Page loading... Please wait.
1|1|15 - ओत्
॥ तस्मै पाणिनये नम: ॥
1|1|15
SK 104
ओत्   🔊
सूत्रच्छेद:
ओत् - प्रथमैकवचनम्
अनुवृत्ति:
निपातः  [1|1|14] - प्रथमैकवचनम् ,  प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
ओत् निपात: प्रगृह्यम्
सूत्रार्थ:
ओकारान्तनिपाताः प्रगृह्यसंज्ञकाः सन्ति ।
"निपात" इति संज्ञा प्राग्रीश्वरान्निपाताः 1|4|56 अनेन सूत्रेण पाठ्यते । प्राग्रीश्वरान्निपाताः 1|4|56 अस्मात् सूत्रात् अधिरीश्वरे 1|4|97 इति यावत् पाठिताः शब्दाः निपातसंज्ञकाः सन्ति । यथा - च, प्र, नमस् आदयः ।

एतेषु पाठिताः ओकारान्तनिपाताः एते - ओ, अहो, हो, आहो, उताहो, नो, अथो । एते सर्वे वर्तमानसूत्रेण प्रगृह्यसंज्ञां स्वीकुर्वन्ति ।

यथा - अहो ईशाः । नो इदानीम्। अथो इति । एतेषु उदाहरणेषु प्रगृह्यत्वात् अच्सन्धिः न भवति ।
One-line meaning in English
All ओकारान्त निपातs are called प्रगृह्य.
काशिकावृत्तिः
निपातः इति वर्तते । तस्यौकारेण तदन्तविधिः । ओदन्तो यो निपातः स प्रगृह्यसंज्ञो भवति । आहो इति, उताहो इति ॥
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
Text Unavailable. If you can help in fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
सिद्धान्तकौमुदी
ओदन्तो निपातः प्रगृह्यः स्यात् । अहो ईशाः ॥
Text Unavailable. If you can help fixing this issue by providing this text, please let us know using the feedback link at the bottom of this page. Thank you!
ओत्। निपात इति किम् ?। देवोऽसि, वायवायाहि।
लघुसिद्धान्तकौमुदी
ओदन्तो निपातः प्रगृह्यः स्यात्। अहो ईशाः॥
महाभाष्यम्
ओत् किमुदाहरणम् ? आहो इति। उताहो इति । नैतदस्ति प्रयोजनम्। निपातसमाहारोऽयम्। आह उ आहो इति। उत आह उ उताहो इति। तत्र निपात एकाजनाङ् इत्येव सिद्धम् । एवं तर्ह्येकनिपाता इमे। अथवा प्रतिषिद्धार्थोऽयमारम्भः। ओ षु यातं मरुतः, ओ षु यातं बृहती शक्वरी च। ओ चित्सखायं सख्या ववृत्त्याम् । ।। ओतश्च्वि प्रतिषेधः।। ओदन्तो निपात इत्यत्र च्व्यन्तस्य प्रतिषेधो वक्तव्यः। अनदः अदः अभवत् अदोऽभवत्। तिरोऽभवत् । न वक्तव्यः। लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्येत्येवं न भविष्यति । एवमपि अगौः गौः समपद्यत गोऽभवत्। अत्र प्राप्नोति । एवं तर्हि गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्यय इति। तद्यथा गौरनुबन्ध्योऽजोऽग्नीषोमीयः इति न वाहीकोनुबध्यते । कथं तर्हि वाहीके वृद्ध्यात्वे भवतः। गौस्तिष्ठति। गामानयेति । अर्थाश्रय एतदेवं भवति। यद्धि शब्दाश्रयं शब्दमात्रे तद् भवति। शब्दाश्रये च वृद्ध्यात्वे ।