॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|21
SK 348
1|1|21
आद्यन्तवदेकस्मिन्
SK 348
सूत्रच्छेद:
आदि-अन्तवत् - अव्ययम् , एकस्मिन् - सप्तम्येकवचनम्
अनुवृत्ति:
--
अधिकार:
-
सम्पूर्णसूत्रम्
एकस्मिन् आदि-अन्तवत्
सूत्रार्थ:
केवलं एकः वर्णः अस्ति चेत् सः यथा आदिवत् कार्यम् करोति, तथैव अन्तवदपि कार्यं करोति ।
यदि कुत्रचित् शब्दस्य "आदिवर्णस्य" किमपि कार्यम् उक्तम् अस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव आदिवर्णसंज्ञां स्वीकरोति । तथैव, यदि कुत्रचित् शब्दस्य "अन्तिमवर्णस्य" किमपि कार्यम् उक्तम् अस्ति तत्र यद्यपि तस्मिन् शब्दे एकः एव वर्णः अस्ति, तथापि सः एव अन्तिमवर्णः ज्ञातव्यः - इति अस्य सूत्रस्य आशयः । यथा -

1. "अ" (= विष्णुः) इति अकारान्तपुँल्लिङ्गशब्दः । अस्य तृतीयाद्विवचनस्य रूपसिद्धौ "अ + भ्याम्" इति स्थिते एकः प्रश्नः आगच्छति - सुपि च 7|3|102 इत्यनेन अङ्गस्य अन्तिम-अकारस्य दीर्घादेशः भवति । परन्तु अत्र अङ्गे केवलं एकः एव वर्णः अस्ति । तर्हि सः एव अन्तिमवर्णरूपेण स्वीकर्तुं शक्यते वा? (तस्मात् पूर्वम् किमपि नास्ति चेत् अयम् अन्तिमवर्णः कथं स्यात् - इति संशयः ।) अस्य उत्तरम् अनेन सूत्रेण दीयते - यत्र एकः एव वर्णः अस्ति, तत्र सः आदिवर्णवत् अपि कार्यं करोति, अन्तिमवर्णवत् अपि कार्यं करोति । अतः अत्र अनेन सुपि च 7|3|102 इत्यनेन अकारस्य दीर्घः भवितुम् अर्हति ।

2. "गुरोः भावः" अस्मिन् अर्थे गुरु-शब्दस्य अण्-प्रत्यये कृते "गौरव" शब्दः सिद्ध्यति । अत्र प्रत्यये णकारः इत्संज्ञकः अस्ति, अतः केवलं अकारः एव अवशिष्यते । अयम् यद्यपि एकाल्-प्रत्ययः अस्ति, तथापि आद्यन्तवदेकस्मिन् 1|1|21 इत्यनेन सः आदिवत् अपि कार्यम् करोति, अतः आद्युदात्तश्च 3|1|3 इत्यनेन "गौरव" अस्मिन् शब्दे वकारात् परः अयम् (प्रत्ययस्य आदिभूतः) अकारः उदात्तसंज्ञकः भवति ।

सामान्यभाषायाम् एतत् सूत्रम् स्पष्टीकर्तुम् एकम् उदाहरणम् दीयते - "देवदत्तस्य एकः एव पुत्र अस्ति चेत्, स एव ज्येष्ठः, स एव कनिष्ठः " । इत्युक्ते, देवदत्तस्य यदि केवलं एकः एव पुत्रः अस्ति, तर्हि "रे देवदत्त, तव ज्येष्ठपुत्रः कः" इति पृष्टेऽपि देवदत्तः तस्यैव निर्देशं करोति यस्य सः "रे देवदत्त, तव कनिष्ठपुत्रः कः" इति पृष्टे करोति । अनेनैव प्रकारेण शब्दे एकः एवः वर्णः अस्ति चेत् सः एव आदिवर्णः, सः एव अन्तिमवर्णः भवति ।

परिभाषेन्दुशेखरे विषयेऽस्मिन् एका परिभाषा दत्ता अस्ति - व्यपदेशिवदेकस्मिन् । अस्याः परिभाषायाः अर्थः अयम् - कस्यापि पदार्थस्य "एकस्य भागस्य" दत्तम् अभिधानम् अपि सः पदार्थः तदा स्वीकरोति यदा सः पदार्थः स्वयम् एकभाग-इत्येव अस्ति । इयम् परिभाषा अस्य सूत्रस्यैव अर्थम् स्पष्टीकरोति ।
One-line meaning in English
If a word has a single letter, any action told on the first letter of that word also happens on this letter, and any action told on the last letter of that word also happens on this letter.
काशिकावृत्तिः
असहायस्याद्यन्तौपदिष्टानि कार्याणि न सिध्यन्ति इति अयमतिदेश आरभ्यते । सप्तम्यर्थे वतिः । आदाविव अन्ते इव एकस्मिन्नपि कार्यं भवति । यथा - "कर्तव्यम्" इत्यत्र प्रत्ययाद्युदात्तत्वं 3|1|3 भवति, एवम् "औपगवम्" इत्यत्र अपि यथा स्यात् । यथा - वृक्षाभ्याम् इत्यत्र अतोऽङ्गस्य 7|3|102 दीर्घत्वम् एवम् "आभ्याम्" इत्यत्र अपि यथा स्यात् । एकस्मिन्निति किम् ? सभासन्नयने भवः साभासन्नयनः - आकारम् आश्रित्य वृद्धसंज्ञा न भवति ॥
`असहायस्य` इत्यादिना सूत्रारम्भस्य फलं दर्शयति। इति करणो हेतौ। यस्मादादेरन्तस्य यानि कार्याण्युपदिष्टानि, तान्यविद्यमानसहायस्य न सिध्यन्ति; तस्मादतिदेशोऽयमारभ्यते। द्वितीयादिकं हि सहायमपेक्ष्याद्यन्तशब्दौ प्रवत्र्तते। तथा हि - लोकः सति हि परस्मिन् सहाये पूर्वाभावे चादिरिति व्यपदिशति, सति च पूर्वस्मिन्पराभावे चान्त इति। अतस्तदुभयमसहाये नास्तीति। तत्राद्यन्तप्रतिबद्धानि कार्याणि न स्युः, यद्ययमतिदेशो आरभ्यते। `एकस्मिन्` इति वचनात् `आद्यन्तवत` इत्यत्र सप्तमीसमर्था-द्वतिर्गम्यत इत्याह- `सप्तम्यर्थे वतिः` इति। आद्यन्तयोरिवाद्यन्तवत्, `तत्र तस्येव` 5|1|115 इति वतिः। `औपगवम्` इत्यत्राप्यादिव्यपदिष्टं कार्यमतिदेशस्य फलम्। प्रत्ययाद्युदात्तत्वं ह्रादेरुपदिष्टम्, `आद्युदात्तश्च` 3|1|3 इति वचनात्। `आभ्याम्` इति। अत्रान्तोपदिष्टं दीर्घत्वं ह्रन्तस्योपदिष्टम्, `अलोऽन्त्यस्य` 1|1|51 इति वचनात्। इदमो भ्याम्, त्यदाद्यत्वम्, 7|2|102 , `अतो गुणे` 6|1|94 पररूपत्वम्, `हलि लोपः` 7|2|113 इतीद्रूपस्य लोपः, `सुपि च` 7|3|102 इति दीर्घः।
"द्वन्द्वे घि" इत्येतद्वाधित्वा "अजाद्यदन्तम् " इत्यन्तशब्दस्य पूर्वनिपातः प्राप्नोऽस्मादेव निर्द्देशान्न भवति । न चात्यन्तबाधः, अन्तादिवच्चेति लिङ्गात् । असहायस्येत्यादिना सूत्रारम्भस्य प्रयोजनमाह । सति परस्मिन् यस्मात्पूर्वं नास्ति स आदिः, सति च पूर्वस्मिन्यस्मात्परं नास्ति सोऽन्तः, तदेतदुभयमसहाये न सम्भवति । तस्मादाद्यन्तयोर्यान्युपदिष्टानि उक्तानि कार्याणि तान्यसहायस्यापि यथा स्युरित्ययमारम्भः । असहायस्येत्यनेनासहायवचन एकशब्दो न संख्यावचन इति दर्शयति । बहुष्वपि व्यवस्थितस्यैकत्वसंख्यास्तीति "एकस्मिन्" इति व्यर्थं स्यादिति भावः । "एकस्मिन्" इत्युपमेये सप्तमीश्रवणादुपमानस्यापि सप्तमीसमर्थतेत्याह-सप्तम्यर्थे वतिरिति । वर्तमानादिति शेषः । "तत्र तस्येव" इति इवार्थे वतिः । पूर्वं त्वसहायस्येति षष्ठीनिर्देशः सप्तम्यर्थस्यैव शेषरूपविवक्षया । कार्यार्थत्वात्सर्वातिदेशानां प्राधान्यात्कार्यातिदेशोऽयमित्याह-कार्ये भवतीति । । आद्यन्तवद्व्यपदेशो निमितम् । "पूर्ववत्सनः" इति तु निर्मूलम्, व्यपदेशातिदेशे हि कुरुते, कुर्वे इत्यादौ अन्तवद्व्यपदेशेऽपि अन्त्योऽजादिरस्येत्येवं रूपस्य बहुव्रीह्यर्थस्याभावाट्टिसंज्ञाया अभावे टेरेत्वं न स्यात् । कुर्वाते इत्यादौ तु दृष्टस्य टेरेत्वाख्यस्य कार्यस्यातिदेशे न दोषः । आभ्यामिति । अत्र द्वे अन्तत्वे उपयुज्येते-आकारान्तस्याङ्गस्यालोऽन्त्यस्य दीर्घ इति । सभासन्नयन इति । असत्येकग्रहणे यत्रादिव्यपदेशो नास्ति मध्येऽसहाये च सोऽतिदेशस्य विषयः । "वृद्धिर्यस्याचामादिस्तद्वृद्धम्" इत्यत्रादिग्रहणस्याप्येतदेव व्यावर्त्यमिति विकल्पः स्यात्-कदाचिद् वृद्धसंज्ञा, कदाचिन्न इति । तस्मादाकारमाश्रित्य पक्षे वृद्धसंज्ञा न भवतीति ग्रन्थार्थः ॥
सिद्धान्तकौमुदी
एकस्मिन् क्रियामाणं कार्यमादाविवाऽन्त इव स्यात् । आभ्याम् ॥
ननु इदम् भ्यामिति स्थिते त्यदाद्यत्वे पररूपे इदो लोपे च कृते अ-भ्याम् इति स्थिते अङ्गस्याकारात्मकत्वाददन्तत्वाभावात्कथं `सुपि चे`ति दीर्घ इत्यत आह-आद्यन्तवदे। आदित्वान्तत्वयोर्नित्यमन्यसापेक्षत्वादेकस्मिन् तत्प्रयुक्तकार्याणामप्राप्तौ तत्पाप्त्यर्थमिदमारभ्यते।एकशब्दोऽसहायवाची। `एके मुख्यान्यकेवलाः` इत्यमरः। सप्तम्यन्ता`त्तत्र तस्येवे`ति वतिः, एकस्मिन्नित्युपमेये सप्तमीदर्शनात्। वतिश्च द्वन्द्वान्ते श्रूयमाणत्वात्प्रत्येकं संबध्यते। तदाह-एकस्मिन्नित्यादि। तदादितदन्तयोः क्रियमाणं कार्यं तदादौ तदन्त इव च असहायेऽपि स्यादित्यर्थः। एकस्मिन्निति किम् ?। दरिद्रातेरेरजिति न। आदिवत्त्वफलम्-औपगव इत्यादौ अण्प्रत्ययाद्युदात्तत्वम्। आभ्यामित्यादौ अन्तवत्त्वाद्दीर्घादिर्भवति। भाष्ये तु आद्यन्तवदित्यपनीय व्यपदेशिवदेकस्मिन्निति सूत्रपाठः शिक्षितः। तेन इयायेत्यादौ `एकाचो द्वे प्रथमस्ये`ति द्विर्भावः, धुगित्यत्र व्यपदेशिवत्त्वेन धात्ववयवत्वाद्भष्भावश्च सिध्यति। विशिष्टोऽपदेशो-व्यपदेश=मुख्यो व्यवहारः। सोऽस्यास्तीति व्यपदेशी। मुख्य इति यावत्। एकस्मिन् तदादित्वतदन्तत्वतदवयवत्वादिप्रयुक्तकार्यं स्यादिति फलितम्। इदमोऽन्वादेशेऽशनुदात्तस्तृतीयादौ।2.4.32।
आद्यन्तवत्। `सत्यन्यस्मिन् यस्य पूर्वो नास्ति स आदिः`, `सत्यन्यस्मिन्यस्य परो नास्ति सोऽन्तः`इति लोके प्रसिद्धं, तदुभयमेकस्मिन्नसहाये न संभवतीति तत्राद्यन्तव्यपदिष्टानि कार्याणि नस्युरतोऽयमतिदेश आरभ्यते। नच परत्वात्, `सुपिचे`ति दीर्घे पश्चाद्धिलि लोपे सति आभ्यामित्यादि सिध्यतीति किमत्राद्यन्तवत्सूत्रोपन्यासेनेति शङ्क्यम्, नित्यत्वाद्धलि लोर इत्यस्य दीर्घात्पूर्वमेव प्रवृत्तेः। `एकस्मि`न्नित्युपमेये सप्तमीदर्शनात्सप्तम्यर्थ एव वतिरित्यभिप्रेत्याह--आदाविवान्त इवेति। आदिवत्किम्?। औपगवः। अत्राऽण आद्युदात्तत्वं यथा स्यात्। भाष्ये त्वादियविदित्यपनीय `व्यपदेशिवदेकस्मि`न्निति सूत्रमूहितम्। विशिष्टोऽपदेशो व्यपदेशः---मुख्यो व्यवहारः। सोऽस्यातीति व्यपदेशी, मुख्य इति यावत्। तेन तुल्यमेकस्मिन्नसगायेऽपि कार्यं स्यादित्यर्थः। तेन `इयाय``आरे`त्यादौ`एकाचः`इति द्वित्वं सिध्यति। अन्यथा आद्यन्तापदिष्टत्वाद्धित्वं न स्यादिति दिक्।
लघुसिद्धान्तकौमुदी
एकस्मिन्क्रियमाणं कार्यमादाविवान्त इव स्यात्। सुपि चेति दीर्घः। आभ्याम्॥
महाभाष्यम्
आद्यन्तवदेकस्मिन् किमर्थमिदमुच्यते ? सत्यन्यस्मिन्नाद्यन्तवद्भावादेकस्मिन्नाद्यन्तवद्वचनम्। सति अन्यस्मिन् यस्मात् पूर्वं नास्ति परमस्ति स आदिरित्युच्यते। सति अन्यस्मिन् यस्मात् परं नास्ति पूर्वमस्ति सोऽन्त इत्युच्यते। सत्यन्यस्मिन्नाद्यन्तवद्भावादेतस्मात् कारणात् एकस्मिन्नाद्यन्तापदिष्टानि कार्याणि न सिध्यन्ति इष्यन्ते च स्युरिति। तान्यन्तरेण यत्नं न सिध्यन्ति इत्येकस्मिन्नाद्यन्तवद् वचनम्। एवमर्थमिदमुच्यते। अस्ति प्रयोजनमेतत्। किं तर्हीति। तत्र व्यपदेशिवद्वचनम्। तत्र व्यपदेशिवद्भावो वक्तव्यः। व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम्। किं प्रयोजनम् ? एकाचो द्वे प्रथमार्थम्। वक्ष्यति- एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देश इति। तस्मिन् क्रियमाणे इहैव स्यात् पपाच पपाठ। इयाय आर इत्यत्र न स्यात्। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति। षत्वे चादेशसम्प्रत्ययार्थम्। वक्ष्यति- आदेशप्रत्यययोरित्यवयवषष्ठीति। एतस्मिन् क्रियमाणे इहैव स्यात् करिष्यति हरिष्यति। इह न स्यात् इन्द्रो मा वक्षत्, स देवान्यक्षत् इति। व्यपदेशिवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति। स तर्हि व्यपदेशिवद्भावो वक्तव्यः। न वक्तव्यः। अवचनाल्लोकविज्ञानात् सिद्धम्। अन्तरेणैव वचनं लोकविज्ञानात् सिद्धमेतत्। तद्यथा लोके शालासमुदायो ग्राम इत्युच्यते। भवति चैतदेकस्मिन्नपि ‐ - एकाशालो ग्राम इति। विषम उपन्यासः। ग्रामशब्दोऽयं बह्वर्थः। अस्त्येव शालासमुदाये वर्तते। तद्यथा ग्रामो दग्धः इति। अस्ति वाटपरिक्षेपेवर्तते। तद्यथा ग्रामं प्रविष्ट इति। अस्ति च मनुष्येषुवर्तते। तद्यथा ग्रामो गतो ग्राम आगत इति। अस्ति सारण्यके ससीमके सस्थण्डिलके वर्तते। तद्यथा ग्रामो लब्ध इति। तद् यः सारण्यके ससीमके सस्थण्डिलके वतते तमभिसमीक्ष्यैतत् प्रयुज्यते एकशालो ग्राम इति। यथा तर्हि वर्णसमुदायः पदम्। पदसमुदाय ऋक्। ऋक् समुदायः सूक्तमित्युच्यते। भवति चैतदेकस्मिन्नप्येकवर्णं पदम् एकपदा ऋक्, एकर्चं सूक्तमिति। अत्राप्यर्थेन युक्तो व्यपदेशः। पदं नामार्थः। ऋङ् नामार्थः। सूक्तं नामार्थ इति। यथा तर्हि बहुषु पुत्रेषु एतदुपपन्नं भवति अयं मे ज्येष्ठोऽयं मे मध्यमोऽयं मे कनीयानिति। भवति चैतदेकस्मिन्नपि अयमेव मे ज्येष्ठोऽयमेव मे मध्यमोऽयमेव मे कनीयानिति। तथाऽसूतायामसोष्यमाणायां च भवति ‐ - प्रथमगर्भेण हतेति। तथाऽनेत्यनाजिगमिषुराह- इदं मे प्रथममागमनमिति । आद्यन्तवद्भावश्य शक्योऽवक्तुम्। कथम्? अपूर्वानुत्तरलक्षणत्वादाद्यन्तयोः सिद्धमेकस्मिन्। अपूर्वलक्षण आदिः, अनुत्तरलक्षणोऽन्तः, एतच्चैकस्मिन्नपि भवति। अपूर्वानुत्तरलक्षणत्वाद् एतस्मात् कारणाद् एकस्मिन्नप्याद्यन्तापदिष्टानि कार्याणि भविष्यन्तीति नार्थ आद्यन्तवद्भावेन। गोनर्दीयस्त्वाह ‐ सत्यमेतत् सति त्वन्यस्मिन्निति। कानि पुनरस्य योगस्य प्रयोजनानि? आदिवत्त्वे प्रयोजनं प्रत्ययञ्ञ्निदाद्युदात्तत्वे। प्रत्ययस्यादिरुदात्तो भवतीति इहैव स्यात् कर्तव्यं, तैत्तिरीयः। औपगवः कापटवः इत्यत्र न स्यात्। ञ्ञ्नित्यादिर्नित्यम् इति इहैव स्यात् ‐ अहिचुम्बकायनिः, आग्निवेश्यः। गार्ग्यः, कृतिः इत्यत्र न स्यात्। वलादेरार्धधातुकस्येट् प्रयोजनम्। आर्धधातुकस्येड् वलादेरितीहैव स्यात् ‐ करिष्यति हरिष्यति। जोषिषत् मन्दिषदित्यत्र न स्यात्। यस्मिन्विधिस्तदादित्वे। यस्मिन् विधिस्तदादित्वे प्रयोजनम्। वक्ष्यति यस्मिन् विधिस्तदादावल्ग्रहणे इति। तस्मिन् क्रियमाणे अचि श्नुधातुभ्रुवां य्वोरियङुवङौ इति इहैव स्यात् ‐ - श्रियः भ्रुवः। श्रियौ भ्रुवौ ‐ इत्यत्र न स्यात्। अजाद्याट्त्वे प्रयोजनम्। आडजादीनाम् इति इहैव स्यात् ऐक्षिष्ट, ऐहिष्ट । ऐष्ट अध्यैष्ट इत्यत्र न स्यात्। अथान्तवत्त्वे कानि प्रयोजनानि ? अन्तवद् द्विवचनान्तप्रगृह्यत्वे। अन्तवद् द्विवचनान्तप्रगृह्यत्वे प्रयोजनम्। इर्दूदेद् द्विवचनं प्रगृह्यम् इतीहैव स्यात् पचेते इति, पचेथे इति। खट्वे इति, माले इति इत्यत्र न स्यात्। मिदचोऽन्त्यात्परः प्रयोजनम्। इहैव स्यात् ‐ - कुण्डानि वनानि। तानि यानीत्यत्र न स्यात्। अचोन्त्यादि टि प्रयोजनम्। टित आत्मनेपदानां टेरे इहैव स्यात् ‐ कुर्वाते, कुर्वाथे। कुरुते-कुर्वे इत्यत्र न स्यात्। अलोन्त्यस्य प्रयोजनम्। अतो दीर्घो यञ्ञि सुपि च इहैव स्यात् ‐ - घटाभ्यां पटाभ्यामिति। आभ्याम् इत्यत्र न स्यात्। येन विधिस्तदन्तत्वे प्रयोजनम्। अचो यत् इहैव स्यात् चेयं जेयम्। एयमध्येयमित्यत्र न स्यात्। आद्यन्तवदेकस्मिन् कार्यं भवतीत्यत्रापि सिद्धं भवति।।21।।