॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|26
SK 3012
1|1|26
क्तक्तवतू निष्ठा
SK 3012
सूत्रच्छेद:
क्त-क्तवतू - प्रथमाद्विवचनम् , निष्ठा - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
क्त-क्तवतू निष्ठा
सूत्रार्थ:
क्त-प्रत्ययः क्तवतु-प्रत्ययः च निष्ठासंज्ञकौ स्तः ।
"क्त" तथा "क्तवतु" एतयोः द्वयोः प्रत्यययोः अनेन सूत्रेण "निष्ठा"-संज्ञा भवति ।

निष्ठा 3|2|102 अनेन सूत्रेण निष्ठासंज्ञकौ प्रत्ययौ (इत्युक्ते क्त-क्तवतु-प्रत्ययौ) "कृत्"प्रत्ययेषु गण्येते ।

अन्यत्र अपि केषुचन सूत्रेषु अस्याः संज्ञायाः प्रयोगः क्रियते । यथा - निष्ठायाम् सेटि 6|4|52, निष्ठा 2|2|26, निष्ठायां अण्यदर्थे 6|4|60 आदयः ।
One-line meaning in English
The क्त-प्रत्यय and क्तवतु-प्रत्यय get the term "निष्ठा".
काशिकावृत्तिः
क्तश्च क्तवतुश्च क्तक्तवतू प्रत्ययौ निष्ठासंज्ञौ भवतः । कृतः, कृतवान् ; भुक्तः, भुक्तवान् । ककारः कित्कार्यार्थः । उकारः उगित्कार्यार्थः । निष्ठाप्रदेशाः श्वीदितो निष्ठायाम् 7|2|14 इत्येवमादयः ॥
`भुक्तवान्` इति। `चोः कुः` 8|2|30 इत कुत्वम्। `अत्वसन्तस् चाधातोः` 6|4|14 इति दीर्घः। अथ केन विहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते? अनयैवसंज्ञया। वक्ष्यति तृतीये `निष्ठा` 3|2|102 इति। यद्येवम्, निष्ठासंज्ञया क्तक्तवतू भाव्येते, तावेवाश्रित्य निष्ठासंज्ञेति; इतरेतराश्रयो दोषो भवति, `इतरेतराश्रयाणि कार्याणि शास्त्रे न प्रकल्प्यन्ते, (व्या।28) नैष दोषः; भाविनी हि संज्ञा विज्ञास्यते, यथा- `अस्य सूत्रस्य शटकं वय` इति। तौ भूते काले भवतः, ययोर्विहित-र्निष्ठेत्येषा संज्ञा भवतीति।
इह क्तक्तवतुरूपाश्रयेयं संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा भवति । न च प्रयोगे सानुबन्धकं रूपमस्तीत्युपदेशगतं ग्राह्यम् । तत्र ङपुंसके भावे क्तः" "ञीतः" इति क्तस्य क्वचिदुपदेशोऽस्ति । यदि तस्यैव स्याद्, लिङ्गान्तरे,कालान्तरे धात्वन्तरे च न स्यात् । क्तवतोस्तु न क्वचिदुपदेशः, तत्केनविहितयोः क्तक्तवत्वोरेषा संज्ञा विधीयते ? अनयैव संज्ञया । वक्ष्यति--निष्ठेति । यद्येवम्, इतरेतराश्रयः प्राप्नोति-विहितयोः संज्ञा, संज्ञया च विधानमिति, नैष दोषः; भाविनी संज्ञा विज्ञायते सूत्रशाटकवत् । तद्यथा-कश्चित्कञ्चित् तन्तुवायमाह-अस्य सूत्रस्य शाटकं वयेति । स पश्यति-यदि शाटको न वातव्यः; अथ वातव्यो न शाटकः; शाटको वातव्यश्चेति विप्रतिषिद्धम्; स मन्ये वातव्यो यस्मिन्नुते शाटक इत्येतद्भवतीति । तद्वदिहापि तौ भूते काले भवतः, ययोर्विहितयोर्निष्ठेत्येषा संज्ञा भविष्यतीति ॥
सिद्धान्तकौमुदी
एतौ निष्ठासंज्ञौ स्तः ॥
क्तक्तवतू निष्ठा। क्त, क्तवतु अनयोर्द्वन्द्वः। निष्ठेति प्रत्येकाभिप्रायमेकवचनम्।
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
लघुसिद्धान्तकौमुदी
एतौ निष्ठासंज्ञौ स्तः॥
महाभाष्यम्
क्तक्तवतू निष्ठा निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः। निष्ठासञ्ज्ञायां समानशब्दानां प्रतिषेधो वक्तव्यः। लोतो गर्त इति। निष्ठासञ्ज्ञायां समानशब्दप्रतिषेधः। निष्ठासञ्ज्ञायां समानशब्दानामप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। निष्ठासञ्ज्ञा कस्मान्न भवति। अनुबन्धोऽन्यत्त्वकरः। अनुबन्धः क्रियते सोऽन्यत्त्वं करिष्यति। अनुबन्धोऽन्यत्त्वकर इति चेन्न लोपात्। अनुबन्धोऽन्यत्त्वकर इति चेत् तन्न। किं कारणम्। लोपात्। लुप्यतेऽत्रानुबन्धः। लुप्तेऽत्रानुबन्धे नान्यत्त्वं भवति। तद्यथा कतरद् देवदत्तस्य गृहम्। अदो यत्रासौ काक इति। उत्पतिते काके नष्टं तद् गृहं भवति। एवमिहापि लुप्तेऽनुबन्धे नष्टः प्रत्ययो भवति। यद्यपि लुप्यते जानाति त्वसौ सानुबन्धकस्येयं सञ्ज्ञा कृतेति। तद्यथा इतरत्रापि कतरद् देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि नष्टं तद् गृहं भवति। अन्ततस्तमुद्देशं जानातीति। सिद्धविपर्यासश्च। सिद्धश्च विपर्यासः। यद्यपि जानाति संदेहस्तु तस्य भवति। अयं स तशब्दो लोतो गर्त इति। अयं स तशब्दो लूनो गीर्ण इति। तद्यथा इतरत्रापि कतरद् देवदत्तस्य गृहम्। अतो यत्रासौ काक इति। उत्पतिते काके यद्यपि तमुद्देशं जानाति सन्देहस्तु तस्य भवति इदं तद् गृहमिदं तद् गृहमिति। एवं तर्हिं ‐ - कारककालविशेषात् सिद्धम्। कारककालविशेषावुपादेयौ। भूते यस्तशब्दः कर्मणि कर्तरि भावे चेति। तद्यथा इतरत्रापि य एष मनुष्यः प्रेक्षापूर्वकारी भवति सोऽध्रुवेण निमित्तेन ध्रुवं निमित्तमुपादत्ते वेदिकां पुण्डरीकं वा। एवमपि प्राकीर्ष्ट इत्यत्रापि प्राप्नोति। लुङि सिजादिदर्शनात्। लुङि सिजादिदर्शनान्न भविष्यति। यत्र तर्हि सिजादयो न दृश्यन्ते प्राभित्तेति। दृश्यन्तेऽत्रापि सिजादयः। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते ? यथैवायमनुपदिष्टान् कारकालविशेषानवगच्छति। एवमेतदप्यवगन्तुमर्हति यत्र सिजादयो नेति। इति पञ्चम आह्निकं समाप्तम्।