॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|24
SK 369
1|1|24
ष्णान्ता षट्   🔊
SK 369
सूत्रच्छेद:
ष्णान्ता - प्रथमैकवचनम् , षट् - प्रथमैकवचनम्
अनुवृत्ति:
संख्या  [1|1|23] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
ष्णान्ता संख्या षट्
सूत्रार्थ:
षकारान्ताः नकारान्ताः च संख्यासंज्ञकाः शब्दाः "षट्" संज्ञकाः भवन्ति ।
बहुगणवतुडति संख्या 1|1|23 इत्यनेन संख्या-शब्दस्य व्याख्या क्रियते । ये संख्याशब्दाः षकारान्ताः नकारान्ताः वा सन्ति, तेषाम् वर्तमानसूत्रेण "षट्" इत्यपि संज्ञा भवति ।

अतः षट्-संज्ञकाः शब्दाः एते - पञ्चन्, षष्, सप्तन्, अष्टन्, नवन्, दशन्, एकादशन्, द्वादशन्, त्रयोदशन्, चतुर्दशन्, पञ्चदशन्, षोडषन्, सप्तदशन्, अष्टादशन्, नवदशन् ।

षट्-संज्ञायाः प्रयोग षड्भ्यो लुक् 7|1|22, षट्चतुर्भ्यश्च 7|1|55 आदिषु सूत्रेषु क्रियते ।
One-line meaning in English
The षकारान्त and the नकारान्त words which are given the term "संख्या" also get the term "षट्".
काशिकावृत्तिः
स्त्रीलिङ्गनिर्देशात् सङ्ख्य इति सम्बध्यते । षकारान्ता नकारान्ता च या सङ्ख्या सा षट्संज्ञा भवति । षकारान्ता तावत् - षट् तिष्ठन्ति, षट् पश्य । नकारान्ताः - पञ्च, सप्त, नव, दश । अन्तग्रहणम् औपदेशिकार्थम् । तेनैह न भवति - शतानि, सहस्राणि । अष्टानाम् इत्यत्र नुड् 7|1|55 भवति । षट्प्रदेशाः षड्भ्यो लुक् 7|1|22 इत्येवम् आदयः ॥
`स्त्रीलिङ्ग निर्देशात्` इत्यादि। ष्णान्तेति स्त्रीलिङ्गनिर्देशः क्रियते, न चेह किञ्चित् स्त्रीलिङ्गं श्रूयते, नापि प्रकृतमन्यत् संख्यायाः। तस्मात्स्त्रीलिङ्गनिर्देशात् संख्यैव `ष्णान्ता` इत्यनेन विशेषणेन विशिष्यते। `षट्` इति चानया संज्ञया सम्बध्यते। यदि ष्णान्तेत्यत्र स्त्रीलिङ्गनिर्देशो न क्रियते, सर्वं ष्णान्तं शब्दरूपं षट्संज्ञं स्यात्। ततः `पामानः` विप्रुषः` इत्यादावपि `षड्भ्यो लुक्` 7|1|22 इति लुक् प्रसज्येत। ननु च संख्येत्यनुवर्त्तिष्यते, तत् कुतोऽतिप्रसङ्गः? सत्यमेतत्; सैवानुवृत्तिः स्त्रीलिङ्गनिर्देशेन स्पष्टीक्रियते। यदि संख्येत्यनुवत्र्तते, सामथ्र्यादेव तदन्ता विज्ञास्यते, न हि षकारमात्रं वानकारमात्रं वा संख्यास्ति, तदपार्थकमन्तग्रहणम्, नैतदस्ति; उपदेशावस्थायां या ष्णान्ता सा षट्संज्ञा यथा स्यादित्येवमर्थत्वादन्तग्रहणस्य। असति तस्मिन् शतानिसहरुआआणीति नुमि कृते षट्संज्ञा स्यात्। इह च अष्टानाम्? इत्यष्टन आत्वे कृतेषट्संज्ञा न स्यात्। ततश्च `षट्चतुभ्र्यश्च` 7|1|55 इति नुण् न भवति।
इह कस्मान्न भवति-विप्रुषः, पामान इति ? सङ्ख्येति वर्तते । ननु च तत्सङ्ख्याग्रहणं संज्ञाप्रधानम्, इहानुवृतमपि ष्णान्तानां संज्ञामेव विदध्याद्, न तु ष्णान्तेत्यस्य विशेष्यं समर्पभेद्; अत आह--स्त्रीलिङ्गनिर्देशादिति । "ष्णान्ता" इत्यत्र स्त्रीलिङ्गस्य विशेष्यापेक्षायां सम्बध्यमानं प्रदेशेष्विव संज्ञिप्रधाने भविष्यतीत्यर्थः । अत एवात्रान्तग्रहणम् । इतरथा वर्णग्रहणे सर्वत्र तदन्तविधिरित्येव सिद्धम् । इह कस्मान्न भवति-शतानि, सहस्राणि ? नुमि कृते तस्य पूर्वभक्तत्वान्नान्ता सङ्ख्या भवति । अस्तु, लुक्कस्मान्न भवति ? सर्वनामस्थानसन्निपातकृतो नुम् न तद् विहन्ति । अथेह कथं संज्ञा-अष्टानामिति ? कथं च न स्यात् ? अष्टन् अ आम् इति स्थिते परत्वान्नित्यत्वाच्च "अष्टन आ विभक्तौ" इत्यात्वे कृतेऽनान्तत्वादसत्यां संमज्ञायां नुड् न स्यात्, अष्टनो दीर्घग्रहणं ज्ञापकम्-कृतात्वस्याप्यष्टनः संज्ञा भवतीति । एतच्च तत्रैवोपपादयिष्यामः । यद्वा, प्रागेव विभक्त्युत्पतेरनुद्दिश्य प्रयोजनविशेषं षट्संज्ञा भविष्यति । सा च कृतेऽप्यात्वे न निवर्तते ॥
सिद्धान्तकौमुदी
षान्ता नान्ता च सङ्ख्या षट्संज्ञा स्यात् । षड्भ्यो लुक् (कौमुदी-261) । पञ्च । पञ्च । सङ्ख्या किम् । विप्रुषः । पामानः । शतानि सहस्त्राणीत्यत्र संनिपातपरिभाषया न लुक् । सर्वनामस्थानसंनिपातेन कृतस्य नुमस्तदविघातकत्वात् । पञ्चभिः । पञ्चभ्यः । पञ्चभ्यः । षट्चतुर्भ्यश्च (कौमुदी-338)इति नुट् ॥
पञ्चन्शब्दो नित्यं बहुवचनान्तः। तस्य षट्संभाकार्यं लुकं विधास्यन् षट्संज्ञामाह--ष्णान्ता षट्। ष्च नश्च ष्णौ। ष्टुत्वेन णः। ष्णौ अन्तौ यस्याः सा ष्णान्ता। `बहुगणवतुडति सङ्ख्या` इत्यतः सङ्ख्येत्यनुवर्तते। तच्च पूर्वसूत्रे बहुगणवतुडतिपरमपि शब्दाधिकारादिह पञ्च षडित्यादिप्रसिद्धसङ्ख्याबोधकशब्दपरमाश्रीयते, बहुगणवतुडतिषु ष्णान्तत्वाऽसम्भवात्। तदाह--षान्तेत्यादिना। षड्भ्यो लुगिति। `अनेन जश्शसोर्लु`गिति शेषः। पञ्च पञ्चेति। जश्शसोर्लुकि नलोप इति भावः। सङ्ख्या किमिति। सङ्ख्याग्रहणानुवृत्तेः किं फलमिति प्रश्नः। विप्रुषः पामान इति विप्रुष्शब्दस्य पामन्शब्दस्य च ष्णान्तत्वेऽपि सङ्ख्यावाचकत्वाऽभावेन षट्संज्ञाविरहात्ततः परस्य जसो लुगिति भावः। ननु शतशब्दाज्जश्शसोः शिभावे `नपुंसकस्य झलचः` इति नुमि `सर्वनामस्थाने चे`ति दीर्घे शतानीति रूपम्। एवं सहरुआआणीत्यपि रूपम्। तत्र `अट्कुप्वाङि`ति णत्वं विशेषः। इह `तदागमाः` इति न्यायेन नुमोऽङ्गभक्तत्वाच्छतन्शब्दसहरुआन्शब्दयोर्नान्तसङ्ख्याशब्दत्वात् षट्संज्ञायां सत्यां `षड्भ्यो लु`गिति जश्शसोर्लुक् स्यादत आह--शतानीत्यादि। सर्वनामेति। सर्वनामस्थानं परत्वेन उपजीव्य प्रवृत्तस्य नुमः सन्निपातपरिभाषया सर्वनामस्थानभूतजश्शसोर्लुकं प्रति निमित्तत्वाऽभावादित्यर्थः। पञ्चभिः पञ्चभ्य इति। नलोपे रूपम्।
ष्णान्ता षट्। स्त्रीलिङ्गनिर्देशः सङ्ख्यां विश्षयितुम्, तत्सामार्थ्याच्च पूर्वत्र संज्ञापरमपि सङ्ख्याग्रहणमिह संज्ञिपरं संपद्यत इत्यदाशयेनाह--सङ्ख्येति। प्राचा तूपदेशकाले षान्ता नान्ता चेत्युक्तम्, तत् `पञ्चेत्यत्र नलोपे कृतेऽपी`त्यादिवक्ष्यमाणस्वग्रन्थविरुद्धम्। संप्रत्यनान्तत्वेऽप्युपदेशे नान्तत्वमासीदिति किमसिद्धत्वेनेति दिक्। संनिपातेति। तथा चोपदेशकाले इति व्याख्यानं निष्पलमपीति भावः। यत्त्वहुः--परिभाषाया अनित्यत्वाल्लक् स्यादिति, तत्साहसमात्रम्। इष्टस्थलेऽप्यप्रवृत्तौ परिभाषाया अकिञ्चित्करत्वापत्तेः। यदप्याहुः--`उपदेशग्रहणमिह कुतः समागत`मित्याशङ्क्य `ष्णान्ते`त्यन्तग्रहणसामर्थ्यादौपदेशिकत्वं लभ्यत इति। तदपि न। `सङ्क्ये`त्यस्याकर्षणेन संज्ञपरत्वसंपादनेन च सामर्थ्यो पक्षयात्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
ष्णान्ता षट् षट्संज्ञायामुपदेशवचनम्। षट्संज्ञायामुपदेशग्रहणं कर्तव्यम्। उपदेशे षकारनकारान्ता सङ्ख्या षट्संज्ञा भवतीति वक्तव्यम्। किं प्रयोजनम्? शताद्यष्टनोनुम्नुडर्थम्। शतानि सहस्राणि नुमि कृते ष्णान्ता षडिति षट्संज्ञा प्राप्नोति। उपदेशग्रहणान्न भवति। अष्टानामित्यत्रात्वे कृते षट्संज्ञा न प्राप्नोति। उपदेशग्रहणाद् भवति। उक्तं वा। किमुक्तम्? इह तावत् शतानि सहस्राणीति संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येति। अष्टनोऽप्युक्तम्। किमुक्तम्? अष्टनो दीर्घग्रहणं षट्संज्ञाज्ञापकमाकारान्तस्य नुडर्थमिति। अथवाऽऽकारोप्यत्र निर्दिश्यते पकारान्ता ‐ षकारन्ता नकारान्ता आकारान्ता च सङ्ख्या षट्संज्ञा भवतीति। इहापि तर्हि प्राप्नोति ‐ सधमादो द्युम्न एकास्ताः। एका इति। नैष दोषः। एकशब्दोऽयं बह्वर्थः। अस्त्येव सङ्ख्यापदम्। तद्यथा ‐ एको द्वौ बहव इति। अस्त्यसहायवाची। तद्यथा- एकाग्नयः। एकहलानि। एकाकिभिः क्षुद्रकैर्जितमिति। असहायैरित्यर्थः। अस्त्यन्यार्थे वर्तते। तद्यथा ‐ प्रजामेका रक्षत्यूर्जमेकेति। अन्येत्यर्थः। सधामादो द्युम्न एकास्ताः। अन्या इत्यर्थः। तद्योऽन्यार्थे वर्तते तस्यैष प्रयोगः। इह तर्हि प्राप्नोति ‐ द्वाभ्यामिष्टये विंशत्या चेति। एवं तर्हि सप्तमे योगविभागः करिष्यते ‐ अष्टाभ्य औश्। ततः षड्भ्यः। षड्भ्यश्च यदुक्तमष्टाभ्योपि तद् भवति। ततः ‐ लुक् लुक् च भवति। षड्भ्य इति। अथवा ‐ उपरिष्टाद् योगविभागः करिष्यते ‐ अष्टन आ विभक्तौ। ततो रायः। रायश्च विभक्तावाकारादेशो भवति। हलीत्युभयोः शेषः। यद्येवं प्रियाष्टौ प्रियाष्टाः इति न सिध्यति। प्रियाष्टानौ प्रियाष्टानः इति प्राप्नोति। यथालक्षणमप्रयुक्ते।