्यते।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इको गुणवृद्धी ।।1।1।3।। इग्ग्रहणं किमर्थम् । ।। इग्ग्रहणमात्सन्ध्यक्षरव्यञ्ञ्जननिवृत्त्यर्थम् ।। इग्ग्रहणं क्रियते । किं प्रयोजनम् । आकारनिवृत्त्यर्थं सन्ध्यक्षरनिवृत्त्यर्थं व्यञ्ञ्जननिवृत्त्यर्थं च । आकारनिवृत्त्यर्थं तावत् ‐ याता वाता । आकारस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति । सन्ध्यक्षरनिवृत्त्यर्थम् ‐ ग्लायति म्लायति । सन्ध्यक्षरस्य गुणः प्राप्नोति । इग्ग्र्हणान्न भवति । व्यञ्ञ्जननिवृत्त्यर्थम्-उम्भिता उम्भितुम् । उम्भितव्यम् । व्यञ्ञ्जनस्य गुणः प्राप्नोति । इग्ग्रहणान्न भवति । आकारनिवृत्त्यर्थेन तावन्नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति-नाकारस्य गुणो भवतीति । यदयम् आतोऽनुपसर्गे कः इति ककारमनुबन्धं करोति । कथं कृत्वा ज्ञापकम् । कित्करण एतत्प्रयोजनम्-कितीत्याकारलोपो यथा स्यात् । यदि चाकारस्य गुणः स्यात् कित्करणमनर्थकं स्यात् । गुणे कृते द्वयोरकारयोः पररूपेण सिद्धं रूपं गोदः कम्बलद इति । पश्यति त्वाचार्यो नाकारस्य गुणो भवतीति, ततः ककारमनुबन्धं करोति । सन्ध्यक्षरनिवृत्त्यर्थेनापि नार्थः । उपदेशसार्मथ्यात् सन्ध्यक्षरस्य गुणो न भवति । व्यञ्ञ्जननिवृत्त्यर्थेनापि नार्थः । आचार्यप्रवृत्तिर्ज्ञापयति न व्यञ्ञ्जनस्य गुणो भवतीति । यदयं जनेर्डं शास्ति । कथं कृत्वा ज्ञापकम् । डित्करण एतत्प्रयोजनम्-डितीति टिलोपो यथा स्यात् । यदि व्यञ्ञ्जनस्य गुणः स्याद् डित्करणमनर्थकं स्यात् । गुणे कृते त्रयाणामकाराणां पररूपेण सिद्धं रूपं स्यादुपसरजो मन्दुरज इति पश्यति त्वाचार्यो न व्यञ्ञ्जनस्य गुणो भवतीति । ततो जनेःथ्द्य;र् शास्ति । नैतानि सन्ति ज्ञापकानि । यत्तावदुच्यते ‐ कित्करणं ज्ञापकं नाकारस्य गुणो भवतीति । उत्तरार्थमेतत्स्यात् ‐ तुन्दशोकयोः परिमृजापुनदोः इति । यत्तर्हि गापोष्टक् इत्यनन्यार्थं ककारमनुबन्धं करोति । यदप्युच्यते ‐ उपदेशसार्मथ्यात्सन्ध्यक्षरस्य गुणो न भवतीति । यदि यद्यत्सन्ध्यक्षरस्य प्राप्नोति तत्तदुपदेश-सार्मथ्याद् बाध्यते, आयादयोपि तर्हि न प्राप्नुवन्ति । नैष दोषः । यं विधिं प्रत्युपदेशोऽनर्थकः, स विधिर्बाध्यते । यस्य तु विधेर्निमित्तमेव, नासौ बाध्यते । गुणं च प्रत्युपदेशोऽनर्थकः, आयादीनां पुनर्निमित्तमेव ।। यदप्युच्यते ‐ जनेर्डंवचनं ज्ञापकम् ‐ न व्यञ्ञ्जनस्य गुणो भवतीति । सिद्धे विधिरारभ्यमाणो ज्ञापकार्थो भवति । न च जनेर्गुणेन सिध्यति । कुतो ह्येतत् ‐ जनेर्गुण उच्यमानोऽकारो भवति, न पुनरेकारो वा स्यादेकारो वेति आन्तर्यतोऽर्धमात्रिकस्य व्यञ्ञ्जनस्य मात्रिकोऽकारो भविष्यति । एवमप्यनुनासिकः प्राप्नोति । पर-रूपेण शुद्धो भविष्यति । एवं तर्हि गमेरप्ययं डो वक्त्व्यः । गमेश्च गुण उच्यमान आन्तर्यत ओकारः प्राप्नोति । तस्मादिग्ग्रहणं कर्तव्यम् ।। यदीग्ग्रहणं क्रियते द्यौः, पन्थाः, सः, इमम् इति, एतेऽपीकः प्राप्नुवन्ति । ।। संज्ञया विधाने नियमः ।।। संज्ञया ये विधीयन्ते तेषु नियमः । किं वक्तव्यमेतत् । न हि । कथमनुच्यमानं गंस्यते । गुणवृद्धिग्रहणसार्मथ्यात् । कथं पुनरन्तरेण गुणवृद्धिग्रहणमिको गुणवृद्धी स्याताम् । प्रकृतं गुणवृद्धिग्रहणमनुवर्तते । क्व प्रकृतम् । वृद्धिरादैजदेङ्गुणः इति । यदि तदनुवर्तते अदेङ्गुणो वृद्धिश्च इत्यदेङां वृद्धिसंज्ञापि प्राप्नोति । सम्बन्धमनुवर्तिष्यते ‐ वृद्धिरादैच् । अदेङ्गुणः इति वृद्धिरादैच् । ततः इको गुणवृद्धी इति गुणवृद्धिग्रहणमनुवर्तते, आदैजदेङ्ग्रहणं निवृत्तम् । अथवा मण्डूकगतयोधिकाराः । यथा मण्डूका उत्प्लुत्योत्प्लुत्य गच्छन्ति तद्वदधिकाराः । अथवैकयोगः करिष्यते ‐ वृद्धिरादैजदेङ्गुणः, तत इको गुणवृद्धी इति । न चैकयोगेऽनुवृत्तिर्भवति । अथवा अन्यवचनाच्चकाराकरणाच्च प्रकृतापवादो विज्ञायते, यथोत्सर्गेण प्रसक्तस्यपवादो बाधको भवति । अन्यस्याः संज्ञाया वचनाच्चकारस्य चानुकर्षणार्थस्याकरणात्प्रकृताया वृद्धिसंज्ञाया गुणसंज्ञा बाधिका भविष्यति । यथोत्सर्गेण प्रसक्तस्यापवादो बाधको भवति । अथवा वक्ष्यत्येतत् ‐ अनुवर्तन्ते च नाम विधयः । न चानुवर्तनादेव भवन्ति । किन्तर्हि यत्नाद्भवन्तीति । अथवा उभयं निवृत्तम् ‐ तदपेक्षिष्यामहे ।। किं पुनरयमलोन्त्यशेषः, अहोस्विदलोन्त्यापवादः । कथं चायं तच्छेषः स्यात्, कथं वा तदपवादः । यद्येकं वाक्यम् ‐ तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अलोन्त्यस्य इति । ततोयं तच्छेषः । अथ नानावाक्यम् ‐ तच्चेदं च, अलोन्त्यस्य विधयो भवन्ति, इको गुणवृद्धी अन्त्यस्य चानन्त्यस्य च इति । ततोऽयं तदपवादः । कश्चात्र विशेषः । ।। वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधार्च्छिदृशिक्षिप्रक्षुद्रेष्विग्रहणम् ।। वृद्धिगुणावलोन्त्यस्येति चेन्मिदिमृजिपुगन्तलघूपधर्च्छिदृशि क्षिप्रक्षुद्रेष्विग्ग्रहणं कर्तव्यम् । मिदेर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । मृजेर्वृद्धिः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । पुगन्तलघूपधस्य गुणः इक इति वक्तव्यम् अनन्त्यत्वाद्धि न प्राप्नोति । ऋच्छेर्लिटि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ऋदृशोङि गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । क्षिप्रक्षुद्रयोर्गुणः इक इति वक्तव्यम् । अनन्त्यत्वाद्धि न प्राप्नोति । ।। सर्वादेशप्रसङ्गश्चानिगन्तस्य ।। सर्वादेशश्च गुणोऽनिगन्तस्य प्राप्नोति । याता वाता । किं कारणम् । अलोन्त्यस्य इति षष्ठी चैव ह्यन्त्यमिकमुपसंक्रान्ता, अङ्गस्येति च स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तस्य गुणः सर्वादेशः प्राप्नोति । नैष दोषः । यथैव ह्यलोन्त्यस्येति षष्ठी अन्त्यमिकमुपसङ्क्रान्ता, एवमङ्गस्येत्यपि स्थानषष्ठी । तद्यदिदानीमनिगन्तमङ्गं तत्र षष्ठ्येव नास्ति, कुतो गुणः, कुतः सर्वादेशः । एवं तर्हि नायं दोषसमुच्चयः । किं तर्हि । पूर्वापेक्षोयं दोषः । ह्यर्थे चायं चः पठितः ‐ ।। मिदिमृजिपुगन्तलघूपधर्च्छिदृशिक्षिप्रक्षुद्रेष्विग्ग्रहणं सर्वादेशप्रसङ्गो ह्यनिगन्तस्य इति ।। । मिदेर्गुणः इक इति वचनादन्त्यस्य न, अलोन्त्यस्य इति वचनादिको न । उच्यते च गुणः । स सर्वादेशः प्राप्नोति । एवं सर्वत्र ।। अस्तु तर्हि तदपवादः । ।। इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधः ।। इङ्मात्रस्येति चेज्जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्वनन्त्यप्रतिषेधो वक्तव्यः । जुसि गुणः ‐ स यथेह भवति अजुहवुः अबिभयुः इति । एवम् अनेनिजुः पर्यवेविषुः अत्रापि प्राप्नोति । सार्वधातुकार्धधातुकयोर्गुणः ‐ स यथेह भवति ‐ कर्ता हर्ता नयति तरति इति । एवम् इर्हिता इर्हितुम् इर्हितव्यम् इत्यत्रापि प्राप्नोति । ह्रस्वस्य गुणः ‐ स यथेह भवति-हे अग्ने हे वायो इति । एवं हे अग्निचित् सोमसुद् इत्यत्रापि प्राप्नोति । जसि गुणः-स यथेह भवति-अग्नयो वायव इति । एवम् अग्निचितः सोमसुत इत्यत्रापि प्राप्नोति । ऋतो ङिसर्वनामस्थानयोर्गुणः ‐ स यथेह भवति-कर्तरि कर्तारौ कर्तार इति । एवं सुकृति सुकृतौ सुकृत इत्यत्रापि प्राप्नोति । घेर्ङिति गुणः ‐ स यथेह भवति-अग्नये वायवे इति । एवम् अग्निचिते सोमसुते इत्यत्रापि प्राप्नोति । ओर्गुणः-स यथेह भवति बाभ्रव्यो माण्डव्य इति । एवं सुश्रुत् सौश्रुत इत्यत्रापि प्राप्नोति ।। नैष दोषः । ।। पुगन्तलघूपधग्रहणमनन्त्यनियमार्थम् ।।। पुगन्तलघूपधग्रहणमनन्त्यनियमार्थं भविष्यति । पुगन्तलघूपधस्यैवानन्त्यस्य नान्यस्यानन्त्यस्येति । प्रकृतस्यैव नियमः स्यात् । किं च प्रकृतम् । सार्वधातुकार्धधातुकयोः इति । तेन भवेदिह नियमान्न स्याद् इर्हिता इर्हीतुम् इर्हितव्यम् इति । ह्रस्वाद्योर्गुणस्त्वनियतः, सोऽनन्त्यस्यापि प्राप्नोति । अथाप्येवं नियमः स्यात् ‐ पुगन्तलघूपधस्य सार्वधातुकार्धधातुकयोरेवेति । एवमपि सार्वधातुकार्धधातुकयोर्गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति इर्हिता इर्हितुम् इर्हितव्यमिति । अथाप्युभयतो नियमः स्यात् ‐ पुगन्तलघूपधस्यैव सार्वधातुकार्धधातुकयोः । सार्वधातुकार्धधातुकयोरेव पुगन्तलघूपधस्येति । एवमप्ययं जुसि गुणोऽनियतः, सोऽनन्त्यस्यापि प्राप्नोति अनेनिजुः पर्यवेविषुः इति । एवं तर्हि ‐ नायं तच्छेषः, नापि तदपवादः । अन्यदेवेदं परिभाषान्तरमसम्बद्धमनया परिभाषया । परिभाषान्तरमिति च मत्वा क्रोष्ट्रीयाः पठन्ति ‐ ।। नियमादिको गुणवृद्धी भवतो विप्रतिषेधेन ।। इति ।। । यदि चायं तच्छेषः स्यात्तेनैव तस्यायुक्तो विप्रतिषेधः । अथापि तदपवादः, उत्सर्गापवादयोरप्ययुक्तो विप्रतिषेधः । तत्र नियमस्यावकाशः ‐ राज्ञः क च राजकीयम् । इको गुणवृद्धी इत्यस्यावकाशः ‐ चयन चायको लवनं लावक इति । इहोभयं प्राप्नोति ‐ मेद्यति मार्ष्टीति । इको गुणवृद्धी इत्येतद्भवति विप्रतिषेधेन । नैवं युक्तो विप्रतिषेधः । विप्रतिषेधे परम् इत्युच्यते । पूर्वश्चायं योगः, परो नियमः । इष्टवाची परशब्दः । विप्रतिषेधे परं यदिष्टं तद्भवतीति । एवमप्ययुक्तो विप्रतिषेधः . द्विकार्ययोगो हि विप्रतिषेधः । न चात्रैको द्विकार्ययुक्तः । नावश्यं द्विकार्ययोग एव विप्रतिषेधः । किंतर्हि । असम्भवोपि । स चास्त्यत्रासंभवः । कोऽसावसंभंवः । इह तावद् वृक्षेभ्यः प्लक्षेभ्य इति । एकः स्थानी, द्वावादेशौ, न चास्ति संभवः यदेकस्य स्थानिनो द्वावादेशौ स्याताम् । इहेदानीं ‐ मेद्यति, मेद्यतः, मेद्यन्ति इति द्वौ स्थानिनौ, एकादेशः, न चास्ति संभवः । द्वयोः स्थानिनोरेक आदेश स्यादित्येषोऽसम्भवः । सत्येतस्मिन्नसम्भवे युक्तो विप्रतिषेधः । एवमप्ययुक्तो विप्रतिषेधः । द्वयोर्हि सावकाशयोः समवस्थितयोर्विप्रतिषेधो भवति । अनवकाशश्चायं योगः । ननु चेदानीमेवास्यावकाशः प्रक्लृप्तः चयनं चायको लवनं लावक इति । अत्रापि नियमः प्राप्नोति । नाप्राप्ते नियमेऽयं योग आरभ्यते । यावता च नाप्राप्ते नियमेऽयं योग आरभ्यते, ततस्तस्यापवादोऽयं योगो भवति । उत्सर्गापवादयोश्चायुक्तो विप्रतिषेःः । अथापि कथंचिद् इको गुणवृद्धी इत्यस्यावकाशः स्यात्, एवमपि यथेह विप्रतिषेधादिको गुणो भवति मेद्यति, मेद्यतः, मेद्यन्ति इति, एवमिहापि स्यात् ‐ अनेनिजुः, पर्यवेविषुरिति । एवं तर्हि वृद्धिर्भवति गुणो भवतीति यत्र ब्रूयाद् इक इत्येतत्तत्रोपस्थितं द्रष्टव्यम् । किं कृतं भवति । द्वितीया षष्ठी प्रादुर्भाव्यते । तत्र कामचारः, गृह्यमाणेन वेकं विशेषयितुम्, इका वा गृह्यमाणम् । यावता कामचारः, इह तावन्मिदिमृजिपुगन्तलघूपधर्छिदृशिक्षिप्रक्षुद्रेषु गृह्यमाणमिकं विशेषयिष्यामः ‐ एतेषां य इगिति । इहेदानीं जुसि सार्वधातुकार्धधातुकह्रस्वाद्योर्गुणेष्विका गृह्यमाणं विशेषयिष्यामः ‐ एतेषां गुणो भवति, इकः इगन्तानामिति । अथवा सर्वत्रैवात्र स्थानी निर्दिश्यते । इह तावन्मिदेरित्यविभक्तिको निर्देशः, मिद् एः मिदेरिति । अथवा षष्ठीसमासो भविष्यति ‐ मिदः इ-, मिदिः, मिदेरिति । पुगन्तलघूपधस्येति । नैवं विज्ञायते पुगन्ताङ्गस्य लघूपधस्य चेति । कथं तर्हि । पुकि अन्तः पुगन्तः, लग्वी उपधा लघूपधा, पुगन्तश्च लघूपधा च पुगन्तलघूपधम्, पुगान्तलघूपधस्येति । अवश्यं चैतदेवं विज्ञेयम्, अङ्गविशेषणे सतीह प्रसज्येत भिनत्ति छिनत्तीति । ऋच्छेरपि प्रश्लिष्टनिर्देशोऽयम् ‐ ऋच्छति ऋ ऋ ऋताम् ऋच्छत्यॄताम् इति । दृशेरपि योगविभागः करिष्यते ‐ उरङि गुणः उः अङि गुणो भवति ततो दृशेः दृशेश्चाङि गुणो भवति । उरित्येव । क्षिप्रक्षुद्रयोरपि यणादिपरं गुणः इतीयता सिद्धम् । सोऽयमेवं सिद्धे सति यत्पूर्वग्रहणं करोति तस्यैतत्प्रयोजनम् ‐ इको यथा स्यादनिको मा भूदिति । अथ वृद्धिग्रहणं किमर्थम् । किं विशेषेण वृद्धिग्रहणं चोद्यते न पुनर्गुणग्रहणमपि । यदि किञ्ञ्चिद्गुणग्रहणस्य प्रयोजनमस्ति, वृद्धिग्रहणस्यापि तद्भवितुमर्हति । को वा विशेषः । अयमस्ति विशेषः । गुणविधौ न क्वचित्स्थानी निर्दिश्यते । तत्रावश्यं स्थानिनिर्देशार्थं गुणग्रहणं कर्तव्यम् । वृद्धिविधौ पुनः सर्वत्रैव स्थानी निर्दिश्यते अचोञ्ञ्णिति अत उपधायाः तद्धितेष्वचामादेः इति । अत उत्तरं पठति ‐ ।। वृद्धिग्रहणमुत्तरार्थम् ।। वृद्धिग्रहणं क्रियते । किमर्थम् । उत्तरार्थम् । क्ङिति इति प्रतिषेधं वक्ष्यति । स वृद्धेरपि यथा स्यात् । कश्चेदानीं क्ङित्प्रत्ययेषु वृद्धेः प्रसङ्गः । यावता ञ्ञ्णिति इत्युच्यते । ।। तच्च मृज्यर्थम् ।। मृजेर्वृद्धिरविशेषेणोच्यते । सा क्ङिति मा भूत् ‐ मृष्टः मृष्टवानिति । ।। इहार्थं चापि ।।। इहार्थं चापि मृज्यर्थं वृद्धिग्रहणं कर्तव्यम् । मृजेर्वृद्धिरविशेषेणोच्यते सेको यथा स्यात्, अनिको मा भूदिति । ।। मृज्यर्थमिति चेद्योगविभागा त्सिद्धम् ।।। मृज्यर्थमिति चेद्योगविभागः करिष्यते ‐ मृजेर्वृद्धिरचः । ततः ञ्ञ्णिति ञ्ञिति णिति च वृद्धिर्भवति अचः इत्येव । यद्यचो वृद्धिरुच्यते, न्यमार्ट् अटोपि वृद्धिः प्राप्नोति । ।। अटि चोक्तम् ।। किमुक्तम् । अनन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवति इति । ।। वृद्धिप्रतिषेधानुपपत्तिस्त्विक्प्रकरणात् ।। । (तस्मादिग्लक्षणा वृ-द्धिः) वृद्धेस्तु प्रतिषेधो नोपपद्यते । किं कारणम् । इक्प्रकरणात् । इग्लक्षणयोर्गुणवृद्ध्योः प्रतिषेधः । न चैवं सति मृजेरिग्लक्षणा वृद्धिर्भवति । तस्मान्मृजेरिग्लक्षणा वृद्धिरेषितव्या । एवं तर्हि ‐ इहान्ये वैयाकरणा मृजेरजादौ संक्रमे विभाषा वृद्धिमारभन्ते ‐ परिमृजन्ति परिमार्जन्ति, परिमृजन्तु परिमार्जन्तु परिममृजतुः परिममार्जतुरित्याद्यर्थम् । तदिहापि साध्यम् । तस्मिन्साध्ये योगविभागः करिष्यते मृजेर्वृद्धिरचो भवति । ततः अचि क्ङिति अजादौ च क्ङिति मृजेर्वृद्धिर्भवति । परिमार्जन्ति परिमार्जन्तु परिममार्जतुः । किमर्थमिदम् । नियमार्थम्, अजादावेव क्ङिति नान्यत्र । क्वान्यत्र मा भूत् । मृष्टः मृष्टवानिति । ततो वा । ।वाऽचि क्ङिति मृजेर्वृद्धिर्भवति । परिमृजन्ति परिमार्जन्ति परिमृजतुः परिममार्जतुरिति । इहार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सेको यथा स्याद् अनिको मा भूदिति । कस्य पुनरनिकः प्राप्नोति । अकारस्य । अचिकीर्षीत्, अजिहीर्षीत् । नैतदस्ति । लोपोत्र बाधको भविष्यति । आकारस्य तर्हि प्राप्नोति ‐ अयासीत् अवासीत् । नास्त्यत्र विशेषः सत्यां वृद्धावसत्यां वा । सन्ध्यक्षरस्य तर्हि प्राप्नोति । नैव सन्ध्यक्षरमन्त्यमस्ति । ननु चेदमस्ति ढलोपे कृते उदवोढाम् उदवोढम् उदवोढेति । नैतदस्ति । असिद्धो ढलोपः । तस्यासिद्धत्वान्नैतदन्त्यं भवति । व्यञ्ञ्जनस्य तर्हि प्राप्नोति अभैत्सीत् अच्छैत्सीत् । हलन्तलक्षणा वृद्धिर्बाधिका भविष्यति । यत्र तर्हि सा प्रतिषिध्यते नेटि इति अकोषीत् अमोषीत् । सिचि वृद्धेरप्येष प्रतिषेधः । कथम् । लक्षणं हि नाम ध्वनति भ्रमति मुहूर्त्तमपि नावतिष्ठते । अथवा सिचि वृद्धिः परस्मैपदेषु इति सिचि वृद्धिः प्राप्नोति । तस्या हलन्तलक्षणा वृद्धिर्बाधिका । तस्या अपि नेटि इति प्रतिषेधः । अस्ति पुनः क्वचिदन्यत्रापि अपवादे प्रतिषिद्धे उत्सर्गोपि न भवति । अस्तीत्याह ‐ सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यदिति । पूर्वरूपे प्रतिषिद्धेऽयादयोपि न भवन्ति । उत्तरार्थमेव तर्हि सिजर्थं वृद्धिग्रहणं कर्तव्यम् । सिचि वृद्धिरविशेषेणोच्यते सा क्ङिति मा भूत् न्यनुवीत् न्यधुवीत् । नैतदस्ति प्रयोजनम् । अन्तरङ्गत्वादत्रोवङ्ङादेशे कृतेऽनन्त्यत्वाद् वृद्धिर्न भविष्यति । यदि तर्हि सिच्यन्तरङ्गं भवति ‐ अकार्षीत् अहार्षीत्, गुणे कृते रपरत्वे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । मा भूदेवम् । हलन्तस्य ‐ इत्येवं भविष्यति । इह तर्हि न्यस्तारीत् न्यदारीत् । गुणे कृते रपरत्वे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । इह तर्हि अलावीत् अयावीत् । गुणे कृतेऽवादेशे चानन्त्यत्वाद् वृद्धिर्न प्राप्नोति । हलन्तलक्षणायाश्च नेटि इति प्रतिषेधः । मा भूदेवम् । ल्रान्तस्य इत्येवं भविष्यति । ल्रान्तस्य इत्युच्यते, न चेदं ल्रान्तम् । ल्रान्तस्य इत्यत्र वकारोपि निर्दिश्यते । किं वकारो न श्रूयते । लुप्तनिर्दिष्टो वकारः । यद्येवम् ‐ मा भवानवीत्, मा भवान् मवीत् । अत्रापि प्राप्नोति । अविमव्योर्नेति वक्ष्यामि । तद्वक्तव्यम् । न वक्तव्यम् । णिश्विभ्यां तौ निमातव्यौ । यद्यप्येतदुच्यते । अथ वैतर्हि णिश्व्योः प्रतिषेधो न वक्तव्यो भवति । गुणे कृतेऽयादेशे च यान्तानां नेत्येव प्रतिषेधो भविष्यति । एवं तर्ह्याचार्यप्रवृत्तिर्ज्ञापयति न सिच्यन्तरङ्गं भवतीति यदयम् अतो हलादेर्लघोः इत्यकारग्रहणं करोति । कथं कृत्वा ज्ञापकम् । अकारग्रहणस्यैतत्प्रयोजनम् ‐ इह मा भूत् ‐ अकोषीत् अमोषीत् । यदि सिच्यन्तरङ्गं स्याद् अकारग्रहणमनर्थकं स्यात् । गुणे कृतेऽलघुत्वाद् वृद्धिर्न भविष्यति । पश्यति त्वाचार्यो न सिच्यन्तरङ्गं भवतीति, ततोऽकारग्रहणं करोति । नैतदस्ति ज्ञापकम् । अस्त्यदेतस्य वचने प्रयोजनम् । किम् । यत्र गुणः प्रतिषिध्यते तदर्थमेतत् स्यात् न्यकुटीत् न्यपुटीत् । यत्तर्हि णिश्व्योः प्रतिषेधं शास्ति तेन नेहान्तरङ्गमिति दर्शयति । यच्च करोत्यकारग्रहणं लघोरिति कृतेपि । तस्मादिग्लक्षणा वृद्धिः ।। तस्मादिग्लक्षणा वृद्धिरास्थेया ।। षष्ठ्याः स्थानेयोगत्वादिग्निवृत्तिः ।। षष्ठ्याः स्थानेयोगत्वात्सर्वेषामिकां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति दधि मधु । पुनर्वचनमिदानीं किमर्थं स्यात् । ।। अन्यतरार्थ पुनर्वचनम् ।।। अन्यतरार्थमेतत्स्यात् ‐ सार्वधातुकार्धधातुकयोर्गुण एवेति । ।। प्रसारणे च ।।। प्रसारणे च सर्वेषां यणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति वाता वाता । पुनर्वचनमिदानीं किमर्थं स्यात् । ।। विषयार्थं पुनर्वचनम् ।। विषयार्थमेतत्स्यात् वचिस्वपियजादीनां कित्येवेति । ।। उरण् रपरे च ।। उरण् रपरे च सर्वेषामृकाराणां निवृत्तिः प्राप्नोति । अस्यापि प्राप्नोति ‐ कर्तृ हर्तृ इति । ।। सिद्धं तु षष्ठ्यधिकारे वचनात् ।।। सिद्धमेतत् । कथम् । षष्ठ्यधिकारे इमे योगाः कर्तव्याः । एकस्तावत् क्रियते तत्रैव । इमावपि योगौ षष्ठ्यधिकारमनुवर्तिष्येते । अथवा षष्ठ्यधिकारे इमौ योगावपेक्षिष्यामहे । अथवेदं तावदयं प्रष्टव्यः ‐ सार्वधातुकार्ध धातुकयोर्गुणो भवति इतीह कस्मान्न भवति ‐ याता । इदं तत्रापेक्षिष्यते ‐ इको गुणवृद्धी इति । यथैव तर्हि इदं तत्रापेक्षिप्यते एवमिहापि तदपेक्षिष्यामहे सार्वधातुकार्धधातुकयोः इति ।। इको गुणवृद्धी ।। इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये प्रथमस्याध्यायस्य प्रथमे पादे तृतीयमाह्निकं समाप्तम् ।।