॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|17
SK 106
1|1|17
उञः   🔊
SK 106
सूत्रच्छेद:
उञः - षष्ठ्येकवचनम्
अनुवृत्ति:
शाकल्यस्य  [1|1|16] - षष्ठ्येकवचनम् , इतौ  [1|1|16] - सप्तम्येकवचनम् , अनार्षे  [1|1|16] - सप्तम्येकवचनम् , प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
उञ: अनार्षे इतौ प्रगृह्यम् शाकल्यस्य
सूत्रार्थ:
शाकल्यमुनेः मतेन (इत्युक्ते विकल्पेन) "उञ्" इति निपातः अनार्षे "इति" शब्दे परे प्रगृह्यसंज्ञकः भवति ।
"उञ्" इति कश्चन निपातः । चादयोऽसत्वे 1|4|57 अनेन सूत्रेण निर्दिष्टे "चादिगणे" अयं शब्दः वर्तते । प्राग्रीश्वरान्निपाताः 1|4|56 अनेन अस्य निपातसंज्ञा भवति । अस्य निपातस्य निपात एकाजनाङ् 1|1|14 इत्यनेन नित्यरूपेण प्रगृह्यसंज्ञायां प्राप्तायाम् अवैदिके "इति" शब्दे परे अनेन सूत्रेण सा विकल्प्यते - इत्युक्ते, विकल्पेनैव प्रगृह्यसंज्ञा भवति । प्रगृह्यसंज्ञायाः अभावात् इको यणचि 6|1|77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ।

यथा - उ इति → उ इति / विति ।

ज्ञातव्यम् - उञ्-इत्यत्र ञकारस्य इत्संज्ञा लोपः भवति, अतः दृश्यरूपेण "उ" इत्येव अवशिष्यते ।
One-line meaning in English
According to the शाकल्यमुनि, the निपात "उञ्" when followed by the word "इति" gets the term "प्रगृह्य" optionally.
काशिकावृत्तिः
शाकल्यस्यैतावनार्षे इति वर्तते । उञः प्रगृह्यसंज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन । शाकल्यस्य इति विभाषार्थम् । उ इति, विति ॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
यद्ययमेको योगः स्याद् "अञ Äष्" इति यथापठितं सूत्रकारेण, ततः "उञः" इत्यस्य श्रुतेनादेशेन सम्बन्धः स्याद्, न प्रगृह्यसंज्ञया; सा तु "निपात एकाजनाङ्" इति नित्यैव स्यात्, शाकल्यश्रुत्यनुवृत्या चादेशे विकल्पिते रूपद्वयमेव स्याद्- उ इति, Äष् इतीति; न तु वितीति तृतीय । अतो विभज्य व्याचष्टे । तत्र यद्यपि पूर्वसूत्रेषु सामानाधिकरण्येन निर्देशात्प्रदेशेष्विव प्रगृह्यशब्दो द्विवचनाद्यभिधेयः, तथापीह षष्ठीनिर्देअषात्स्वरूपपदार्थकः सम्पद्यते । अत एवाह--उञः प्रगृह्यसंज्ञा भवतीति । प्रगृह्यमित्येषा संज्ञा भवतीत्यर्थः । पुर्वत्र तु द्विवचनं प्रगृह्यसंज्ञं भवतीत्युक्तम्, अनेन च प्रगृह्यसंज्ञाया एव विकल्पनाद्- उ इति, वितीति साधितं रूपद्वयम् ॥
सिद्धान्तकौमुदी
उञ इतौ वा प्रागुक्तम् । उ इति । विति ॥
उञः। एकपदं सूत्रम्। शाकल्यस्य इतौ प्रगृह्यमिति चानुवर्तते। उ इति। ञिदुकारो निपातः। तस्येतिशब्दे परे शाकल्यमते प्रगृह्यसंज्ञा स्यादित्यर्थः। तदाह उञ इतौ वैति। पूर्वोक्तं=प्रगृह्यत्वमित्यर्थः। उ इति। वितीति। `निपात एका`जिति नित्यं प्राप्ते विकल्पोऽयम्। प्रगृह्यत्वपक्षे प्रकृतिभावे प्रथमं रूपम्। तदभावपक्षे यणादेशे द्वितीयं रूपम्।
उञः। `निपात एका`जिति नित्यं प्राप्ते विभाषेयम्। साक्स्यस्येतौ प्रगृह्यमिति चात्रानुवरत्ते, इत्यत आह--इतौ वा प्रागुक्तमिति। इह `उञ ऊँ` इत्येकमेव सूत्रं योगविभागेन व्याख्यातम्। एकसूत्रत्वे तु उञ इतौ ऊँ शाक्लयस्येत्यर्थात् `ऊँइति ` इत्येव रूपं शाकल्यमते सिध्यति। अन्येषां तु मते नित्यं प्रगृह्य इति उ-इतीत्येव रूपं सिध्यति, `विती`ति रूपं तु न सिध्यत्येवेति ज्ञेयम्।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
18 उञ्ञ ऊँ इह कस्मान्नं भवति आहो। उताहो इति । उञ्ञ इत्युच्यते। न चात्रोञ्ञं पश्यामः । उञ्ञोऽयमन्येन सहैकादेश उञ्ञ्ग्रहणेन गृह्यते । आचार्यप्रवृत्तिर्ज्ञापयति नोञ्ञ एकादेश उञ्ञ्ग्रहणेन गृह्यते इति। यदयमोदिति ओदन्तस्य निपातस्य प्रगृह्यसञ्ञ्ज्ञां शास्ति । नैतदस्ति ज्ञापकम्। उक्तमेतत्- प्रतिषिद्धार्थोऽयमारम्भ इति। दोषः खल्वपि स्याद् यद्युञ्ञ एकादेश उञ्ञ् ग्रहणेन न गृह्येत। जानु उ अस्य रुजति-जानू अस्य रूजति, जान्वस्य रुजति। मय उञ्ञो वो वेति वत्वं न स्यात्। एवं तर्ह्येकनिपाता इमे। अथवा द्वावुकाराविमौ। एकोऽननुबन्धकः। अपरः सानुबन्धकः। तद्योऽननुबन्धकस्तस्यैष एकादेशः। ।। उञ्ञ इति योगविभागः।। उञ्ञ इति योगविभागः कर्तव्यः। उञ्ञः शाकल्यस्याचार्यस्य मतेन प्रगृह्यसञ्ज्ञा भवति। उ इति। विति। ततः ऊँ। ऊँ इत्ययमादेशो भवति शाकल्यस्याचार्यस्य मतेन दीर्घोऽनुनासिकः प्रगृह्यसञ्ञ्ज्ञकश्च। ऊँ इति। किमर्थो योगविभागः। ऊँ वा शाकल्यस्य। शाकल्यस्याचार्यस्य मतेन ऊँ विभाषां यथा स्यात्। ऊँ इति, उ इति। अन्येषामाचार्याणां मतेनविति।