॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|27
SK 213
1|1|27
सर्वादीनि सर्वनामानि   🔊
SK 213
सूत्रच्छेद:
सर्व-आदीनि - प्रथमाबहुवचनम् , सर्वनामानि - प्रथमाबहुवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
सर्वादीनि सर्वनामानि
सूत्रार्थ:
सर्वादिगणे विद्यमानाः शब्दाः सर्वनामसंज्ञकाः भवन्ति ।
अनेन सूत्रेण "सर्वनाम" इति संज्ञा पाठ्यते । ये शब्दाः सर्वादिगणे पाठ्यन्ते, ते सर्वे अनेन सूत्रेण "सर्वनाम" वाचकाः भवन्ति ।

सर्वादिगण अयम् - सर्व, विश्व, उभ, उभय, डतर, डतम, अन्य, अन्यतर, इतर, त्वत् , त्व, नेम, सम, सिम, पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् (गणसूत्रम्), स्वमज्ञातिधनाख्यायाम् (गणसूत्रम्), अन्तरं बहिर्योगोप्संव्यानयोः (गणसूत्रम्), त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् ।

सर्वेषां शब्दानां विषये विस्तारेण पश्यामः -

1. "सर्व" - all इत्यस्मिन् अर्थे "सर्व"शब्दः सर्वनामसंज्ञां प्राप्नोति । अस्य शब्दस्य त्रिषु अपि वचनेषु रूपाणि भवितुम् अर्हन्ति । यथा -
[अ] "सर्वः गणः पठतु" इत्यत्र "गणे अनेके जनाः सन्ति" इति विचिन्त्य तेषां सर्वेषां विषये पठनस्य निर्देशं कर्तुम् "सर्व"शब्दः प्रयुज्यते, परन्तु गणः तु एकः एव अस्ति, अतः अत्र "सर्व"शब्दस्य अपि एकवचनम् भवति । एतादृशः प्रयोगः "अनुद्भूतावयवसमुदायस्य" निर्देशं करोति इत्युच्यते ।"अनुद्भूतावयवसमुदायस्य निर्देशः" इत्युक्ते सः निर्देशः यः केवलं समुदायस्य विषये कृतः अस्ति, न तु समुदाये विद्यमानाम् वस्तूनां विषये ।
[आ] "सर्व"शब्दस्य द्विवचनस्य प्रयोगः प्रायः युगलस्य अनेकतां दर्शयितुम् प्रयुज्यते (multiplicity of a pair इत्यर्थः) । यथा - "सर्वयोः सुबन्ततिङन्तयोः पदसंज्ञा भवति" । अस्मिन् वाक्ये तिङ्-प्रत्ययान्ताः सर्वे शब्दाः "तिङन्त" इत्यनेन निर्दिश्यन्ते, तथैव "सुप्-प्रत्ययान्ताः" सर्वे शब्दाः "सुबन्त" इत्यनेन सम्बुद्ध्यन्ते । अत्र गणद्वयम् (तिङन्तः तथा सुबन्तः) उक्तम् अस्ति, अतः सर्वशब्दस्य द्विवचनं प्रयुज्यते । द्वयोः अपि गणयोः विद्यमानाः सर्वे शब्दाः पदसंज्ञां प्राप्नुवन्ति, इति अत्र आशयः ।
[इ] "सर्व"शब्दस्य द्विवचनस्य प्रयोगः द्वयोः वस्तुनोः निर्देशं कर्तुम् अपि भवति । यथा - कस्मिंश्चित् गणे यदि द्वौ एव जनौ स्तः, तर्हि द्वयोः निर्देशं कर्तुम् "सर्वौ द्वौ अत्र आगच्छेताम्" इति प्रयोगः अपि क्रियते । अत्र जनयोः सङ्ख्याम् अनुसृत्य सर्वशब्दस्य द्विवचनम् प्रयुज्यते ।
[ई] सर्व-शब्दस्य बहुवचनस्य प्रयोगाः तु भाषायाम् प्रचुराः एव । यथा - सर्वे छात्राः पठन्तु । अत्र सर्व-शब्दस्य प्रयोगः "उद्भूतावयवस्य" निर्देशं करोति इत्युच्यते । "उद्भूतावयवसमुदायस्य निर्देशः" इत्युक्ते सः निर्देशः यः समुदाये विद्यमानानां वस्तूनां विषये कृतः अस्ति ।

"सर्व"शब्दस्य रूपाणि प्रायः "राम"शब्दवदेव भवन्ति, परन्तु केषुचन स्थलेषु तानि भिद्यन्ते । तद्यथा -
[अ] पुँल्लिङ्गे - प्रथमाबहुवचनम् = सर्वे ।
[आ] पुँल्लिङ्गनपुँसकलिङ्गयोः - चतुर्थ्येकवनम् = सर्वस्मै । पञ्चम्येकवचनम् - सर्वस्मात् । सप्तम्येकवचनम् - सर्वस्मिन् ।
[इ] स्त्रीलिङ्गे - चतुर्थ्येकवनम् - सर्वस्यै । पञ्चमीषष्ठ्येकवचनम् - सर्वस्याः । षष्ठीबहुवचनम् - सर्वासाम् । सप्तम्येकवचनम् - सर्वस्याम् ।
अन्यत्र सर्वत्र "राम"शब्दवदेव रूपाणि भवन्ति ।

2. "विश्व" - "सम्पूर्णम्" (complete) इत्यस्मिन् अर्थे "विश्व"शब्दः सर्वनामसंज्ञां प्राप्नोति । "जगत्" / "पृथिवी" इत्यस्मिन् अर्थे अस्य शब्दस्य सर्वनामसंज्ञा न भवति । अस्यापि त्रिषु लिङ्गेषु त्रिषु वचनेषु च रूपाणि भवन्ति । यथा - विश्वः विश्वौ विश्वे , विश्वा विश्वे विश्वाः, विश्वम् विश्वे विश्वानि । अस्य शब्दस्य रूपाणि "सर्व" शब्दवदेव भवन्ति ।

3. "उभ" - both / two इत्यस्मिन् अर्थे युगलस्य निर्देशं कर्तुम् उभ-शब्दस्य सर्वनामसंज्ञा भवति । अस्य त्रिषु लिङ्गेषु केवलं द्विवचनस्यैव रूपाणि भवन्ति । यथा - पुँल्लिङ्गे - उभौ, उभाभ्याम् , उभयोः । स्त्रीलिङ्गे नपुँसकलिङ्गे च - उभे, उभाभ्याम्, उभयोः ।

4. "उभय" - अस्य शब्दस्य त्रिषु लिङ्गेषु केवलम् एकवचन-बहुवचनस्यैव रूपाणि भवन्ति, द्विवचनस्य न । तथा च, एकवचने बहुवचने च अयं शब्दः भिन्नयोः अर्थयोः प्रयुज्यते -
[अ] एकवचने उभयशब्दः "द्वौ अवयवौ अस्य" ("having two parts") अस्मिन् अर्थे प्रयुज्यते । यथा, "उभयः मणिः" - सः मणिः यस्य भागद्वयं विद्यते । A jewel with two parts इत्यर्थः ।
[आ] बहुवचने उभयशब्दः " द्वौ राशी समुदायस्य अवयवौ" अस्मिन् अर्थे प्रयुज्यते । यथा, "उभये देवमनुष्याः" इत्युक्ते "एकस्य गणस्य द्वौ राशी (देवानाम् प्रथमः, मनुष्याणाम् अपरः)", इत्यर्थः ।
विशेषः - "उभय" शब्दः "उभ"शब्दात् उभादुदात्तो नित्यम् 5|2|44 इत्यनेन तयप्-प्रत्ययं (तस्य अयच्-आदेशं च) कृत्वा सिद्ध्यति ।
अस्य शब्दस्य रूपाणि "सर्व"शब्दवदेव भवन्ति ।

5. "डतर", "डतम" - एतौ द्वौ तद्धितप्रत्ययौ । किंयत्तदो निर्द्धारणे द्वयोरेकस्य डतरच् 5|3|92, तथा च वा बहूनां जातिपरिप्रश्ने डतमच् 5|2|93 अनयोः सूत्रयोः एतौ प्रत्ययौ "किम्", "यत्", "तत्" एतेभ्यः शब्देभ्यः विधीयेते । तथा च, एकाच्च प्राचाम् 5|2|94 इत्यनेन एतौ प्रत्ययौ "एक"शब्दात् अपि विधीयेते । अतः एतयोः प्रयोगेन आहत्य अष्टौ शब्दाः जायन्ते - कतर, कतम, यतर, यतम, ततर, ततम, एकतर, एकतम । एतेषां सर्वेषाम् अनेन सूत्रेण सर्वनामसंज्ञा भवति । एतेषाम् अर्थाः एतादृशाः -
[अ] कतर - द्वाभ्याम् कः? (who amongst two?) ।
[आ] कतम - अनेकेभ्यः कः? (who amongst many?) ।
[इ] यतर - द्वाभ्याम् यः (whosoever amongst two) ।
[ई] यतम - अनेकेभ्यः यः (whosoever amongst many) ।
[उ] ततर - द्वाभ्याम् सः (that amongst two) ।
[ऊ] ततम - अनेकेभ्यः सः (that amongst many) ।
[ऋ] एकतर - द्वाभ्याम् एकः (one amongst two) ।
[ॠ] एकतम - अनेकेभ्यः एकः (one amongst many) ।

एतेषाम् सर्वेषाम् रूपाणि "सर्व" शब्दवदेव भवन्ति, परन्तु नपुँसकलिङ्गे प्रथमाद्वितीयैकवचनस्य रूपयोः अद्ड् डतरादिभ्यः पञ्चभ्यः 7|1|25 इत्यनेन सुँ/अम्-प्रत्यययोः अद्ड्-आदेशः भवति, अतः "कतरत् / कतमत् / यतरत् / यतमत्" एतादृशम् रूपम् जायते ।

ज्ञातव्यम् - संज्ञाविधौ प्रत्ययग्रहणे तदन्तग्रहणं नास्ति इति काचन परिभाषा विद्यते । अनया परिभाषया संज्ञासूत्रे प्रत्ययस्य यदा निर्देशः भवति तदा सा संज्ञा केवलं प्रत्ययस्यैव भवति, नहि तदन्तस्य । एतदनुसृत्य अत्रापि केवलं डतर-डतम-प्रत्यययोः एव सर्वनामसंज्ञा भवेत् वा - इति संशयः उपतिष्ठति । परन्तु तादृशं न, यतः केवल-डतर-डतम-प्रत्यययोः भाषायां प्रयोगः न भवति, अतः केवलयोः तयोः सर्वनामसंज्ञायाः न कोऽपि लाभः । अतः अत्र डतर-डतम-इत्येताभ्याम् तदन्तग्रहणम् भवत्येव ।

6. "अन्य" - परः/ other अस्मिन् अर्थे अयं शब्दः प्रयुज्यते । अस्य रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च "कतर"शब्दवत् एव भवन्ति ।

7. "अन्यतर" - द्वयोः एकः (one amongst two) अस्मिन् अर्थे "अन्यतर"शब्दः प्रयुज्यते । यद्यपि अयं शब्दः "तर" इत्यनेन समाप्यते, तथापि अयं "डतर" प्रत्ययान्तः / "तरप्" प्रत्ययान्तः शब्दः न, अपितु एतत् अव्युत्पन्न-प्रातिपदिकम् अस्ति इति स्मर्तव्यम् । अस्य रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च "कतर"शब्दवत् एव भवन्ति ।
विशेषः - "अन्यतम" (अनेकेषु एकः / one amongst many) इति अपि किञ्चन अव्युत्पन्नं प्रातिपदिकम् अस्ति, परन्तु अस्य सर्वनामसंज्ञा न भवति । अतः अस्य रूपाणि तु राम-शब्दवदेव भवन्ति, यथा - अन्यतमाः , अन्यतमाय, अन्यतमात् - आदयः।

8. "इतर" - भिन्नः / different अस्मिन् अर्थे अयं शब्दः प्रयुज्यते । अयम् अपि डतर-प्रत्ययान्तशब्दः तरप्-प्रत्ययान्तशब्दः वा नास्ति । अस्य रूपाणि त्रिषु लिङ्गेषु त्रिषु वचनेषु च "कतर"शब्दवत् भवन्ति ।

9. "त्वत्" - अयम् तकारान्तशब्दः "भिन्नः / different" अस्मिन् अर्थे प्रयुज्यन्ते । अस्य रूपाणि पुँल्लिङ्गे मरुत्-शब्दवत् , स्त्रीलिङ्गे सरित्-शब्दवत्, तथा नपुँसकलिङ्गे जगत्-शब्दवत् भवन्ति ।

10. "त्व" - अयम् शब्दः अपि "भिन्नः / different" अस्मिन् अर्थे विद्यते, तथा च केवलं वेदेषु एव प्रयुक्तः दृश्यते । अस्य रूपाणि "सर्व"शब्दवत् भवन्ति ।

11. "नेम" - अर्ध / half अस्मिन् अर्थे अयम् शब्दः सर्वादिगणे समाविश्यते । अस्य रूपाणि सर्वशब्दवत् भवन्ति ।
विशेषः - महाभारते भीष्मपर्वे 6.119.66 इत्यत्र भीष्मः वदति - "अर्जुनस्य इमे बाणा नेमे बाणाः शिखण्डिनः" । अस्य वाक्यस्य अर्थद्वयं भवति । "नेमे" इत्यत्र "न इमे" इति सन्धिच्छेदं कृत्वा "एते बाणाः अर्जुनस्य सन्ति, शिखण्डिनः न" इति अर्थः जायते । परन्तु "नेमे" इति "नेम" सर्वनाम्नः प्रथमाबहुवचनस्य रूपं स्वीक्रियते चेत् "एते बाणाः अर्जुनस्य सन्ति, तेषु अर्धसङ्ख्यकाः तु शिखण्डिनः अपि सन्ति" इति अर्थः जायते ।

12. "सम" - अस्य शब्दस्य अर्थद्वयम् जायते - "सर्व" (all) तथा "तुल्य" (equivalent / same) । एताभ्याम् केवलम् "सर्व" अस्मिन् अर्थे एव अस्य शब्दस्य सर्वनामसंज्ञा भवति, न हि "तुल्य" अस्मिन् अर्थे । अस्य शब्दस्य रूपाणि "सर्व" शब्दवदेव भवन्ति ।

विशेषः - पाणिनिः यथासङ्ख्यमनुदेशः समानाम् 1|3|10 अस्मिन् सूत्रे "समानाम्" इति प्रयोगं करोति । अत्र
"सम" शब्दः "तुल्यः" अस्मिन् अर्थे प्रयुज्यते, अतः तस्य सर्वनामसंज्ञा न भवति, अतश्च अस्य षष्ठ्येकवचनम् "समानाम्" इति जायते । सर्वनामसंज्ञकः यः "सम"शब्दः, तस्य षष्ठ्येकवचनम् तु पुँल्लिङ्ग-नपुँसकलिङ्गयोः "समेषाम्" तथा स्त्रीलिङ्गे "समासाम्" इति भवति ।

13. "सिम" - अस्य शब्दस्य अपि "सर्व" इति अर्थः अस्ति ।अस्य शब्दस्य रूपाणि अपि "सर्व" शब्दवदेव भवन्ति ।

अग्रे सर्वादिगणे त्रीणि गणसूत्राणि पाठ्यन्ते । तानि एतादृशानि -

गणसूत्रम् 1 - पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् । अनेन गणसूत्रेण पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर - एतेषाम् सप्तानां शब्दानाम् "व्यवस्था" अस्मिन् अर्थे संज्ञाभिन्नरूपेण प्रयोगः क्रियते चेत् सर्वनामसंज्ञा भवति ।
किम् नाम व्यवस्था? "स्व-अभिधेय-अपेक्ष-अवधिनियमः व्यवस्था " इति अस्य शब्दस्य व्याख्या दीयते । सामान्यभाषायाम् अस्य अर्थः अयम् - पूर्वपरादयः शब्दाः यदा अवधिम् (मर्यादाम्) दर्शयन्ति, तदा एव तेषाम् अस्मिन् गणे समावेशः भवति । मर्यादा त्रिविधा वर्तते - स्थलमर्यादा, कालमर्यादा तथा दिग्मर्यादा । क्रमेण पश्यामः -
[अ] "काशी पूर्वा" इति उच्यते चेत् "कस्मात् पूर्वा?" (काशीप्रदेशस्य स्थलमर्यादा का?) इति प्रश्नः जायते । अत्र "पूर्व"शब्दः स्थलवाचि-अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।
[आ] "रघुः पूर्वः" इति उच्यते चेत् "कस्मात् पूर्वः?" (रघोः कालमर्यादा का?) इति प्रश्नः जायते । अत्र "पूर्व"शब्दः कालवाचि-अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।
[इ] "सूर्यः पूर्वस्मात् उदेति" इति उच्यते चेत् अत्र "पूर्व" शब्दः दिशा-अवधिम् दर्शयति, अतः अत्र अस्य सर्वनामसंज्ञा भवति ।

संक्षेपेण - "पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर" एते सर्वे शब्दाः यदा स्थलविषयाम्/कालविषयाम्/दिशाविषयाम् अवधिं निर्देशयन्ति, तत्र एतेषां सर्वेषां सर्वनामंज्ञा भवति । अन्येषु अर्थेषु (= व्यवस्थायाम् असत्याम्) एतेषां सर्वनामसंज्ञा न भवति । यथा - "दक्षिण" शब्दस्य "कुशलः" इत्यपि कश्चन अर्थः अस्ति । अस्मिन् अर्थे अयं शब्दः सर्वनामसंज्ञां न स्वीकरोति । तथा च, व्यवस्थायाम् सत्याम् अपि संज्ञारूपेण प्रयुज्यमानाः एते शब्दाः सर्वनामसंज्ञकाः न भवन्ति । यथा - "उत्तराः कुरवः" इत्यत्र यद्यपि "उत्तर" शब्दः दिशां दर्शयति, तथापि कुरूणाम् उत्तरदिशि स्थितः प्रदेशः "उत्तरः कुरुः" नाम्ना ज्ञायते, यः संज्ञावाची शब्दः अस्ति, तस्य च अनेन वाक्येन निर्देशः क्रियते ; अतः अत्र प्रयुक्तः "उत्तर" शब्दः सर्वनामसंज्ञकः नास्ति ।

पूर्व, पर, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर - एतेषाम् सर्वेषाम् रूपाणि "सर्व" शब्दवदेव जायन्ते, परन्तु पुँल्लिङ्गे प्रथमाबहुवचनस्य रूपम् विकल्पेन राम-शब्दवदपि भवति - पूर्वे / पूर्वाः इति ।

विशेषः - यद्यपि एतत् गणसूत्रम् पूर्वपरावरदक्षिणोत्तरापराधराणि 1|1|34 इति सूत्रवत् दृश्यते, तथापि अस्य गणसूत्रस्य तथा सूत्रपाठे विद्यमानस्य सूत्रस्य अर्थः भिन्नः अस्ति इति स्मर्तव्यम् ।

गणसूत्रम् 2 - स्वमज्ञातिधनाख्यायाम् - । अनेन गणसूत्रेण "स्व" शब्दस्य सर्वनामसंज्ञा भवति । वस्तुतः "स्व" शब्दस्य प्रामुख्येन चत्वारः अर्थाः पाठ्यन्ते - "आत्मा" (स्वयम् इत्यर्थः), "आत्मीयः" (स्वस्य इत्यर्थः), "ज्ञाति" (बान्धवः), तथा "धनम्" । एतेभ्यः "ज्ञाति" अस्मिन् अर्थे तथा च "धन" अस्मिन्नर्थे "स्व"शब्दस्य सर्वनामसंज्ञा न भवति । केवलम् "स्वयम्" तथा "स्वस्य" अस्मिन् अर्थे एव अस्य सर्वनामसंज्ञा भवति । उदाहरणानि एतानि -
[अ] दर्पणे स्वम् (= आत्मानम्) पश्यामि । अत्र "स्व"शब्दस्य सर्वनामसंज्ञा भवति ।
[आ] दर्पणे स्वम् (= मम) चित्रम् पश्यामि । अत्रापि "स्व"शब्दस्य सर्वनामसंज्ञा भवति ।
[इ] एषः मम स्वः (= बन्धुः) । अत्र "स्व"शब्दस्य सर्वनामसंज्ञा न भवति ।
[ई] स्वम् (= धनम्) दत्त्वा फलं क्रीणामि । अत्रापि "स्व" शब्दस्य सर्वनामसंज्ञा न भवति ।

सर्वनामवाचिनः स्व-शब्दस्य रूपाणि "पूर्व"शब्दवदेव भवन्ति ।

विशेषः - यद्यपि एतत् गणसूत्रम् स्वमज्ञातिधनाख्यायाम् 1|1|35 इति सूत्रवत् दृश्यते, तथापि अस्य गणसूत्रस्य तथा सूत्रपाठे विद्यमानस्य सूत्रस्य अर्थः भिन्नः अस्ति इति स्मर्तव्यम् ।

गणसूत्रम् 3 - अन्तरं बहिर्योगोपसंव्यानयोः । अनेन गणसूत्रेण "अन्तर" शब्दस्य सर्वनामसंज्ञा भवति । वस्तुतः "अन्तर" शब्दस्य अपि त्रयः अर्थाः दीयन्ते - "बहिर्योगः" (बहिः स्थितः इत्यर्थः), "उपसव्यानम्" (कटेः अधोभागे यस्य धारणम् क्रियते तत् वस्त्रम् - यथा पीताम्बरम् आदयः), तथा "मध्यः" । एतेषु "बहिर्योगः" तथा "उपसंव्यान" एतयोः अर्थयोः एव अन्तर-शब्दस्य सर्वनामसंज्ञा भवति , "मध्य" अस्मिन् अर्थे न । उदाहरणानि एतानि -
अ) भिक्षुः नगरात् अन्तरः ( = बहिः) वसति । अत्र "अन्तर" शब्दस्य सर्वनामसंज्ञा भवति ।
आ) अन्तरम् (= अधःभागे धारणयोग्यम्) पीताम्बरम् धारयामि । अत्रापि "अन्तर" शब्दस्य सर्वनामसंज्ञा भवति ।
इ) अनयोः ग्रामयोः अन्तरे (= मध्ये) मुनिः वसति । अत्र "अन्तर" शब्दस्य सर्वनामसंज्ञा न भवति ।

विशेषः - यद्यपि एतत् गणसूत्रम् अन्तरं बहिर्योगोपसंव्यानयोः 1|1|35 इति सूत्रवत् दृश्यते, तथापि अस्य गणसूत्रस्य तथा सूत्रपाठे विद्यमानस्य सूत्रस्य अर्थः भिन्नः अस्ति इति स्मर्तव्यम् ।
सर्वनामसंज्ञकस्य "अन्तर"शब्दस्य रूपाणि "पूर्व" शब्दवदेव भवन्ति ।

अस्मात् अग्रे सर्वादिगणे इतोऽपि केचन शब्दाः पाठ्यन्ते । ते एतादृशाः - त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् । एते सर्वे शब्दाः एकत्रीकृत्य एतेषाम् "त्यदादिगणः" कृतः अस्ति । इत्युक्ते, "त्यदादिगणः" इति सर्वादिगणस्यैव कश्चन अन्तर्गणः । त्यदादिगणस्य सर्वे शब्दाः सामान्यभाषायाम् अपि नित्यम् सर्वनामरूपेणैव प्रयुज्यन्ते । एतेषाम् सर्वेषाम् अर्थान् संक्षेपेण पश्यामः -

1. "त्यद्", "तद्", अदस् - त्रयाणाम् अपि अर्थः "that" इत्येव । परन्तु अत्र अर्थस्य सूक्ष्मता विशेषरूपेण ज्ञातव्या । "त्यद्" तथा "तद्" एतयोः सर्वनामशब्दयोः प्रयोगः तदा एव भवति यदा वस्तु परोक्षम् अस्ति । The pronouns त्यद् and तद् are used to indicate an object that is away (not in front of eyes) । तथा च, अदस्-शब्दः तदा प्रयुज्यते यदा वस्तु अक्ष्णः पुरतः, परन्तु दूरे अस्ति । The pronoun अदस् is used when an object is in front of eyes, but far away.

2. "इदम्" तथा "एतत्" - द्वयोः अपि अर्थः "this" इति अस्ति, परन्तु द्वयोः अर्थयोः सूक्ष्मः भेदः विद्यते । यदा वस्तु बहु समीपे अस्ति, तदा "एतत्" शब्दः प्रयुज्यते, परन्तु यदा वस्तु किञ्चित् दूरे अस्ति, तदा "इदम्" शब्दः प्रयुज्यते । The pronoun एतत् is used to indicate an object that is very close. The pronoun इदम् is used to indicate an object that is close, but not very close.

अस्मिन् विषये एका कारिका प्रसिद्धा अस्ति -
॥ इदमस्तु सन्निकृष्टे समीपतरवर्ति चैतदो रूपम्। अदसस्तु विप्रकृष्टे तदिति परोक्षे विजानीयात् ॥
इदम् शब्दः सन्निकृष्टे, एतद्-शब्दः तस्मात् अपि समीपतरस्य निर्देशार्थम्, अदस्-शब्दः दूरस्य निर्देशार्थम्, तथा च "तद्" शब्दः परोक्षस्य निर्देशार्थम् भवति, इति अस्याः कारिकायाः अर्थः ।

4. "यद्" इत्युक्ते "whoever".

5. "एक" शब्दस्य अनेके अर्थाः सन्ति । अमरकोशे उच्यते -
"एकोऽन्यार्थे प्रधाने च, प्रथमे केवले तथा । साधारणे समानेऽल्पे, सङ्ख्यायाञ्च प्रयुज्यते ॥
इत्युक्ते, "एक" शब्दः "अन्य", "प्रधान", "प्रथम", "केवल", "साधारण", "समान", "अल्प" तथा संख्यावाची (one इत्यर्थः) एतेषु अर्थेषु प्रयुज्यते । एतेषु सर्वेषु अर्थेषु अस्य शब्दस्य सर्वनामसंज्ञा भवति । "one" इत्यस्मिन् अर्थे अस्य केवलं एकवचनस्यैव रूपाणि भवन्ति, तथा अन्येषु अर्थेषु तु त्रिषु वचनेषु रूपाणि भवितुम् अर्हन्ति । अस्य शब्दस्य रूपाणि "सर्व"शब्दवदेव भवन्ति ।

6. "द्वि" इति सङ्ख्यावाची शब्दः, "two" इत्यर्थः । अस्य अपि अस्मिन् गणे निर्देशः क्रियते, अतः अस्य शब्दस्य अपि सर्वनामसंज्ञा भवति । अस्य रूपाणि केवलं द्विवचने एव भवन्ति । विभक्तिप्रत्यये परे त्यदादीनामः 7|2|102 अनेन सूत्रेण अस्य "द्व" इति आदेशः भवति, तथा अग्रे "विश्व" शब्दवदेव रूपाणि भवन्ति ।

7. "युष्मद्", "अस्मद्" - एतयोः त्रिषु लिङ्गेषु समानानि एव रूपाणि भवन्ति । "युष्मद्" ("you" इत्यर्थः) शब्दस्य प्रयोगे क्रियापदस्य मध्यमपुरुषः प्रयुज्यते, तथा च "अस्मद्" ("I" इत्यर्थः) शब्दस्य प्रयोगे क्रियापदस्य उत्तमपुरुषः प्रयुज्यते इति स्मर्तव्यम् ।

8. भवतुँ - अयं शब्दः अपि "you" इत्यस्मिन् अर्थे एव प्रयुज्यते, परन्तु अस्य प्रयोगे क्रियापदस्य प्रथमपुरुषः प्रयुज्यते; यथा - भवान् गच्छति । अस्मिन् सर्वनामशब्दे तकारोत्तरः उकारः अनुनासिकः अस्ति, अतः उपदेशेऽजनुनासिक इत् 1|3|2 इत्यनेन तस्य इत्संज्ञा भवति, अग्रे तस्य लोपः 1|3|9 इति लोपः अपि जायते ।

अत्र बिन्दुद्वयं स्मर्तव्यम् -
अ) "भू" धातोः शतृ-प्रत्ययान्तरूपम् "भवत्" इत्येव भवति, परन्तु सः भिन्नः शब्दः । तस्य अर्थः "यः अस्तिः सः" (the one who exists) इति अस्ति, न हि "त्वम्" इति । अस्य रूपाणि चापि भिद्यन्ते - "भू" धातोः शतृ-प्रत्ययान्तस्य भवत्-शब्दस्य प्रथमैकवचनम् "भवन्" इति अस्ति, परन्तु "भवतुँ" इत्यस्य सर्वनामशब्दस्य प्रथमैकवचनम् "भवान्" इति अस्ति ।
आ) "भवतुँ" तथा "युष्मद्" एतयोः अर्थः समानः एव । केचन जनाः एतत् मन्यन्ते यत् भवत् शब्दस्य प्रयोगः "आदरभावम् दर्शयितुम् क्रियते, तथा च युष्मद्-शब्दः केवलम् तेषां कृते प्रयोक्तव्यः ये समवयस्काः उत न्यूनवयस्काः सन्ति" । परन्तु एतत् चिन्तनम् युक्तम् नास्ति । It is not correct to assume that भवतुँ is used to indicate respect where as युष्मत् is used only for people who are of the same age or younger. There is no grammatical basis to this. Both भवतुँ and युष्मत् are equivalent in meaning.

9. "किम्" - what इत्यस्मिन् अर्थे अयं शब्दः प्रयुज्यते ।

एतादृशम् सर्वादिगणेन आहत्य 41 शब्दानाम् सर्वनामसंज्ञा भवति -
सर्व, विश्व, उभ, उभय, यतर, ततर, कतर, एकतर, यतम, ततम, कतम, एकतम, अन्य, अन्यतर, इतर, त्वत्, त्व, नेम, सम, सिम, पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर, त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतुँ, किम् ।


सर्वादिगणस्य शब्दानाम् सामान्यपरिचयः अत्र समाप्यते । इदानीम् सर्वनामसंज्ञायाः प्रयोजनं पश्यामः ।

किम् प्रयोजनम् व्याकरणविशिष्टायाः सर्वनामसंज्ञायाः ? अष्टाध्याय्याम् सर्वनामसंज्ञायाः प्रामुख्येन त्रीणि प्रयोजनानि सन्ति । तानि एतादृशानि -

1. सूत्रपाठे भिन्नैः सूत्रैः सर्वनामसंज्ञाविशिष्टाः प्रत्ययाः / आदेशाः / आगमाः उच्यन्ते । यथा -
[अ] अव्ययसर्वनाम्नः अकच् प्राक् टेः 5|3|71 इत्यनेन सर्वनामसंज्ञकेभ्यः अकच्-प्रत्ययः विधीयते ।
[आ] सर्वनामसंज्ञकात् परस्य ङे-प्रत्ययस्य पुँल्लिङ्गे सर्वनाम्नः स्मै 7|1|14 इति स्मै-आदेशः भवति ।
[इ] सर्वनाम्नः स्याड्ढ्रस्वश्च 7|3|114 इत्यनेन सर्वनामसंज्ञकात् आबन्तात् परस्य ङित्-प्रत्ययस्य स्याट्-आगमः भवति ।
[ई] आमि सर्वनाम्नः सुट् 7|1|52 इत्यनेन सर्वनामसंज्ञकात् परस्य आम्-प्रत्ययस्य सुट्-आगमः भवतो ।
आदयः ।

2. प्रकियायाम् केषुचन सोपानेषु सर्वनामसंज्ञक-विशिष्टम् अङ्गकार्यम् भवितुम् अर्हति । यथा, आ सर्वनाम्नः 6|3|91 इत्यनेन सर्वनामसंज्ञकात् "दृक्" इति स्थिते अङ्गस्य आकारादेशः भवति । यथा - तद् + दृक् → तादृक् ।

3. सर्वनामसंज्ञकानां प्रयोगे कुत्रचित् विशिष्टा विभक्तिः विधीयते । यथा, सर्वनाम्नस्तृतीया च 2|3|37 अनेन सूत्रेण हेतुनिर्देशे सर्वनामसंज्ञकशब्दात् तृतीया विभक्तिः विधीयते । उदाहरणं पश्यामश्चेत् स्पष्टं स्यात् - "अन्नस्य हेतुना वसति" इत्यस्य प्रश्नरूपेण परिवर्तनं कुर्मश्चेत् "कस्य हेतुना वसति" इति तु साधु अस्ति एव, परन्तु "केन हेतुना वसति" इति प्रयोगः अपि साधुः । अत्र "केन" शब्दः "हेतु" इत्यस्य विशेषणं नास्ति अपितु "कस्य" इत्यस्मिन् अर्थे एव प्रयुक्तः अस्ति । एतादृशी तृतीयाविभक्तिः हेतुनिर्देशे सर्वनाम्नस्तृतीया च 2|3|37 अनेन सूत्रेण केवलं सर्वनामसंज्ञकानां विषये एव भवति ।

ज्ञातव्यम् -
1. "सर्वनाम"संज्ञा अन्वर्थसंज्ञा / सार्थकसंज्ञा अस्ति । "अन्वर्थसंज्ञा" / "सार्थकसंज्ञा" इत्युक्ते सा संज्ञा यस्याः अर्थज्ञानम् तस्यां संज्ञायाम् प्रयुक्तैः शब्दैः / घटकैः दातुम् शक्यते । A technical term whose meaning can be derived using the words used in that term - इत्यर्थः । यथा, "सर्वेषां वस्तूनां नामानि दर्श्यन्ते यैः तानि सर्वनामानि" इति भाष्यकारः अस्मिन् विषये वदति । सामान्यभाषायाम् अस्य अर्थः अयम् - सर्वादिगणे उपस्थितेन शब्देन यदि कस्यचन विशिष्टवस्तुनः निर्देशः न क्रियते अपितु सर्वेषाम् वस्तूनां सामान्यरूपेण निर्देशं क्रियते, तर्हि एव तस्य सर्वनामसंज्ञा भवति । यथा - "तद्" इत्यनेन कस्यापि वस्तुनः निर्देशः भवितुम् अर्हति, अतः अयं शब्दः सर्वनामसंज्ञकः अस्ति । (The word "that" is a general term which can be used to indicate any object, not necessarily a unique one. We need to qualify this word with additional data to pinpoint a particular entity - For instance - "सः वृक्षः" आदयः । केवलं "सः" इति विना सन्दर्भम् उच्यते चेत् सर्वेषां वस्तूनां निर्देशः तेन भवितुम् अर्हति - इति अत्र आशयः) । परन्तु यदि सर्वादिगणस्य शब्दाः विशेषनामरूपेण प्रयुज्यते चेत् तैः विशिष्टवस्तुनः निर्देशः भवति, सर्वेषां न, अतः अस्यां स्थितौ तेषां सर्वनामसंज्ञा न भवति । यथा, कस्यचन मनुष्यस्य नाम "सर्व" इति अस्ति चेत् अस्मिन् सन्दर्भे "सर्व" शब्दस्य सर्वनामसंज्ञा न भवति ।

2. "सर्वनाम" अस्मिन् शब्दे वस्तुतः पूर्वपदात् संज्ञायामगः 8|4|3 इति णत्वं विधीयते । परन्तु निपातनात् तादृशं णत्वं न इष्यते । इत्युक्ते, अस्मिन् सूत्रे प्रयुक्तः "सर्वनाम"शब्दः निपातनेन णत्वस्य निषेधं करोति इत्यर्थः ।

3. अस्मिन् सूत्रे तदन्तग्रहणम् अपि क्रियते इति कौमुदीकारः स्पष्टीकरोति । इत्युक्ते, "परमसर्व", "उत्तमविश्व" - एतादृशानां शब्दानाम् अपि अनेन सूत्रेण सर्वनामसंज्ञा भवत्येव ।

4. "सर्वनामस्थान" इति काचन भिन्ना संज्ञा अस्ति, तस्य "सर्वनाम"संज्ञया सह कोऽपि सम्बन्धः नास्ति इति स्मर्तव्यम् । "सर्वनामस्थान" संज्ञा शि सर्वनामस्थानम् 1|1|42 इत्यनेन दीयते ।
One-line meaning in English
The words belonging to the सर्वादिगण are known as सर्वनाम words.
काशिकावृत्तिः
सर्वशब्दः आदिर्येषां तानीमानि सर्वादीनि सर्वनामसंज्ञानि भवन्ति । सर्वः, सर्वौ, सर्वे, सर्वस्मै, सर्वस्मात्, सर्वेषाम्, सर्वस्मिन्, सर्वकः । विश्वः, विश्वौ, विश्वे, विश्वस्मै , विश्वस्मात्, विश्वेषाम्, विश्वस्मिन्, विश्वकः । उभ, उभय - उभशब्दस्य सर्वनामत्वे प्रयोजनम् सर्वनाम्नस्तृतीया च 2|3|27 इति । उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति । उभये, उभयस्मै, उभयस्मात्, उभयेषाम्, उभयस्मिन् । डतर, डतम - कतर, कतम - कतरस्मै, कतमस्मै । इतर, अन्य, अन्यतर - इतरस्मै, अन्यस्मै, अन्यतरस्मै । त्वशब्दः अन्यवाची स्वरभेदाद् द्विः पठितः - एकः उदात्तः, द्वितीयोऽनुदात्तः । केचित् तकारान्तमेकं पठन्ति । त्व त्वतिति द्वावपि च अनुदातौ इति स्मरन्ति । नेम - नेमस्मै । वक्ष्यमाणेन 1|1|33 जसि विभाषा भवति - नेमे, नेमाः इति । सम - समस्मै । कथं यथासङ्ख्यम् अनुदेशः समानाम् 1|3|10, समे देशे यजेते - इति ? समस्य सर्वशब्दपर्यायस्य सर्वनामसंज्ञा इष्यते, न सर्वत्र । सिम - सिमस्मै । पूर्वपरावरदक्षिणौत्तरापराधराणि व्यवस्थायाम् असंज्ञायाम् (गणसूत्रम् 1) । स्वमज्ञातिधनाख्यायाम् (गणसूत्रम् 2) । अन्तरं बहिर्योगोप्संव्यानयोः (गणसूत्रम् 3) । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् - सर्वादिः । सर्वनामप्रदेशाः सर्वनाम्नः स्मै 7|1|14 इत्येवम् आदयः ॥
`सर्वशब्द आदिर्येषां तानीमानि सर्वादीनि` इति। एष तद्गुणसंविज्ञानो बहुव्रीहिः; इतरथा ह्रुपलक्षणार्थत्वात् सर्वशब्दस्य संज्ञा न स्यात्। न ह्रुपलक्षणस्योपसर्जनी-भूतस्य कार्येण सम्बन्धो भवति। तथा हि- `चित्रगुरानीयताम्` इत्युक्ते न गवा-मप्यानयनं भवति। तद्गुणसंविज्ञानस्य बहुव्रीहेर्लिङ्गम्- `अदः सर्वेषाम्` 7|3|100 इति निर्देशः। सर्वशब्दस्य सुट् सर्वनाम्नः कार्यम्; अन्यथा हि तन्नोपपद्यते। `सर्वः, सर्वौ सर्वे` इति। इदमत्रोदाहरणं `सर्वे` इति। अत्र हि सर्वनामसंज्ञायाम् `जसः शी` 7|1|17 इति शीभावः कार्यः। पूर्वयोस्तु तत्साहचर्येण `सर्वे` इत्येतस्य पुँल्लिङ्गतां श्रूयमाणविभक्तितां च दर्शयितुमुपन्यासः; अन्यथा `सर्वे` इत्येता-वत्युच्यमाने स्त्रीलिङ्गस्य लुप्तसम्बृद्धेरयं प्रयोग इति। कस्यचिद् भ्रान्तिः स्यात्। `सर्वस्मै` इति। `सर्वनाम्नः स्मै` 7|1|14 । `सर्वस्मात्, सर्वस्मिन्` इति। `ङसिङयोः स्मात्स्मिनौ` 7|1|14 । `सर्वस्मात्, सर्वस्मिन्` इति। `ङसिङयोःस्मात्स्मिनौ` 7|1|15 इति। `सर्वकः` इति- `अव्ययसर्वनाम्नामकच् प्राक् टेः` 5|3|71 इति।उभशब्दोऽयं द्विवचनटाब्विषय एव प्रयुज्यते-`उभौ उभे`इति। न च तत्किञ्चित् सर्वनामकार्यं सम्भवति; स्मैप्रभृतीनां यतायोगमेकवचनबहुवचनविषयत्वात्। अकजपि नैवं सर्वनामसंज्ञां प्रयोजयति; विशेषाभावात्। नहि तस्मादकचि, कप्रत्यये वा विहिते रूपभेदो वा भवति। तत् किमर्थस्तस्येह पाठः? इत्याह- `उभशब्दस्थ` इत्यादि। `सर्व-नाम्नस्तृतीय च` 2|3|27 इत्यनेन उभाभ्यां हेतुभ्याम्, उभोयर्हेत्वोरिति तृतीया-षष्ठ्यौ यथा स्यातामित्येवमर्थ्सतस्येह पाठ इति दर्शयति।`डतरतम` इति। `किंयत्तदोर्निर्धारणे द्वयोरेकस्य डतरच्` 5|3|92 `वा बहुनां जातिपरिप्रश्ने डतमच्` 5|3|93 इत्येतयोः प्रत्ययोग्र्रहणम्।`वक्ष्यमाणेन` इति। `प्रथमचरम` 1|1|32 इत्यादिना।`कथम्` इत्यादि। समशब्दस्य सर्वनामसंज्ञायां सत्यां `आमि सर्वनाम्नः सुट्` 7|1|52 इति सुटि `समेषाम्` इति भवितव्यम्, तत् कथं सामानामिति भवति? ततश्च सप्तम्येकवचनस्य स्मिन्भावे कृते समस्मिन्निति भवितव्यम्, तत् कथं `समे देशे यजेत्` इति प्रयोग उपपद्यते ! इत्यभिप्रायः। `न सर्वत्र` इति। न सर्वत्रार्थे वत्र्तमान-स्येत्यर्थः। एतच्च `सर्वेषां नामानि सर्वनामानि` इत्यन्वर्थसंज्ञाकरणाल्लभ्यते। स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः, न चान्योः प्रयोगयोः समशब्दः सर्वपर्यायः। तथा हि `समानाम्` इत्यत्र समशब्दस्तुल्यार्थे वत्र्तते। `समे देशे` इत्यत्राप्यविषमे- निम्नोन्नतादिरहिते। अत एव चान्वर्थसंज्ञाकरणात् संज्ञोपसर्जनीभूतानां संज्ञा न भवति। यथा- सर्वो नाम कश्चित्, तस्मै सर्वाय देहि। अतिक्रान्तः रुआर्वमतिसर्वः, तस्मा अतिसर्वाय देहीति। न ह्रेवंप्रकाराणि सर्वेषां नामानि; विशिष्टव्सतु विषयत्वात्। `सर्वनामानि` इत्यत्र`पूर्वपदात् संज्ञायाम्` 8|4|3 इतिणत्वं तु न भवति, अत एव निपातनात्।
द्वन्द्वतत्पुरुषयोरुतरपदलिङ्गत्वेन नपुंसकत्वायोगाद् बहुवचनासंभवाच्च सर्वादीनीति बहुव्रीहिरित्याह-सर्वशब्द इत्यादि । आदिर्येषामिति । यद्येवं बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वशब्दोपलक्षितानां विश्वादीनामेव संज्ञा स्याद्, नोपलक्षणस्य सर्वशब्दस्य । यथा चित्रगुरानीयतामित्युक्ते अस्य ता गावः स एवानीयते, न चित्रा गाव इत्याशङ्क्याह-तानीमार्नति । अत्र "तानि" इत्येव सिद्धे इमानीति प्रत्यक्षविषयेणेदंशब्देन गणपठितेषु सर्वशब्दस्यान्तर्भावं सूचयन् तद्गुणसंविज्ञानं बहुव्रीहिं दर्शयति । तस्य उ अन्यपदार्थस्य, गुणःउवर्तिपदार्थः, सोऽपि कार्यी संविज्ञायते यस्मिन् बहुव्रीहौ स तद्गुणसंविज्ञानः । मत्वर्थे हि बहुव्रीहिः । भूमादिषु च मतुब् विधीयते । तद्यत्र स्वस्वामिभावादिसम्बन्धः प्रवृत्तिनिमितम्, न तत्रोपसर्जनस्य कार्ययोगः । यथा-गोमन्तमानयेति, संभवति ह्यरण्यावस्थिताभिरपि गोभिः स्वस्वामिभावः । यत्र तु संयोगसमवाययो रन्यतरत् प्रवृत्तिनिमितम्, तत्र स्वभावादेवोपसर्जनस्यापि कार्योयोगः, यथा-दण्डिनमानय, विषाणिनमानयेति , नो खलु गृहावस्थितेन दण्डेन दण्डसंयुक्तः पुरुषो भवति । एवं बहुव्रीहावपि-चित्रगुः, शुक्लवासा इति । इहाप्यादिशब्दोऽवयववचन उद्भूतावयवभेदः समुदायः समासार्थः, तत्र समुदायस्य युगपल्लक्ष्ये प्रयोगाभावतदन्तर्भूतानां संज्ञा भवन्ती विश्वादीनामिव सर्वशब्दस्यापि भविष्यति । अत्र च लिङ्गम्-"अदः सर्वेषाम्" इति निर्देशः, "आमि सर्वनाम्नः सुट्" । सर्वे इति--"जसः शीः । पूर्वयोस्तूपन्यासो जसन्ततामस्य दर्शयितुम् । सर्वस्मै इत्यादि--शर्वनाम्नः स्मे" "ङसिङ्योः स्मात्सिनौ" । उभशब्दो द्विवचनविषये एव प्रयुज्यते, असति द्विवचने नैव प्रयुज्यते, न हि भवति उभौ पुत्रावस्य उभपुत्र इति उभयशब्दोऽत्र तत्स्थाने भवति उभयपुत्र इत्यादि । न च द्विवचने किञ्चित्सर्वनामकार्यमस्ति; स्मैप्रभृतीनामेकवचनबहुवचनविषयत्वात्, काकचोश्च नास्ति विशेष इति तस्येह पाठे प्रयोजनमाह-उभशब्दस्येत्यादि । उभाभ्यां हेतुभ्याम्,उभयोर्हेत्वोरिति तृतीयाषष्ठयौ भवतः । उभयेषाम्, उभयस्मिन्निति । उभाववयवावस्येति व्युत्पाद्यमान उभयशब्दो यदा तिरोहितावयवभेदं समुदायमाचष्टे तदैकवचनं भवति-उभयो मणिरिति । यदा तु वर्गद्वयारब्धे समुदायिनि वर्तमानो वर्ग्यभेदानुगतं समुदायमाचष्टे तदा बहुवचनम्-उभये देवमनुष्या इति । डतर-डतमेति । संज्ञाविधौ प्रत्ययग्रहणेऽपि तदन्तयोर्ग्रहणम्; केवलयोः प्रयोजनाभावात् । वक्ष्यमाणेनेति । "प्रथमचरम्" इत्यादिना । सर्वशब्दपर्यायस्येति । अस्ति च सर्वशब्दपर्यासः समशब्दः ङभन्तामन्यके समे","मा नो वृकाय वृक्ये समस्मै","उरुष्याणोऽघायतः समस्मात्", "उतो समस्मिन्नाशिशी हि नो वसो," "मा नः समस्य दूढयः" इति यथा । एतच्च शर्वेषां नामानि" इत्यन्वर्थसंज्ञाकरणाल्लभ्यते । स एव हि समशब्दः सर्वेषां नाम भवति यः सर्वशब्दपर्यायः । यद्यन्वर्थसंज्ञा, "पूर्वपदात् संज्ञायाम्" इति णत्वं कस्मान्न भवति ? अस्मादेव निपातनात् । यदि शर्वादोति सर्वनामानि",तर्हीहापि प्राप्नोति-सर्वो नाम कश्चित् तस्मै सर्वाय देहीति, इह चातिक्रान्तः सर्वस्मै अतिसर्वाय देहीति; तस्मात्संज्ञानामुपसर्जनानां च सर्वादीनां संज्ञाप्रतिषेधो वक्तव्यः । न केवलं संज्ञायाः, पाठोऽपि तेषां गणे नास्तीति वक्तव्यम्; संज्ञामात्रप्रतिषेधे हि सर्वनामप्रयुक्तमेव कार्यं तेषां न स्यात् । पाठाश्रयं तु स्यादेव--"त्यदादीनामः" तन्नामकः कश्चित्,तत्स,तदौ, तदः; अतिक्रान्तस्तमतितत्, अतितदौ, अतितदः; "अदड्डतरादिभ्यः पञ्चभ्यः", कतरमतिक्रान्तं ब्राह्मणकुलमतिकतरमिति । संज्ञाप्रतिषेधस्तावन्न वक्तव्यः । अभिव्यक्तपदार्था ये स्वतन्त्रा लोकविश्रुताः । शास्त्रार्थस्तेषु कर्तव्यः शब्देषु न तदुक्तिषु ॥ तत्र यथा बाहुर्नाम कश्चितस्यापत्यं बाहवः, "बाह्वादिभ्यश्च" इतीञ् न भवति संज्ञा, श्वशुरस्यापत्यम् "राजश्वशुराद्यत्" न भवति, धान्यमातुः स्वसा, "मातुपितृभ्यां स्वासा" इति षत्वं न भवति; एवमिहापि संज्ञाभूतानां सर्वादीनां संज्ञा, तन्निबन्धनं च कार्यम्, अन्तर्गणकार्यं च न भविष्यति । यद्वा-"व्यवस्थायाम्" इत्यत्र "असंज्ञायाम्" इति विभज्यते, तेन च गणपाठो विशेष्यते-यान्येतान्यनुक्रान्तानि सर्वादीनि तान्यसंज्ञायां द्रष्टव्यानीति । उपसंर्जनप्रतिषेधोऽपि न कर्तव्यः, सर्वादीनां संज्ञा विधीयते, तत्र कः प्रसङ्गो यत् सर्वाद्यन्तस्य स्यात् ? सर्वशब्दस्य तु सत्यामपि संज्ञायामङ्गस्यासर्वनामत्वात् स्मायाद्यप्रसङ्गः । यद्येवम्, परमसर्वस्मै इत्यादावपि न स्याद्; यतो यदङ्गं न तत्सर्वनाम, यच्च सर्वनाम न तदङ्गमिति । मा भूदङ्गं सर्वनाम, तावयवस्यैव तु स्रवनामत्वे "अङ्गाधिकारे तस्य च तदुतरपदस्य च" इति समुदायस्य च कार्यं भविष्यति; यथा--अस्थ्यादीनामनङ् परमास्थ्नेति । न चैवमत्यस्थ्नेत्यादिवदतिसर्वायेत्यादावुपसर्जनेऽपि प्रसङ्गोऽर्थद्वारकस्य सम्बन्धस्याश्रयणात्सर्वनामार्थगतमेकत्वादिकं या विमक्तिराहेति; यथा-"अष्टाभ्य औश्" "षड्भ्यो लुक्" इति परमाष्टौ परमपञ्चेत्यादौ भवति, प्रियाष्टानः प्रियपञ्चान इत्यादौ न भवति; तद्वदत्रापि । "त्यदादीनामः" इत्याद्यन्तर्गणकार्यमप्येवमेव द्रष्टव्यम् । यतु रूपाश्रयं कार्यम् "युष्मदस्मदोरनादेशे" इति, न पाठाश्रयम्, नापि संज्ञाश्रयं तदस्थ्याद्यनङ्वदुपसर्जनएऽपि भवति । यतूपसर्जनदशायाः प्रागेव प्राप्तं तदपि भवति अतिक्रान्तो भवकन्तमतिभवकानिति, तस्मान्नार्थस्तदन्तस्य संज्ञया, उच्यते; अव्ययसर्वनाम्नामित्यकच् परमभवकानिति तदन्तान्न स्यात् । "पञ्चम्यास्तसिल्" परमसर्वतः, "सप्तम्यास्त्रल्" परमसर्वत्र,"आ सर्वनाम्नः" "विष्वग्देवयोश्च टेरद्र।ल्ञ्चतौ वप्रत्यये" परमतद्र।ल्ङ् परमयद्र।ल्ङ्त्यादिउ न स्यादिति तदन्तस्य संज्ञेषितव्या । कथं पुनरिष्यमणापि लभ्यते ? ज्ञापकादिति वक्ष्यामः । ततदन्तस्य च भवन्ती परमसर्वादिवद् अतिसर्वादेरपि स्यादिति उपसर्जनप्रतिषेधोऽपि वक्तव्यः ? न वक्तव्यः, अन्वर्थसंज्ञाविज्ञानादेव सिद्धम् । वृतौ हि प्रधानार्थसंसर्गादुपसर्जनानि न सर्वार्थानि, यथासम्भवं च सार्वार्थ्यामिति प्रत्यक्षपरोक्षतादिविषेषवाचित्वेऽपि तदिदमादीनां भवत्येव । अन्वर्थत्वादेव च संज्ञाभूतानामपि संज्ञाभावः । एवं तावत्संज्ञानिबन्धनं स्मायाद्यौपसर्जनानां निबारितम् । त्यदाद्यन्तर्गणकार्यं तु स्यादेव; पाठस्य स्थितत्वात् । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणाद् द्वितीयोऽपि सर्वनामशब्द उपातः, तेन पाठो विशेष्यते-यानि सर्वेषां नामानि तानि सर्वादीनीति, तेन सर्वादिपाठोपजीवनेन प्रवर्तमानमन्तर्गणकार्यमपि व्यवस्थास्यते । यद्वा-संज्ञाया अन्वर्थत्वाततत्संबन्धयोग्यानां सर्वार्थानां तावत्पाठोऽवश्याभ्युपगन्तव्यः । ततश्च प्रकारान्तरजुषां पाठे प्रमाणाभावादेव सिद्धः पाठात्पर्युदासः ॥
सिद्धान्तकौमुदी
सर्वादीनि शब्दस्वरूपाणि सर्वनामसंज्ञानि स्युः । तदन्तस्यापीयं संज्ञा । द्वन्द्वे चेति ज्ञापकात् । तेन परमसर्वत्रेति त्रल् परमभवकानित्यत्राऽकच्च सिद्ध्यति ॥
नपुंसकवशात् `शब्दरूपाणी`ति विशेष्यमद्याहार्यं, तदाह--सर्वादीनीति। ननु बहुव्रीहेरन्यपदार्थप्रधानत्वात्सर्वंशब्दस्य च समासवर्तिपदार्थत्वादन्यपदार्थत्वाबावाद्वि�आआदिशब्दानामेव सर्वादिशब्देन बहुव्रीहिणावगमात्सर्वनामसंज्ञा स्यान्न तु सर्वशब्दस्यापीति चेत्, उच्यते--सर्व आदिर्यस्य समुदायस्येति विग्रहः। सर्वशब्दघटितः समुदायः समासार्थः। समुदाये च प्रवर्तमाना सर्वनामसंज्ञा क्वचिदप्यप्रयुज्यमाने तस्मिन् वैयर्थ्यादानर्थक्यात्तदङ्गेष्विति न्यायेनावयवेष्ववतरन्ती अविशेषात्सर्वशब्देऽपि भवति। एवंचात्र सर्वशब्दस्य स्वरूपेण वर्तिपदार्थता, समुदायरूपेण त्वन्यपदार्थप्रवेशः। नच समुदायस्यान्यपदार्थत्वे सर्वादीनीति बहुवचनानुपपत्तिः शङ्क्याः, सर्वशब्दघटितस्य विवक्षितावयवसङ्ख्यस्य समूहस्यान्यपदार्थत्वात्। `अद्भूतावयवभेदः समुदायः समासार्थ` इति कैयटोक्तेरप्ययमेवार्थः। अतो न बहुवचनस्यानुपपत्तिः तदेवं व्याख्याने `हलि सर्वेषा`मित्यादिनिर्देशः प्रमाणम्। सर्वशब्दस्य सर्वनामत्वाऽभावे तु सर्वेषामित्यादौ सर्वनामकार्याणि सुडादीनि न स्युः। तथाच सर्वादीनीति तद्गुणसंविज्ञानो बहुव्रीहिः। तस्य=अन्यपदार्थस्य, गुण#आ#ः=विशेषणानि वर्तिपदार्थरूपाणि, तेषां संविज्ञानं=क्रियान्वयितया विज्ञानं यत्र स तद्गुणसंविज्ञान इति व्यत्पत्तिः। यत्र संयोगसमवायान्यतरसंबन्धेनान्यपदार्थे वर्तिपदार्थान्वयस्तत्र प्रायेण तद्गुणसंविज्ञानो बहुव्रीहिः। यथा-`द्विवासा देवदत्तो भुङ्क्ते`, `लम्बकर्णं भोजये`त्यादौ। तत्पर हि वाससोः कर्णयोश्च भुजिक्रियान्वयाऽभावेऽपि संनिहितत्वमात्रेण तद्गुणसंविज्ञानत्वम्। प्रकृते च समुदाये।ञन्यपदार्थे सर्वशब्दस्य समवायान्तर्गतारोपितावयवावयविभावसंबन्धसत्त्वात्तद्गुणसंविज्ञानत्वम्। स्वस्वामिभावादिसम्बन्धेनान्यपदार्थे वर्तिपदार्थान्वये त्वतद्गुणसंविज्ञानो बहुव्रीहिः। यथा--`चित्रगुमानये`त्यादावित्यलम्।
सर्वादीनीति। तद्गुणसंविज्ञानो बहुव्रीहिरयम्। `अदः सर्वेषा`मिति लिङ्गम्। आदिशब्दोऽत्रावयववाची। सर्व आदिराद्यावययो येषां तानीति विग्रहः। उद्भूतावयवभेदः समुदायः समासार्थं इति बहुवचनम्। तस्य समुदायस्य युगपल्लक्ष्ये प्रयोगाभावात् `आनर्थक्यात्तदङ्गेषु` इति न्यायेन तदवयवेषु प्रवर्तमाना सर्वनामसंज्ञाऽविशेषात्सर्वशब्देऽपि प्रवर्तत इति युक्तं तद्गुणसंविज्ञानत्वम्। तस्यान्यपदार्थस्य गुणा वर्तिपदार्थरूपाणि विशेषणानि तेषा कार्यान्वयितया संविज्ञानं यत्र स तद्गुणसंविज्ञान इत्यक्षरार्थः। लोकवेदयोरपि संयोगसमवायान्यतरसम्बन्धे `लोहितोष्णीषाऋत्विजश्चरन्ति,``लम्बकर्णमानये`त्यादौ तद्गुणसंविज्ञानत्वमेव। स्वस्वामिभावसंबन्धे त्वतद्गुणसंविज्ञानत्वं `चित्रगुमानये`त्यादौ। ननु `सर्वनामानी`त्यत्र `पूर्वपदात्संज्ञाया`मिति णत्वं कस्मान्न भवति ?। सौत्रत्वान्नेति चेत्,लोके सर्वनामशब्दस्याऽसाधुत्वापत्त्या `सर्वनामसंज्ञानि स्यु`रित्युत्तरग्रन्थस्याऽसाधुत्वापत्तेरिति चेन्मैवम्। `निपातनाण्णत्वं ने`ति भाष्योक्तव्याख्याश्रयणादिष्टसिद्धेः। अत्र भाष्यानुसाराद्बाधकान्येव निपातनानि भवन्तीति पक्ष आश्रितः। `अब#आधकान्यपि निपातनानि भवन्ती`त् पक्षस्तु `विभाषा फाल्गुनी`ति सूत्रे श्रवणाशब्दे निपातितेऽपि `श्रावणी`ति प्रयोगोऽपि साधुरित्येवमर्थमाश्रयिष्यते। विशेषणानुगुणं विशेष्यमध्याहरति-शब्दस्वरूपाणीति। द्वन्द्वे चेति। स हि निषेधः समुदायस्यैव न त्ववयवानामिति वक्ष्यति, न च तदन्तविधिं विना समुदाये संज्ञाप्रसक्तिरस्तीति भावः। नन्वङ्गाधिरकारे तदन्तविधिं विनैव `परमसर्वस्मै` इत्यादौ स्मायादिसिद्धेस्तदन्तसंज्ञायाः किं फलमित्यत आह--तेनेति। न चेहापि `प्रातिपदिका`दित्यनुवृत्ते सर्वनाम्नस्तद्विशेषणत्वे तदन्तविधिर्भविष्यतीति वाच्यं, `समासप्रत्ययविधौ प्रतिषेधः` इत्युक्तत्वादिति भावः। अकच्चेति चकारात्परमसर्वत इत्यत्र तसिल्।
लघुसिद्धान्तकौमुदी
सर्व विश्व उभ उभय डतर डतम अन्य अन्यतर इतर त्वत् त्व नेम सम सिम। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायामसंज्ञायाम्। स्वमज्ञातिधनाख्यायाम्। अन्तरं बहिर्योगोपसंव्यानयोः। त्यद् तद् यद् एतद् इदम् अदस् एक द्वि युष्मद् अस्मद् भवतु किम्॥
महाभाष्यम्
सर्वादीनि सर्वनामानि सर्वादीनीति कोऽयं समासः ? बहुव्रीहिरित्याह। कोऽस्य विग्रहः ? सर्वशब्द आदिर्येषां तानीमानीति। यद्येवं सर्वशब्दस्य सर्वनामसञ्ज्ञा न प्राप्नोति। किं कारणम् ? अन्यपदार्थत्वाद् बहुव्रीहेः। बहुव्रीहिरयमन्यपदार्थे वर्तते। तेन यदन्यत् सर्वशब्दात् तस्य सर्वनामसञ्ज्ञा प्राप्नोति। तद्यथा ‐ चित्रगुरानीयतामित्युक्ते यस्य ता गावो भवन्ति स एवानीयते न गावः। नैष दोषः। भवति हि बहुव्रीहौ तद्गुणसंविज्ञानमपि। तद्यथा चित्रवाससमानय, लोहितोष्णीषा ऋत्विजः प्रचरन्तीति। तद्गुण आनीयते तद्गुणाश्च प्रचरन्तीति। इह सर्वनामानीति पूर्वपदात् सञ्ज्ञायामगः इति णत्वं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः। सर्वनामसञ्ज्ञायां निपातनाण्णत्वाभावः। सर्वनामसञ्ज्ञायां निपातनाण्णत्वं न भविष्यति। किमेतन्निपातनं नाम ? अथ कः प्रतिषेधो नाम ? अविशेषेण किंचिदुक्त्वा विशेषेण नेत्युच्यते। तत्र व्यक्तमाचर्यस्याभिप्रायो गम्यते इदं न भवतीति। निपातनमप्येवंजातीयकमेव। अविशेषेण णत्वमुक्त्वा विशेषेण निपातनं क्रियते। तत्र व्यक्तमाचार्यस्याभिप्रायो गम्यते इदं न भवतीति। ननु च निपातनाच्चाणत्वं स्यात्, यथा प्राप्तं च णत्वम् । किमन्येऽप्येवंविधयो भवन्ति ? (यदि भवन्ति तदा) इको यणचीति यण् स्यात् यथाप्राप्तश्चेक् श्रूयेत ? नैष दोषः। अस्त्यत्र विशेषः। षष्ठ्यात्र निर्देशः क्रियते। षष्ठी च पुनः स्थानिनं निवर्तयति। इह तर्हि कर्तरि शप् दिवादिभ्यः श्यन् इति वचनाच्च श्यन् स्यात्, यथाप्राप्तश्च शप् श्रूयेत। नैष दोषः। शबादेशाः श्यन्नादयः करिष्यन्ते। तत्तर्हि शपो ग्रहणं कर्तव्यम् ? न कर्तव्यम्। प्रकृतमनुवर्तते। क्व प्रकृतम् ? कर्तरि शप् इति। तद्वै प्रथमानिर्दिष्टं, षष्ठीनिर्दिष्टेन चेहार्थः। दिवादिभ्य इत्येषा पञ्चमी शपिति प्रथमायाः षष्ठीं प्रकल्पयिष्यति तस्मादित्युत्तरस्येति। प्रत्ययविधिरयम्। न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिका भवन्ति। नायं प्रत्ययविधिः। विहितः प्रत्ययः। प्रकृतश्चानुवर्तते। इह तर्हि अव्ययसर्वनाम्नामकच् प्राक् टेरिति वचनाच्चाकच् स्यात्। यथा प्राप्तश्च कः श्रूयेत। नैष दोषः। नाप्राप्ते हि केऽकजारभ्यते स बाधको भविष्यति। निपातनमप्येवजातीयकमेव। नाप्राप्ते णत्वे निपातनमारभ्यते तद् बाधकं भविष्यति। यदि तर्हि निपातनान्यप्येवंजातीयकानि भवन्ति समस्तते दोषो भवति। इहान्ये वैयाकरणाः समस्तते विभाषा लोपमारभन्ते समोहितततयोर्वेति। सततम्। संततम्। सहितम्। संहितम्। इह पुनर्भवान् निपातनाच्च लोपमिच्छति अपरस्पराः क्रियासातत्ये इति। यथाप्राप्तं चालोपम् ‐ - संततमित्येतन्न सिध्यति। कर्तव्योऽत्र यत्नः। बाधकान्येव हि निपातनानि भवन्ति। ।। संज्ञोपसर्जनप्रतिषेधः ।। । संज्ञोपसर्जनीभूतानां सर्वादीनां प्रतिषेधो वक्तव्यः। सर्वो नाम कश्चित्। तस्मै सर्वाय देहि। अतिसर्वाय देहि। स कथं कर्तव्यः ? ।। पाठात् पर्युदासः पठितानां सञ्ज्ञाकरणम् ।। । पाठादेव पर्युदासः कर्तव्यः। शुद्धानां पठितानां सञ्ज्ञा कर्तव्या। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। संज्ञोपसर्जनीभूतानि न सर्वादीनि। किमविशेषेण ? नेत्याह। विशेषेण च। किं प्रयोजनम् ? ।। सर्वाद्यानन्तर्यकार्यार्थम् ।। । सर्वादीनामानन्तर्येण यदुच्यते कार्यं तदपि संज्ञोपसर्जनीभूतानां मा भूदिति। किं प्रयोजनम् ? प्रयोजनं डतरादीनामद्ड्भावे। डतरादीनामद्ड्भावे प्रयोजनम्। अतिक्रान्तमिदं ब्राह्मणकुलं कतरत् अतिकतरं ब्राह्मणकुलमिति। ।। त्यदादिविधौ च ।। । त्यदादिविधौ च प्रयोजनम्। अतिक्रान्तोयं ब्राह्मणस्तम् अतितद् ब्राह्मण इति। सञ्ज्ञाप्रतिषेधस्तावन्न वक्तव्यः। उपरिष्टाद् योगविभागः करिष्यते। पूर्वपरावरदक्षिणोत्तरापराधराणि व्यवस्थायाम्। ततोऽसञ्ज्ञायाम् इति। सर्वादीनीत्येवं यान्यनुक्रान्तानि असञ्ज्ञायां तानि द्रष्टव्यानि। उपसर्जनप्रतिषेधश्च न कर्तव्यः। अनुपसर्जनादित्येष योगः प्रत्याख्यायते तमेवमभिसंभन्त्स्यामः। अनुपसर्जन अ अदिति। किमिदम् अ अदिति। अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ। यद्येवम् अतियुष्मत् अत्यस्मत् इति न सिध्यति। प्रश्लिष्टनिर्देशोऽयम्। अनुपसर्जन अ अ अदिति। अकारान्तात् अकारात्कारौ शिष्यमाणावनुपसर्जनस्य द्रष्टव्यौ। अथवा अङ्गाधिकारे यदुच्यते गृह्यमाणविभक्तेस्तद् भवति। यद्येवं परमपञ्च- परमसप्त। षड्भ्यो लुक् न प्राप्नोति। नैष दोषः। षट्प्रधान एष समासः। इह तर्हि प्रियसक्थ्ना ब्राह्मणेन। अनङ् न प्राप्नोति। सप्तमीनिर्दिष्टे यदुच्यते, प्रकृतविभक्तौ तद् भवति। यद्येवम् अतितद् अतितदः। इति अत्वं प्राप्नोति। तच्चापि वक्तव्यम्। न वक्तव्यम्। इह तावद् ‐ अद्ड्डतरादिभ्यः पञ्चभ्यः इति पञ्चमी। अङ्गस्येति षष्ठी। तत्राशक्यं भिन्न विभक्तित्वात् डतरादिभ्य इति पञ्चम्याऽङ्गं विशेषयितुम्। तत्र किमन्यच्छक्यं विशेषयितुमन्यदतो विहितात्प्रत्ययात् ‐ डतरादिभ्यो यो विहित इति। इहेदानीम् ‐ - अस्थिदधिसक्थ्यक्ष्णामनङुदात्त इति। त्यदादीनामो भवतीति। अस्थ्यादीनामित्येषा षष्ठी। अङ्गस्येत्यपि। त्यदादीनामित्यपि षष्ठी। अङ्गस्येत्यपि। तत्र कामचारः, गृह्यमाणेन वा विभक्तिं विशेषयितुमङ्गेन वा। यावता कामचारः, इह तावदस्थिदधिसक्थ्यक्ष्णामनुङुदात्त इत्यङ्गेन विभक्तिं विशेषयिष्यामः। अस्थ्यादिभिरनङम्। अङ्गस्य विभक्तावनङ् भवति अस्थ्यादीनामिति। इहेदानीं त्यदादीनामो भवतीति गृह्यमाणेन विभक्तिं विशेषयिष्यामः। अङ्गेनाकारम् ‐ त्यदादीनां विभक्तावो भवति। अङ्गस्येति। यद्येवम् अतिसः। अत्वं न प्राप्नोति। नैष दोषः। त्यदादिप्रधान एष समासः। अथवा नेदं सञ्ज्ञाकरणम्। पाठविशेषणमिदम्। सर्वेषां यानि नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते । यद्येवं सञ्ज्ञाश्रयं यत् कार्यं तन्न सिध्यति ‐ सर्वनाम्नः स्मै आमि सर्वनाम्नः सुडिति। अन्वर्थग्रहणं तत्र विज्ञास्यते। सर्वेषां यन्नाम तत् सर्वनाम। सर्वनाम्न उत्तरस्य ङेः स्मै भवति। सर्वनाम्न उत्तरस्यामः सुट् भवति। यद्येवं सकलं कृत्स्नं जगदित्यत्रापि प्राप्नोति। एतेषां चापि शब्दानामेकैकस्य स स विषयः। तस्मिंस्तस्मिन् विषये यो यः शब्दो वर्तते तस्य तस्य तस्मिंस्तस्मिन् वर्तमानस्य सर्वनामकार्यं प्राप्नोति। एवं तर्ह्युभयमनेन क्रियते। पाठश्चैव विशेष्यते सञ्ज्ञा च। कथं पुनरेकेन यत्नेनोभयं लभ्यम् ? लभ्यमित्याह। कथम्। एकशेषनिर्देशात्। एकशेषनिर्देशाऽयम् ‐ सर्वादीनि च सर्वादीनि च सर्वादीनि। सर्वनामानि च सर्वनामानि सर्वनामानि। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां यानि च नामानि तानि सर्वादीनि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते। अथवा ‐ महतीयं सञ्ज्ञा क्रियते। सञ्ज्ञा च नाम यतो न लघीयः। कुत एतत्? लघ्वर्थे हि सञ्ज्ञाकरणम्। तत्र महत्याः सञ्ज्ञायाः करणे एतत् प्रयोजनम्। अन्वर्थसञ्ज्ञा यथा विज्ञायेत। सर्वादीनि सर्वनामसञ्ज्ञानि भवन्ति। सर्वेषां नामानि इति चातः सर्वनामानि। संज्ञोपसर्जने च विशेषेऽवतिष्ठेते। अथोभस्य सर्वनामत्वे कोऽर्थः ? ।। उभस्य सर्वनामत्वेऽकजर्थः ।। । उभस्य सर्वनामत्वेऽकचर्थः पाठः क्रियते। उभकौ। किमुच्यतेऽकजर्थ इति। न पुनरन्यान्यपि सर्वनामकार्याणि। ।। अन्याभावो द्विवचनटाब् विषयत्वात् ।। । अन्येषां सर्वनामकार्याणामभावः। किं कारणम्? द्विवचनटाब्विषयत्वात्। उभशब्दोऽयं द्विवचनटाब्विषयः। अन्यानि च सर्वनामकार्याणि एकवचनबहुवचनेषूच्यन्ते। यदा पुनरुभशब्दो द्विवचनटाब्विषयः, क इदानीमस्यान्यत्र भवति ? ।। उभयोऽन्यत्र ।। । उभयशब्दोऽस्यान्यत्र भवति। उभये देवमनुष्याः। उभयो मणिरिति। किं च स्याद् यद्यत्राकच् न स्यात् ? कः प्रसज्येत। कश्चेदानीं काकचोर्विशेषः? उभशब्दोऽयं द्विवचनटाब्विषय इत्युक्तम्। तत्राकचि सति अकचस्तन्मध्यपतितत्वाच्छक्यते एतद्वक्तुं ‐ - द्विवचनपरोऽयमिति। के पुनः सति नायं द्विवचनपरः स्यात्। तत्र द्विवचनपरता वक्तव्या। यथैव तर्हि के सति नायं द्विवचनपरः। एवमाप्यपि सति नायं द्विवचनपरः स्यात्। तत्रापि द्विवचनपरता वक्तव्या। ।। अवचनादापि तत्परविज्ञानम् ।।। अन्तरेणापि वचनमापि द्विवचनपरोऽयं भविष्यति। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते ? एकादेशे कृते द्विवचनपरोऽयमन्तादिवद्भावेन। ।। अवचनादापि तत्परविज्ञानमिति चेत्केपि तुल्यम् ।। । अवचनादापि तत्परविज्ञानमिति चेत् केपि अन्तरेण वचनं द्विवचनपरो भविष्यति। कथम्? स्वार्थिकाः प्रत्ययाः प्रकृतितोऽविशिष्टा भवन्तीति प्रकृतिग्रहणेन स्वार्थिकानामपि ग्रहणं भवति। अथ भवतः सर्वनामत्वे कानि प्रयोजनानि ? ।। भवतोऽकच्छेषात्वानि ।। । भवतोऽकच्छेषात्वानि प्रयोजनानि। अकच्। भवकान्। शेषः- स च भवांश्च भवन्तौ। आत्वम् भवादृगिति। किं पुनरिदं परिगणनमाहोस्विदुदाहरणमात्रम् ? उदाहरणमात्रमित्याह। तृतीयादयोपि दृश्यन्ते। सर्वनाम्नस्तृतीया च। भवता हेतुना। भवतो हेतोरिति।।27।।