Page loading... Please wait.
1|1|22 - तरप्तमपौ घः
॥ तस्मै पाणिनये नम: ॥
1|1|22
SK 2003
तरप्तमपौ घः   🔊
सूत्रच्छेद:
तरप्-तमपौ - प्रथमाद्विवचनम् , घः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
तरप्-तमपौ घ:
सूत्रार्थ:
तरप्-तमप्-प्रत्ययौ च घसंज्ञकौ भवतः ।
तरप् तथा तमप् एतौ द्वौ कौचन तद्धितप्रत्ययौ । द्विवचनविभज्योपपदे तरबीयसुनौ 5|3|57 अनेन तरप्-प्रत्ययः, तथा अतिशायने तमबिष्ठनौ 5|3|55 इत्यनेन तमप्-प्रत्ययः विधीयते । एतयोः द्वयोः प्रत्यययोः "घ"संज्ञा भवति ।

तरप्-प्रत्ययान्तस्य उदाहरणानि - पटुतर, विशालतर, दूरतर ।
तमप्-प्रत्ययान्तस्य उदाहरणानि - पटुतम, विशालतम, दूरतम ।

घ-संज्ञायाः किम् प्रयोजनम्? घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6|3|43 इत्यतः उगितश्च 6|3|45 एतेषु सूत्रेषु घसंज्ञान्तानाम् शब्दानाम् विशिष्टानि कार्याणि उक्तानि सन्ति ।
One-line meaning in English
The तरप् प्रत्यय and the तमप् प्रत्यय get the संज्ञा घ.
काशिकावृत्तिः
तरप् तमप् - इत्येतौ प्रत्ययौ घसंज्ञौ भवतः । कुमारितरा, कुमारितमा ; ब्राह्मणितरा, ब्राह्मणितमा । घप्रदेशाः घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः 6|3|43 इत्येवम् आदयः ॥
`कुमारितरा` इति। `द्विवचविभज्योपपदे` 5|3|57 इत्यादिना तरप्। `कुमारितमा` इति। `अतिशायने` इत्यादिना तमप्। तयोर्घसञ्ज्ञायां सत्यां `घरूपकल्प` 6|3|42 इत्यादिना ह्यस्वत्वं भवति।
तरतेः "ऋदोप्" इत्यपि गुणे भूतपूर्वेण पकारेण यद्यपि तरबिति रूपं भवति, तथापि तमपा साहचर्यात् प्रत्ययस्यैव ग्रहणमित्याह --तरपतपौ प्रत्ययाविति । तेन नद्यास्तरो नदीतर इति ह्रस्वो न भवति । अथ वा तरबिति रूपाश्रय संज्ञा, रूपनिर्ग्रहश्च प्रयोगे उपदेशे वा । तत्र न क्वचित्प्रयोगे तरबिति रूपमस्तीत्युपदेशगतं गृह्यते । न चात्रौपदेशिकं तरब्रूपमस्ति, सत्यामपि वा घसंज्ञायां न दोषः, ह्रस्वत्वं हि समानाधिकरणे स्त्रीलिङ्गे विधीयते । आतिशायनिकप्रकरण एव तादी घः, पितौ घ इति वा कर्तव्ये प्रकरणोत्कर्षेण संज्ञाकरणमन्योऽपि तरबस्तीति सूचनार्थम्, तेन "अल्पाच्तरम्" "लोपश्च बलवतरः" इत्यादौ स्वार्थे तरप् सिद्धो भवति ॥
सिद्धान्तकौमुदी
एतौ घसंज्ञौ स्तः ॥
तरप्तमपौ घः - तरप्तमपौ घः । प्रथमस्य प्रथमपादे सूत्रमिदम् । आतिशायनिकप्रत्ययप्रकरणान्ते, "पितौ घः" तादी घः इति वा वक्तव्ये प्रकरणान्तरे पृथग्गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञापयति । तस्य आतिशायनिकप्रकरणबहुर्भूतस्य सत्त्वे तत्संग्रहणार्थं प्रकरणान्तरे सूत्रकरणस्यावश्यकत्वादित्याहुः । तेन "अल्पाच्तरं" "लोपस्च बलवत्तरः" इत्यादि सिद्धम् । किमेत्तिङव्यय । "आमु" इति छेदः । उकार उच्चारणार्थः । किम्, एते, तिङ्, अव्यय — एषां चतुर्णां द्वन्द्वः ।किमेत्तिङव्ययप्रकृतिको घः॑ इति मध्यमपदलोपी समासः । फलितमाह — किम एदन्तादित्यादिना । एभ्य इत्यर्थः । किन्तमामिति अत्यन्तस्वार्थिकोऽयं तमप्, नत्वतिशायने । एषामतिशयेनाढ इतिवदेषामतिशयेन क इति विग्रहस्याऽसंभवात् । जातिगुणक्रियासंज्ञाभि समुदायादेकदेशस्य पृथक्करणं हि निर्धारणम् । प्राह्णे तमामिति । प्राह्ण=पूर्वाह्णः ।प्राह्णाऽपराह्णमध्याह्नाः त्रिसन्ध्य॑मित्यमरः । अतिशयिते पूर्वाह्णे इत्यर्थः । पूर्वावयवगतप्रकर्षादह्नः प्रकर्षो बोध्यः । अत्र अहर्न द्रव्यम्, सूर्योदयादारभ्य सूत्रास्तमयावधिकस्यैव कालस्य अहन्शब्दार्थत्वात् । तस्य च उदयादिक्रियाघटितत्वान्न द्रव्यत्वमिति भावः । पचतितमामिति । अतिशयिनता पाकक्रियेत्यर्थः, तिङन्तेषु क्रियाविशेष्यकबोधस्यैवप्रशंसायां रूप॑विति सूत्रभाष्ये प्रपञ्चितत्वात् । अतोऽत्र क्रियाया एवन प्रकर्षो नतु द्रव्यस्येति भावः । उच्चैस्तमामिति ।आशंसती॑त्यध्याहार्यम् । अतिशयेन उच्चैराशंशनादिक्रियेत्यर्थः । अत्रापि क्रियाया एव प्रकर्षो न तु द्रव्यस्य । उच्चैस्तमस्तरुरिति । अतिशेन उच्चैस्तरुरित्यर्थः । अत्र उच्चैस्त्वप्रकर्षस्य तरौ द्रव्ये भानादाभ्यनेत्यर्थः ।किंतमा॑मित्यादौयस्येति चे॑ति लोपं परत्वाद्बाधित्वा ह्यस्वान्तलक्षणनुटो निवृत्त्यर्थमामु इत्युकारोच्चारणम् । सति तु तस्मिन्निरनुबन्धकग्रहणे न सानुबन्धकस्ये॑ति परिभाषया नुड्विधावस्य न ग्रहणमित्यादि "आमि सर्वनाम्नः" इति सूत्रभाष्ये प्रपञ्चितम् ।
तरप्तमपौ घः - तरप्तमपौ घः । अस्मिन्नेवाऽ‌ऽतिशायनिकप्रकरणेतादौ घः॑पितौ घः॑इति वा वक्तव्ये प्रकरणान्तरेण गुरुसूत्रकरणमत्यन्तस्वार्थिकमपि तरपं ज्ञायपति । तेनअल्पाच्तरं॑, लोपश्च बलवत्तरः॑ इत्यादि सिद्धम् । अल्पाजेव ह्रल्पाचतरम् । न त्वत्र द्वयोरेकस्यातिशयविवक्षायां तरप् । अन्यथाशिवकेशवौ॑इथ्यादिसिद्धावपिशङ्खदुन्दुभिवीणाः॑इत्यादि न सिध्येदित्याहुः ।
लघुसिद्धान्तकौमुदी
एतौ घसंज्ञौ स्तः॥
महाभाष्यम्
तरप् तमपौ घः घसञ्ज्ञायां नदीतरेऽप्रतिषेधः। घसञ्ज्ञायां नदीतरेऽप्रतिषेधो वक्तव्यः। नद्यास्तरो नदीतरः। घसञ्ज्ञायां नदीतरेऽप्रतिषेधः। अनर्थकः प्रतिषेधः अप्रतिषेधः। घसञ्ज्ञा कस्मान्न भवति। तरप्ग्रहणं ह्यौपदेशिकम्। औपदशिकस्य तरपो ग्रहणम्। न चैष उपदेश तरप् शब्दः। किं वक्तव्यमेतत् ? नहि। कथमनुच्यमानं गंस्यते? इह हि व्याकरणे सर्वेष्वेव सानुबन्धकग्रहणेषु रूपमाश्रीयते। यत्रास्यैतद् रूपमिति। रूपनिर्ग्रहश्च शब्दस्य नान्तरेण लौकिकं प्रयोगम्। तस्मिंश्च लौकिके प्रयोगे सानुबन्धकानां प्रयोगो नास्तीति कृत्वा द्वितीयः प्रयोग उपास्यते। कोऽसौ? उपदेशो नाम। न चैष उपदेशे तरप् शब्दः। अथवास्त्वस्य घसञ्ज्ञा। को दोषः ? घादिषु नद्या ह्रस्वो भवतीति ह्रस्वत्वं प्रसज्येत। समानाधिकरणेषु घादिषु इत्येवं तत्। यदा तर्हि सैव नदी स एव तरस्तदा प्राप्नोति। स्त्रीलिङ्गेषु घादिषु इत्येवं तत्। अवश्यं चैतदेवं विज्ञेयम्। समानाधिकरणेषु घादिषु इत्युच्यमान इह प्रसज्येत- महिषीरूपमिव। ब्राह्मणीरूपमिवेति।