Page loading... Please wait.
1|1|2 - अदेङ् गुणः
॥ तस्मै पाणिनये नम: ॥
1|1|2
SK 17
अदेङ् गुणः   🔊
सूत्रच्छेद:
अत्-एङ् - प्रथमैकवचनम् , गुणः - प्रथमैकवचनम्
अनुवृत्ति:
-
अधिकार:
-
सम्पूर्णसूत्रम्
अत्-एङ् गुण:
सूत्रार्थ:
अकार-एकार-ओकाराः गुणसंज्ञकाः स्युः ।
"अ", "ए", "ओ" - एतेषाम् त्रयाणाम् वर्णानाम् "गुणः" इयम् संज्ञा भवति ।

यथा -
1. कर्तृ-शब्दस्य सम्बोधनैकवचनस्य सुँ-प्रत्यये परे ऋतो ङिसर्वनामस्थानयोः 7|3|110 इत्यनेन ऋकारस्य गुणः रपरः अकारः भवति - कर्तृ + सुँ → कर्तर् + स् → कर्ता ।
2. मति-शब्दस्य जस्-प्रत्यये परे जसि च 7|3|109 इत्यनेन गुणादेशः विधीयते । इकारस्य गुणः एकारः भवति - मति + जस् → मते + अस् → मतयः ।
3. भू-धातोः ऊकारस्य शप्-प्रत्यये परे सार्वधातुकार्धधातुकयोः 7|3|84 इत्यनेन गुणादेशे ओकारः भवति । भू + शप् + तिप् → भो + अ + ति → भवति ।

अस्मिन् सूत्रे "अत्" इत्यत्र उपस्थितः तकारः तपरस्तत्कालस्य 1|1|70 इत्यनेन अकारस्य तथा "ऐच्" प्रत्याहारस्य - उभयोः तपरकरणम् कारयति । अत्र तपरकरणेन सवर्णग्रहणं निषिध्यते । अतः केवलं ह्रस्व-अकारस्य, दीर्घ-एकारस्य, दीर्घ-ओकारस्य गुणसंज्ञा भवति, न हि तेषां सवर्णानाम् ।

"गुण" संज्ञायाः प्रयोगः गुणोऽपृक्ते 7|3|91, मिदेर्गुणः 7|3|82, आद्गुणः 6|1|87 आदिषु सूत्रेषु कृतः अस्ति ।
One-line meaning in English
The letters अ, ए and ओ are called गुण.
काशिकावृत्तिः
गुणशब्दः संज्ञात्वेन विधीयते, प्रत्येकमदेङां वर्णानां सामान्येन तद्भावितानामतद्भावितानां च । तपरकरणं त्विह सर्वार्थम् । तरिता, चेता, स्तोता ; पचन्ति, जयन्ति, अहं पचे । गुणप्रदेशा मिदेर्गुणः 7|3|82 इत्येवमादयः ॥
`तपरकरणं त्विह सर्वार्थम्िति। सर्वस्मिन्नर्थः प्रयोजनं यस्य तत्तथोक्तम्। तुशब्दः पूर्वस्माद्विशेषं दर्शयति। तत्र ह्रैजर्थमेव, इह तु सर्वार्थम्, अकारार्थमेङर्थमपि। असति हि तपरकरणं अदेङामणत्वात् सवर्णानां ग्रहणं सति भिन्नकालानामप्येषा सञ्ज्ञा स्यात्। ततश्च `तरिता` इत्यत्रान्तरत्मयाद्दीर्घस्य दीर्घ एव गुणस्यात्।ननु च वृद्धिसञ्ज्ञा गुणसञ्ज्ञाया बाधिका भविष्यति, तत् कुतोऽयं प्रसङ्गः? नैतदस्ति। एकसञ्ज्ञाधिकारे हि सञ्ज्ञया सञ्ज्ञान्तरं बाध्यते, न चात्रेकसञ्ज्ञाधि-कारः। स्यादेतत्, असत्यप्येकसञ्ज्ञाधिकारे यथा `जीवति तु वंश्ये युवा` 4|1|163 इति गोत्रसञ्ज्ञा युवसञ्ज्ञया बाध्यते, यथा च `लिट् च` 3|4|115 , `लिङाशिषि` 3|4|116 इति चार्धधातुकसञ्ज्ञया सार्वधातुकसंज्ञा बाध्यते, तथा गुणसंज्ञा वृद्धिसञ्ज्ञया बाधिष्यते इति? अयुक्तमेतत। युवसञ्ज्ञाविधौ तुग्रहणं नियमार्थं क्रियते। ततो युक्तं यद्युवसञ्ज्ञया गोत्रसञ्ज्ञा बाध्यत इति। आर्धधातुकसञ्ज्ञाऽपि यत् सार्वधातुकसञ्ज्ञा बाध्यते तदपि युक्तमेव, `छन्दस्युभयथा` 3|4|117 ति वचनात्। यदि सार्व-धातुकार्धधातुकसञ्ज्ञयोः समावेशः स्यात्, न बाध्यबाधकभावः, तदा `छन्दस्युभयथा` 3|4|117 इति वचनमपार्थकं स्यात्। इह तु न किञ्चित् तथाविधं निबन्धनमस्ति, यतो वृद्धिसञ्ज्ञया गुणसञ्ज्ञा बाध्यते। अथापि कथञ्चिद्बाध्येत, एवमपि त्रिमात्रिकस्यापि गुण-सञ्ज्ञा स्यादेव। न हि सा तया शक्या बाधितुम्, तस्य अतद्विषयत्वात्। त्रिमात्रस्यापि गुणसञ्ज्ञायां सत्यां त्रिमात्रोऽपि गुणः प्रसज्यते। ऋकारस्य हि कालतो यथैकमत्रिकोऽकारोऽन्तरतमो न सम्भवति, तथा त्रिमात्रोऽपि, तत् कुत एतल्लभ्यते? ह्यस्वेनैवास्य गुणेन भवितव्यम् न हि त्रिमात्रेणाकारेणेति। किञ्च, यदि भिन्न-कालानामपि गुणसञ्ज्ञा स्यात्, `खट्वा इन्द्रः= खट्वेन्द्रः खट्वा उर्वी खट्वोर्वी` इत्यत्र त्रिमात्रत्वात् पूर्वोत्तरसमुदायात्मनः स्थानिनः `आद्गुणः` 6|1|84 इति त्रिमात्रो गुणः स्यात्। खट्वा ईषा= खट्वेषा, खट्वा उढा=खट्वोढा` इत्यत्र चतुर्मा-मात्रित्वात् चतुर्मात्रः। तस्मात् सर्वार्थं तपरकरणं कर्तव्यम्। `तरिता` इत्यादि। `तृ? तप्लवनतरणयोः` (धातुपाठः-969), `चिञ् चयने` (धातुपाठः-1251), `ष्टुञ् स्तुतौ`(धातुपाठः-1043), एभ्यः `ण्लुल्तृचौ` 3|1|133 इति तृच्। `आर्धधातुकस्येड् वलादेः` 7|2|35 इतीट्, `सार्वधातुकार्धधातुकयोः` 7|3|84 इति गुणः, सु, `ऋदुशनस्` 7|1|94 इत्यादिना अनङ, `सर्वनामस्थाने च` 6|4|8 इति दीर्घः। एतानि त्रीणि यथाक्रमदेङां तद्भावितानामुदाहरणानि। `पठन्ति, पठन्` इत्यकारस्यात्द्भावितस्योदाहरणे। अत्रान्त्याकारस्य गुणसञ्ज्ञायां `अतो गुणे` 6|1|94 पररूपत्वं भवति। पठन्निति शत्रन्तमेतत्। एकास्यातद्भावितस्यकार्योदाहरणम्- `अहं पचे` इत्यादि। ओकारस्यातद्भावितस् तन्न सम्भवतीति न प्रदश्र्यते।
पूर्वेण तुल्यमेतत् । ऽतपरकरणं त्विह सर्वार्थमिऽति । न तु पूर्ववदन्यतरार्थमिति तु शब्दस्यार्थः । असति हि तस्मिन् दीर्घप्लुतयोरपि गुणसंज्ञा स्यात्; ततश्च तरतीति कदाचिदकारः स्यात्, कदाचिदाकारः, रपरत्वे कृत एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । न चाकारस्य वृद्धिसंज्ञा बाधिका; एकसंज्ञाधिकारादन्यत्र संज्ञासमावेशात् । एङश्च त्रिमात्रचतुर्मात्रस्य गुणसंज्ञायाम्-रथेषा,खट्वेषा, अश्वोढः, वडवोढ इति त्रिमात्रतुर्मात्रौ स्याताम् । तरितेत्यादीनि तद्भावितानामदेङं क्रमेण रूपोदाहरणानि । पचन्ति जयन्तीत्यकारस्य कार्योदाहरणे । अत्रान्त्यकारे परतः शबकारस्य "अतो गुणे" इति पररूपं भवति । एकारस्यातद्भावितस्योदाहरणम्-ऽअहं पचे ऽइति । ओकारस्य तु न संभवति ॥
सिद्धान्तकौमुदी
अदेङ् च गुणसंज्ञः स्यात् ॥
अदेङ् गुणः - अदेङ्गुणः । संज्ञाप्रस्तावात्संज्ञेति लभ्यते । अच्च एङ् चेति समाहारद्वन्द्वः । तदाह — अदेङ् चेत्यादिना ।
अदेङ् गुणः - अदेङ्गुणः । तपरकरणमिह सर्वार्थम् । तेनगङ्गोदक॑मित्यत्र त्रिमात्रो न ।तरती॑त्यत्र त्वकार एव, नतु कदाचिदाकारः । नच प्रमाणत आन्तर्येण नियमसिद्धिः, रपरत्वे कृते एकस्याध्यर्धमात्रत्वादपरस्यार्धतृतीयमात्रत्वात् । गुणप्रदेशास्तु-॒आद्गुणः॑अतो गुणे॑ इत्यादयः ।
लघुसिद्धान्तकौमुदी
अत् एङ् च गुणसंज्ञः स्यात्॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!