॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|19
SK 109
1|1|19
ईदूतौ च सप्तम्यर्थे   🔊
SK 109
सूत्रच्छेद:
ईदूतौ - प्रथमाद्विवचनम् , च - अव्ययम् , सप्तम्यर्थे - सप्तम्येकवचनम्
अनुवृत्ति:
प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
ईदूतौ सप्तम्यर्थे प्रगृह्यम् |
सूत्रार्थ:
सप्तम्यर्थे प्रयुक्तः दीर्घः ईकारान्तः / दीर्घः ऊकारान्तः शब्दः प्रगृह्यसंज्ञकः भवति ।
यः दीर्घ-ईकारान्तशब्दः / दीर्घ-ऊकारान्तशब्दः सप्तमीविभक्तेः अर्थं दर्शयति, सः प्रगृह्यसंज्ञकः अस्ति ।

वस्तुतः लोके तु सप्तमीविभक्तेः किमपि रूपम् दीर्घ-ईकारान्तम् दीर्घ-ऊकारान्तं वा न दृश्यते । परन्तु वेदेषु दीर्घ-ईकारान्तशब्दात् परस्य / दीर्घ-ऊकारान्तशब्दात् परस्य सप्तमी-विभक्तेः प्रत्ययस्य सुपां सुलुक्पूर्वसवर्णा... 7|1|39 इत्यनेन लोपः क्रियते चेत् दीर्घ-ईकारान्तम् / दीर्घ-ऊकारान्तं प्रातिपदिकम् अवशिष्यते । तस्य अनेन सूत्रेण प्रगृह्यसंज्ञा भवति ।

यथा - "सोमो गौरी अधिश्रितः" (ऋग्वेदः 9.12.3) - अत्र "गौरी + ङि" इति स्थिते सुपां सुलुक्पूर्वसवर्णा... 7|1|39 इत्यनेन ङि-प्रत्ययस्य लोपं कृत्वा "गौरी" इति यः ईकारान्तशब्दः अवशिष्यते, सः अनेन सूत्रेण प्रगृह्यसंज्ञां प्राप्नोति ।

अस्मिन् सूत्रे आचार्येण "सप्तम्यर्थे" इति उक्तम् अस्ति । अनेन आचार्यः एतत् अभिप्रैति यत् यत्र अयं सप्तमी-निर्देशकः शब्दः स्वतन्त्ररूपेण सप्तमीविभक्तेः अर्थम् प्रतिपादयति, तर्हि एव तस्य प्रगृह्यसंज्ञा भवेत् । परन्तु यदि अयं शब्दः समस्तपदे केनचित् अन्येन शब्देन अह अर्थज्ञानम् कारयति, तर्हि तस्य प्रगह्यसंज्ञा न भवेत्, इति । यथा, "वाप्याम् अश्वः" इत्यत्र समस्तपदनिर्माणप्रक्रियायाम् "वापी + ङि + अश्व + सुँ" इति स्थिते सुपो धातुप्रातिपदिकयोः 2|4|71 इत्यनेन सुप्-प्रत्यययोः लोपे कृते "वापी + अश्व" इत्यवशिष्यते । अत्र वापी-शब्देन निर्दिष्टः सप्तम्यर्थः "स्वतन्त्ररूपेण" न विद्यते, समस्तपदे "अश्व" शब्देन सह एव तस्य अन्वयः भवति, अतः अत्र वापी-शब्दस्य प्रगृह्यसंज्ञा न भवति, अतः सन्धिं कृत्वा "वाप्यश्व" इति जायते ।

विशेषः - यस्याम् प्रक्रियायाम् शब्दस्य "स्वतन्त्रः" अर्थः विनश्यति, केवलं अन्येन शब्देन अन्वये कृते एव तस्य अर्थः जायते, तस्याः प्रक्रियायाः अभिधानम् "वृत्तिः" इति क्रियते । संस्कृते आहत्य पञ्च वृत्तयः सन्ति - कृत्-वृत्तिः, तद्धितवृत्तिः, समासवृत्तिः , सनाद्यन्तवृत्तिः तथा एकशेषवृत्तिः । एताभ्यः काऽपि वृत्तिः अस्ति चेत् अस्य सूत्रस्य प्रयोगः न करणीयः ।

ज्ञातव्यम् - अस्मिन् सूत्रे "ईत्"/"ऊत्" इत्यत्र निर्दिष्टः तकारः केवलम् उच्चारणार्थः अस्ति । दीर्घ-वर्णेन सवर्णग्रहणंं न भवति, अतः अत्र तपरकरणम् न आवश्यकम् ।
One-line meaning in English
A दीर्घ ईकारान्त and a दीर्घ ऊकारान्त word when used to represent the meaning of सप्तमी gets the term "प्रगृह्य".
काशिकावृत्तिः
शाकल्यस्यैतावनार्षे इति निवृत्तम् । ईदन्तम् ऊदन्तं च शब्दरूपं सप्तम्यर्थे वर्तमानं प्रगृह्यसंज्ञं भवति । अध्यस्यां मामकी तनू (पैप्पलादसंहिता 6.6.8) - मामक्यां तन्वाम् इति प्राप्ते, मामक्याम् मामकी इति, तन्वाम् तनू इति । सोमो गौरी अधि श्रितः (ऋग्वेदः 9.12.3) । ईदूतौ इति किम् ? प्रियः सूर्ये प्रियो अग्ना भवाति (ऋग्वेदः 5.37.5) । अग्निशब्दात् परस्याः सप्तम्याः डादेशः । सप्तमीग्रहणं किम् ? धीती, मती, सुष्टुती - धीत्या, मत्या, सुष्टुत्या इति प्राप्ते । अर्थग्रहणं किम् ? वाप्यश्वः । नद्यातिः । तपरकरणम् असन्देहार्थम् ।

ईदूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत् । पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ॥ 1 ॥
वचनाद्यत्र दीर्घत्वं तत्र अपि सरसी यदि । ज्ञापकं स्यात् तदन्त्तत्वे मा वा पूर्वपदस्य भूत् ॥ 2 ॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
शाकल्यस्येताविति निवृतमिति । अस्वरितत्वात् । इह चश्ब्देन प्रत्नेन प्रकृतमनुकृष्यते, तत्र संज्ञाया अननुवृतौ विधेयं नास्तीति सैवानुकृष्यते । मामक्यां तन्वामिति प्राप्त इति । सप्तम्यर्थं दर्शयति । मामकीतनूशब्दौ शुपां सुलुक्" इति लुप्तसप्तमीकौ । मामकी इति, तनू इतीति । कार्योदाहरणे । गौरी अधिश्रित इति तु संहितापाठेऽपि कार्योदाहरणमिति । स एव तत्र दर्शतः । अग्ना भवातीति । रूपप्रत्युदाहरणम्, कार्यं तु पदकाले । धीतीत्यादि । धीति-मति-सुष्टुअतिशब्देभ्यः परस्य तृतीयेकवचनस्य पूर्वसवर्ण ईकारः, तद्दर्शयतिधीत्या, मत्येत्यादिना । वाप्यश्वः, नद्यातिरिति । शंज्ञायाम्" इति सप्तमीसमासः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति, अस्ति ह्यत्रापि सप्तम्यर्थः ? उच्यते; जहत्स्वार्था वृत्तिरिति पक्षे समासस्यैवार्थवत्वात्पूर्वोतरपदयोर्वर्णवदानर्थक्यमिति सप्तम्यर्थो नास्ति । अजहत्स्वार्थायामपि वृतावुपसर्जनपदं न स्वार्थमात्रे पर्यवस्याति; किन्तु तत्संसृष्टे प्रधानार्थे । तत्रार्थग्रहणसामर्थ्याद्यावानर्थो वाक्ये सप्तम्यन्तेनाभिधीयते केवलोऽसंसृष्टरूपस्तसयैव ग्रहणमिति संसृष्टे न भविष्यति । तपरकरणं गुणान्तरभिन्नानां तुल्यकालानां ग्रहणार्थमिति चेत्, न; अभेदकत्वाद् गुणानाम् । भिन्नकालानां प्लुतानां निवृत्यर्थमिति चेत्, न; अनण्त्वादसंभावाच्च । न हि सप्तम्यर्थवृत्ति प्लुतान्तं सम्भवतीत्यत आह-तपरकरणमित्यादि । ईदूतावित्यादि । "ईदूतौ सप्तमी" इत्येवास्तु, ङार्थोऽर्थग्रहणेन । लुप्तेऽर्थग्रहणाद्भवेदिति । असत्यर्थग्रहणे संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधात् सप्तम्या एव संज्ञा स्यात्, ततश्च शोमो गौरी अधिश्रितः" इत्यत्र न स्याल्लुप्तत्वात् । अर्थग्रहणे त्वर्थनिमितेयं संज्ञा, न तु प्रत्ययश्रवणनिमिता । अतः "लुप्तेऽर्थग्रहणाद्भवेत्"। नात्र सप्तमी लुप्यते, पूर्वसवर्णोऽत्र भवति-सुपां सुलुगिति । ततोऽकः सवर्णे दीर्घत्वेन तस्यादिवत्वात् सप्तमीग्रहणेन ग्रहणाद् अस्त्येव सप्तमीति शङ्कतेपूर्वस्य चेदिति । दूषयति-आडाम्भाव इति । यदि ह्यत्र पूर्वसवर्णः स्यात्, दीर्घा देशं बाधित्वाऽऽडामौ स्याताम्, अतो लुगेव युक्तः । तस्मादर्थग्रहणं कर्तव्यम् ? न कर्तव्यम्, यस्मात्सर्वत्रैव लुका भाव्यमिति न क्वचित्सप्तम्यस्ति । उच्यते चेदम्-"तत्र वचनसामर्थ्यात्संज्ञाविधावपि तदन्तविधिर्भविष्यति । नेदं वचनाल्लभ्यम्,यतो वचनाद्यत्र दीर्घत्वं तत्रैव स्याद्-दृतिं न शुष्कं सरसीशयानम् " इति । अत्र हि सरः शब्दात्परस्य ङिशब्दस्य "इयाडियाजीकाराणामुपसङ्ख्यानम्" इतीकारे कृते सप्तम्येव श्रूयते इति तत्रैव स्याद्, न गौरी इत्यादौ । तत्रापि सरसी यदि । तत्रापि सिद्धम्, कथम् ? यदि सरसीशब्दो विद्यते । असंदिग्धे संदिग्धाभधानमेतद्, शास्त्राणि चेत्प्रमाणं स्युरिति यथा । अस्ति च सरसीशब्दः, दक्षिणापथे महान्ति सरांसि शरस्यः" उच्यन्ते । ततश्च सरसीशब्दोऽपि लुप्तसप्तमीक एवेति वचनातदन्तविधिरित्येतदेव स्थितम् । एवं तर्हि-ज्ञापकं स्यातदन्तत्वे । "ईदूदेद्" इत्यत्र चत्वारः पक्षा उपन्यस्ताः, तत्र तदन्तत्वे इत्यनेन तृतीयचतुर्थपक्षावुपलक्षयति । तत्र ज्ञापकं स्याद्-इह प्रगृह्यप्रकरणे प्रत्यलक्षणं न भवतीति; यदि स्यात्, पूर्वोक्तन्यायेन संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेराश्रयणात् लुप्तायामपि सप्तम्यां प्रत्ययलक्षणेन सप्तम्यन्तमिति संज्ञा भविष्यति, किमर्थग्रणेन ? तेन तदन्तत्वे यो दोष उक्तः-प्रत्ययलक्षणेन संज्ञा प्राप्नोति, स न भवतीति संज्ञाविधौ प्रत्ययग्रहणे तदन्तविधेरभावादेव तदन्तपक्षस्तत्र नैव स्थित इत्याह--मा वेति ॥
सिद्धान्तकौमुदी
सप्तम्यर्थे पर्यवसन्नमीदूदन्तं प्रगृह्यं स्यात् । सोमो गौरी अधिश्रितः । मामकी तनू इति । सुपां सुलुक् (कौमुदी-3561) इति सप्तम्या लुक् । अर्थग्रहणं किम् । वृत्तावर्थान्तरोपसङ्क्रान्ते माभूत् । वाप्यामश्वो वाप्यश्वः ॥
ईदूतौ च। `प्रगृह्य`मित्यनुवर्तते। तच्च द्विवचनान्ततया विपरिणम्यते। शब्दस्वरूपस्य विशेष्यत्वात्तदन्तविधिः। `ईदूतौ च सप्तम्या`वित्येव सिद्धेऽर्थग्रहणाद्यत्र सप्तम्या लुकि `यः शिष्यते स लुप्यमानार्थाभिधायी` इति न्यायेन प्रकृतेरेव सप्तम्यर्थे पर्यवसानं तथाविधत्वमीदूदन्तयोर्गम्यते। तथाच सप्तम्यर्थे पर्यवसन्नावीदूदन्तौ शब्दौ प्रगृह्यौ स्त इत्यक्षरार्थः। फलितमाह--सप्तम्यर्थ इत्यादिना। सोमो गौरी इति। गौर्यामित्यर्थः। `सुपां सुलु`गिति सप्तम्या लुक्। प्रगृह्यत्वे प्रकृतिभावान्न यण्। वातप्रमीत्यादिसप्तम्यन्तं तु नात्रोदाहरणम्, तत्र सप्तम्या लुप्तत्वाऽभावेन प्रकृतेः सप्तम्यर्थेऽप्रवृत्तेः। मामकी तनू इति। मामक्यां तन्वामित्यर्थः। `सुपां सुलु`गिति सप्तम्यालुक्। प्रगृह्येभ्यः परत इतिशब्दप्रयोगस्य पदकारैर्नियमितत्वात् पदपाठे `मामकी इति` `तनू इती`त्यत्र प्रगृह्यत्वफलं बोध्यम्। ननु `ईदूतौ च सप्तम्याः` इत्येव सूत्र्यताम्। षट�आ चाऽर्थद्वारा संबन्धो विवक्ष्यतां, ततश्च सप्तम्यर्थे विद्यमानमीदूदन्तमित्यर्थस्यार्थग्रहणं विनैव लाभादर्थग्रहणं किमर्थमिति पृच्छति--अर्थग्रहणं किमिति। कस्म#ऐ प्रयोजनायेत्यर्थः। `कि`मित्यव्ययम्। वृत्ताविति। अर्थग्रहणसामर्थ्याल्लुप्तसप्तम्यर्थमात्रे पर्यवसन्नमित्यर्थो विवक्षितः। ततश्च समासवृत्तौ लुप्तसप्तमीके ईदूदन्तपूर्वपदे सप्तम्यर्थमतिलङ्घ्य उत्तरपदार्थे प्रवृत्ते सति प्रगृह्यसंज्ञा न भवति। मा भूदिति। `माङि लुङ्` सर्वलकारापवादः। वाप्य�आ इति। `वाप्याम्--अ�आ` इति विग्रहे सुप्सुपेति समासे `वाप्य�आ` इति रूपमित्यर्थः। अत्र वाप्यामिति सप्तम्या अधिकरणत्वमवगतं, तच्चाधिकरणकारकं क्रियापेक्षं। तत्र वाप्याम�आओ वर्तत इति क्रियाध्याहारे वर्तमानक्रियायां वाप्या विद्यमानेऽ�ओ लक्षमया प्रवृतिं?त पुरस्कृत्य समासो वक्तव्यः। एवं च समासे लुप्तसप्तमीकस्य वापीशब्दस्य सप्तम्यर्थमतिलङ्घ्य तत्संसृष्टे आधेयभूतेऽ�ओऽपि प्रवृत्तेः सप्तम्यर्थमात्राविश्रान्त्यभावान्न प्रगृह्यत्वमिति भावः।
ईदूतौ च। ईदूताविति किम् ?। `प्रियः सूर्ये प्रियो अग्ना भवाति`। ?ग्निशब्दात्परस्याः सप्तम्याः `सुपां सुलु`गित्यादिना `डा`देशः। पदकारैः प्रगृह्येषु इतिशब्दुप्रयोगस्य नियमितत्वेन इहापि पदकाले इतिशब्दप्रयोगप्रसङ्गः, स चाऽनिष्ट इति बोध्यम्। सप्तमीग्रहणं किम् ?, धीती, मती, सुष्टुती। धीत्या, मत्या, सुष्टुत्या इति प्राप्ते तृतीयैकवचनस्य पूर्वसवर्ण ईकारः। ततः `अकः सवर्णे दीर्घः` इत्येकादेशः। न त्विह `सुपां सुलु`गिति लुक्, ह्रस्वश्रवणापत्तेः। सोमो गौरी इति। `वातप्रमी अत्र` `ययी आसक्त` इत्याद्युदाहरणे सत्यप्यूकारान्तस्य लौकिकोदाहरणाभावादुभयोरपि वेद एवोदाहरणमुक्तम्। मामकी तनू इति। यद्यप्यत्र संहितायां प्रगृह्यप्रयोजनं नास्ति, तथापि `मामकी इति` `तनू इति` पदकाले तदस्त्येव, `स्वायां तनू ॠत्व्येनाधमाना`-मित्यत्र तु संहिताकालेऽप्यस्ति, तथापि `ऋत्यकः` इति पाक्षिकप्रकृतिभावेनाप्येतत्सिद्धं, छन्दसि रूपान्तरस्यापादयितुमशक्यत्वादिति बोध्यम्। सप्तम्या लुगिति। यदि धीत्यादाविव विभक्तेः पूर्वसवर्णे कृते सवर्णदीर्घ एकादेश इति व्याख्यायेत तदा एकादेशं बाधित्वा परत्वादाङ्गत्वात्वाच्च `आण्नद्याः`इत्याट् ङेराम् च स्यादिति भावः। अर्थग्रहणं किमिति। `वाप्य�आ` इत्यत्र यो वापीशब्दः सतु वाप्यधिकरणकद्रव्ये उपसङ्कान्तः। `सोमो गौरी` इत्यत्र गौरीशब्दस्तु सप्तम्यर्थमात्रे पर्यवसन्नः, न तु तदधिकरणकद्रव्ये उपसङ्कान्तः, वृत्त्याभावादिति भेदः।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
इर्दूतौ च सप्तम्यर्थे ।। इर्दूतौ सप्तमीत्येव।।। इर्दूतौ सप्तमीत्येव सिद्धं नार्थोऽर्थग्रहणेन। ।। लुप्तेऽर्थग्रहणाद् भवेत्।। लुप्तायां सप्तम्यां प्रगृह्यसञ्ज्ञा न प्राप्नोति। क्व। सोमो गौरी अधिश्रितः। इष्यते चात्रापि स्यादिति। तच्चान्तरेण यत्नं न सिध्यतीत्येवमर्थमर्थग्रहणम्। नात्र सप्तमी लुप्यते। किं तर्हि। पूर्वसवर्णोऽत्र भवति। ।। पूर्वस्य चेत् सवर्णोऽसावाडाम् भावः प्रसज्यते।। यदि पूर्वसवर्ण आट् आम् भावश्च प्राप्नोति। एवं तर्हि आहायमीदूतौ सप्तमीति। न चास्ति सप्तमी इर्दूतौ। तत्र वचनाद् भविष्यति। ।। वचनाद् यत्र दीर्घत्वम्।। नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत्र सप्तम्या दीर्घत्वमुच्यते। दृतिं न शुष्कं सरसी शयानम् इति। सति प्रयोजने इह न प्राप्नोति। सोमो गौरी अधिश्रित इति । ।। तत्रापि सरसी यदि।। तत्रापि सिद्धम्। कथम्। यदि सरसी शब्दस्य प्रवृत्तिरस्ति। अस्ति च लोके सरसीशब्दस्य प्रवृत्तिः। कथम्। दक्षिणापथे हि महान्ति सरांसि सरस्य इत्युच्यन्ते । ।। ज्ञापकं स्यात् तदन्तत्वे।। एवं तर्हि ज्ञापयत्याचार्यो ‐ ‐ न प्रगृह्यसञ्ज्ञायां प्रत्ययलक्षणं भवतीति। किमेतस्य ज्ञापने प्रयोजनम्। कुमार्योरगारं कुमार्यगारम्। वध्वोरगारं वध्वगारम्। प्रत्ययलक्षणेन प्रगृह्यसञ्ज्ञा न भवति। ।। मा वा पूर्वपदस्य भूत्।। अथवा पूर्वपदस्य मा भूदित्येवमर्थमर्थग्रहणम्। वाप्यमश्वो वाप्यश्वः। नद्यमातिर्नद्यातिः । अथ क्रियमाणेऽप्यर्थग्रहणे कस्मादेवात्र न भवति। जहत्स्वार्था वृत्तिरिति। अथाजहत्स्वार्थायां वृत्तौ दोष एव। अजहत्स्वार्थायां च न दोषः। समुदायार्थोऽभिधीयते। इर्दूतौ सप्तमीत्येव लुप्तेऽर्थग्रहणाद् भवेत्। पूर्वस्य चेत् सवर्णोऽसावाडाम्भावः प्रसज्यते ।। 1 ।। वचनाद् यत्र दीर्घत्वं तत्रापि सरसी यदि। ज्ञापकं स्यात् तदन्तत्वे मा वा पूर्वपदस्य भूत् ।। 2 ।।