॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|16
SK 105
1|1|16
सम्बुद्धौ शाकल्यस्येतावनार्षे   🔊
SK 105
सूत्रच्छेद:
सम्बुद्धौ - सप्तम्येकवचनम् , शाकल्यस्य - षष्ठ्येकवचनम् , इतौ - सप्तम्येकवचनम् , अनार्षे - सप्तम्येकवचनम्
अनुवृत्ति:
ओत्  [1|1|15] - प्रथमैकवचनम् ,  प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
सम्बुद्धौ ओत् अनार्षे इतौ प्रगृह्यम् - शाकल्यस्य
सूत्रार्थ:
सम्बोधन-एकवचनस्य ओकारः अवैदिके "इति" शब्दे परे शाकल्यस्य मतेन (इत्युक्ते, विकल्पेन) प्रगृह्यसंज्ञकः भवति ।
"सम्बोधनैकवचनस्य ओकारः" इत्युक्ते सम्बोधनैकवचनस्य ओकारान्तरूपाणाम् ओकारः । यथा - साधो, धेनो आदयः ।

"अवैदिकः इति-शब्दः" इत्युक्ते सः "इति" शब्द यः लौकिकसंस्कृतेषु प्रयुज्यते । यदि सम्बोधनैकवचनस्य ओकारात् परः एतादृशः इति-शब्दः आगच्छति, तर्हि शाकल्यमुनेः मतेन सः ओकारः प्रगृह्यसंज्ञां प्राप्नोति । (शाकल्यमुनेः मतेन इत्युक्ते विकल्पेन । "केवलं शाकल्यस्य मतेन, पाणिनेः मतेन न" इति अस्य अर्थः नास्ति ।)

अतः "विष्णो इति" इत्यत्र अनेन सूत्रेण ओकारस्य विकल्पेन प्रगृह्यसंज्ञां प्राप्तायाम् प्रकृतिभावः दृश्यते ।

यदि अत्र प्रकृतिभावं न कुर्मश्चेत् "विष्णविति / विष्ण इति" इति द्वेधा सन्धिं कर्तुं शक्यते ।

ज्ञातव्यम् - वेदानां सन्दर्भे तु ओकारस्य शाकल्यमतेन अपि प्रगृह्यत्वम् नास्ति । यथा - "ब्रह्मबन्धो इति" , "अध्वर्यो इति" एतयोः वाक्ययोः ओकारस्य प्रगृह्यसंज्ञा न भवति, अतः अग्रे सन्धिः अपि कर्तुं शक्यते - ब्रह्मबन्धविति, अध्वर्यविति ।
One-line meaning in English
The ओकार at end of सम्बोधन-एकवचन optionally gets the term प्रगृह्य when followed by the word "इति" in non-vedic context.
काशिकावृत्तिः
ओतिति वर्तते । सम्बुद्धिनिमित्तो य ओकारः स शाकल्यस्य आचार्यस्य् मतेन प्रगृह्यसंज्ञो भवति, इतिशब्दे अनार्षे अवैदिके परतः । वायो इति, वायविति ; भानो इति, भानविति । सम्बुद्धौ इति किम् ? गवित्ययमाह । अत्र अनुकार्यानुकरणयोः भेदस्य अविवक्षितत्वात्, असत्यर्थवत्त्वे विभक्तिर्न भवति । शाकल्यग्रहणं विभाषार्थम् । इतौ इति किम् ? वायोऽत्र । अनार्षे इति किम् ? एता गा ब्रहमबन्ध इत्यब्रवीत् (काठकसंहिता 10.6) ॥
`सम्बुद्धिनिमित्तः` इति। सम्बुद्धिर्निमित्तं यस्य स तथोक्तः। एतेन `सम्बुद्धौ` इत्यस्य निमित्तसप्तमीत्वं दर्शयति। परसप्तम्यां त्वस्याम् `हे त्रपो`इत्यत्र न स्यात्, `स्वमोर्नपुंसकात्` 7|1|23 इति सम्बुद्धेर्लुप्तत्वादिति भावः। `सम्बुद्धौ च` 7|3|106 इति वत्र्तमाने `ह्यस्वस्य गुणः` 7|3|108 इत्यनेन यो गुणो विधीयते, स सम्बुद्धिनिमित्तः, तस्य सम्बुद्धिनिमित्तत्वमुपादाय विहितत्वात्। `गवित्ययमाह` इति। केनचिद् गौरिति वक्तव्ये शक्तिवैकल्याद् `गो` इत्युक्तम्, तमन्यो यदानुकरोति, तत्रैतत् प्रत्युदाहरणम्। ननु चानुकार्येणार्थेनार्थवत्त्वात् प्रतिपदिकत्वे सति विभक्त्यात्र भवितव्यमित्यत आह- `अत्र` इत्यादि। अत्रानुक्रियमाणस्यानुकरणस्य यदि भेदो विवक्ष्यते, ततोऽर्थवत्तायां सत्यां स्याद्विभक्तिः, स तु न विवक्ष्यत इति कुतस्तस्याः प्रसङ्गः? न हीह शब्दशास्त्रे वस्तुनः सत्तैव शब्-संस्कारस्य प्रधानं कारणम्, किं तर्हि, विवक्षा च। सा चेह नास्ति। `शाकल्यग्रहणं विभाषार्थम्` इति। एतेन पूजार्थताशङ्कां निरस्यति। यदि हि पूजार्थमेव तत् स्यात्, विकल्पो न भवेदिति भावः॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे । विष्णो इति । विष्ण इति । विष्णविति । आनर्ष इति किम् । ब्रह्मबन्धवित्यब्रवीत् ॥
संबुद्धौ शाकल्यस्येति। सम्बुद्धाविति निमित्तसप्तमी, ओदित्यनुवृत्तेन सहाऽन्वेति। `प्रगृह्य`मित्यनुवर्तते, स च पुँल्लिङ्गतया विपरिणम्यते। ऋषिः=वेदः। `तदुक्तमृषिणे`त्यादौ तथा दर्शनात्। ऋषौ भवः--आर्षः, न आर्षः-अनार्षः। अवैदिके इतिशब्दे परत इत्यर्थः। शाकल्यग्रहणाद्विकल्पस्तदाह--संबुद्धिनिमित्तक इति। विष्णो इतीति। अत्र ओकारो `ह्रस्वस्य गुण` इति सम्बुद्धिनिमित्तकः। अत्र ओदन्तत्वेऽपि निपातत्वाऽभावादप्राप्ते विभाषेयम्। `विष्ण`वितीति प्रगृह्यत्वाऽभावे रूपम्।
संबुद्धौ। ऋषिर्वेदः `तदुक्तमृषिणा` इत्यादौ तथा दर्शनादित्याभिप्रेत्याह-अवैदिक इति। संबुद्धौ किम् ?। अहो इति। अत्र परत्वाद्विकल्पो मा भूत्। न च `ओ`दिति सूत्रस्य निरवकाशत्वं शङ्क्यम् , `अहो ईशा` इत्यादौ तस्य सावकाशत्वात्। इताविति किम् ?। पटोऽत्र।
लघुसिद्धान्तकौमुदी
सम्बुद्धिनिमित्तक ओकारो वा प्रगृह्योऽवैदिके इतौ परे। विष्णो इति, विष्ण इति, विष्णविति॥
महाभाष्यम्
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!