॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|13
SK 102
1|1|13
शे   🔊
SK 102
सूत्रच्छेद:
शे (लुप्तप्रथमान्तनिर्देश:)
अनुवृत्ति:
प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
शे प्रगृह्यम्
सूत्रार्थ:
शे-इत्यस्य एकारः प्रगृह्यसंज्ञकः भवति ।
"शे" नाम किम्? सुप्-प्रत्ययानाम् केवलं वेदेषु "शे" इति आदेशः कुत्रचित् दृश्यते । सुपां सुलुक्पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः 7|1|39 अनेन सूत्रेण अयं आदेशः दीयते । अस्मिन् आदेशे शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा भवति, ततः तस्य लोपः 1|3|9 इत्यनेन तस्य लोपः अपि भवति । अतः केवलं "ए" इत्यवशिष्यते । तस्य प्रगृह्यसंज्ञा भवति ।

यथा - अस्मद् + भ्यस् (चतुर्थीबहुवचनस्य प्रत्ययः)
→ अस्मद् + शे [सुपां सुलुक्... 7|1|39 इति भ्यस्-इत्यस्य शे-आदेशः]
→ अस्मद् + ए [ शकारस्य लशक्वतद्धिते 1|3|8 इत्यनेन इत्संज्ञा, तस्य लोपः 1|3|9 इत्यनेन तस्य लोपः ।]
→ अस्म + ए [शेषे लोपः 7|2|90 इति अस्मद्-शब्दस्य "द्" इत्यस्य लोपः]
→ अस्मे [अतो गुणे 6|1|97 ] इति पररूप-एकादेशः एकारः]

अयं अस्मे-शब्दः प्रगृह्यः अस्ति । यथा - "अस्मे इन्द्राबृहस्पती" - इत्यत्र सन्धिः न भवति ।
One-line meaning in English
The एकार of शे gets the term प्रगृह्य.
काशिकावृत्तिः
शे इत्येतत् प्रगृह्यसंज्ञं भवति । किमिदं शे इति ? सुपाम् आदेशश् छन्दसि । न युष्मे वाजबन्धवः (ऋग्वेदः 8.68.19), अस्मे इन्द्राबृहस्पती (ऋग्वेदः 4.49.4), युष्मे इति, अस्मे इति, त्वे रायः, मे रायः, त्वे इति, मे इति । छान्दसम् एतदेवैकम् उदाहरणम् - अस्मे इन्द्राबृहस्पती इति । तत्र तथा पाठात् । इतरत् तु लौकिकम् अनुकरणम् - युष्मे इति, अस्मे इति, त्वे इति, मे इति ॥
`शे` इति। शेश्रुतेरविशिष्टत्वात् काशे कुशे इत्यत्र यः शेशब्दस्तस्यापि ग्रहणं प्राप्नोति, अतो विशेषो वक्तव्य इत्यभिप्रायेणाह- `किमिदं शे` इति। `सुपाम्ित्यादि। यस्तु काशकुशशब्दाभ्यां सप्तम्येकवचने च कृते आद्गुणे 6|1|84 च शेशब्दः सम्पद्यते, तस्येह ग्रहणं न भवति; लाक्षमिकत्वादिति भावः। `युष्मे, अस्मे` इति।षष्ठीबहुवचनस्य `सुपां सुलुक्` 7|1|39 इत्यादिना शेशब्दादेशः, `शेषे लोपः` 7|2|90 अथ वा- प्रथमाबहुवचनस्यैव शेभावः, छान्दसत्वात् `यूयवयौ जसि` 7|2|93 इत्येतन्न प्रवर्तते। `त्वे इति, मे इति`। सप्तम्येकवचनस्य पञ्चम्येकवचनस्य च शेभावः। `त्वमा-वेकवचने` 7|2|97 इति युष्मदस्मदोस्त्वमावादेशौ। `इतरत् तु लौकिकमनुकरणम्` इति।यदा `युष्मे इति` एवमादिकं तदा लौकिकमनुकरणमिति भावः। यदा `युष्मे`, `अस्मे` इत्याददीनां वेदवाक्यस्थानामर्थाद्वयवच्छिद्य स्वरूपेऽवस्थानार्थं पदकारैरितिकरणोऽध्या-ह्यियते, तदा `युष्मे इति`, `अस्मे इति` एवमादिकमुदाहरणमिति भवति। इतरत् तु लौकिकमनुकरणमित्युक्ते `न युष्मे वाजबन्धवः` (ऋ।8।69।19), `त्वे रायः` (तै।सं।1.2.5।2), `मे रायः` (वा।सं।4।22) इत्येतेष्वपि वेदवाक्येषु यत् `युष्मे` इत्यादिशेशब्दान्तं शब्दरूपम्, तत् स्वरूपेण दर्शयितुमाह- `युष्मे इति, अस्मे इति, त्वे इति, मे इति`।यद्येववं किमर्थं `न युष्मे वाजबन्धवः` )ऋ 8।69।19) इत्यादीनामुपन्यासः? एषु वेदवाक्येषु ये `युष्मे` इत्यादयः शब्दाः, तेषामेतान्यनुकरणनीति प्रदर्शनार्थः; अन्यथाहि ज्ञायते कस्यैतान्यतनुकरणनीति॥
"शे" इति श्रुतेरविशेषात् "काशे","कुशे" इत्यत्रापि प्रसङ्ग इति मत्वा पृच्छति--किमिदमिति । सुपामादेश इति । काशे तैत्यत्र तु लाक्षणिकत्वादग्रहणमिति भावः । युष्म इति । षष्ठीबहुवचनस्य "सुपां सुलुक्" इत्यादिना शे आदेशः,"शेषे लोपः" । अस्मे इति । चतुर्थीबहुवचनस्य शे । त्वे मे इति । सप्तम्येकवचनस्य त्वमावेकवचने । असमे इन्द्राबृहस्पती इति । छान्दसमुदाहरणमित्युक्त्वा, इतरतु लोकिकमनुकरणमित्युक्तेन युष्मे वाजबन्धवः, त्वे रायः, मे राय इत्येषामप्यनुकरणत्वमुक्तं स्याद् । अतो यदत्रेतरदिति विवक्षितं तत्स्वरूपेण पठति । युष्मे इतीत्यादि । लौकिकमनुकरणमित्यनेन च सूत्रस्यावश्यारभ्यात्वं दर्शंयति । "अस्मे इन्द्राबृहस्पती" इत्यादि छान्दसत्वादपि सिद्ध्येत् । इदं तु पदकारैरिति परं प्रयुज्यमानं लौकिकम्, अतो न छान्दसत्वात्सिद्धिरिति ॥
सिद्धान्तकौमुदी
अयं प्रगृह्यः स्यात् । अस्मे इन्द्राबृहस्पती ॥
शे। एकपदं सूत्रम्। `प्रगृह्य`मित्यनुवर्तते। छन्दसीत्यनुवृत्तौ `सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड�आयाजालः` इति विहितः `शे` इत्येकारान्त आदेशः प्रगृह्यः स्यादित्यर्थः। तदाह--अयमिति। `शे` आदेशे इत्यर्थः। अस्मे इति। अस्मभ्यमित्यर्थः। भ्यसः शे-आदेशः, `लशक्वतद्धिते` इति शकार इत्। `शेषे लोपः`। अस्मे इति रूपम्। अद्विवचनत्वादप्राप्तौ वचनम्। यद्यपि छान्दसमिदं बैदिकप्रक्रियायामेव निबन्ध्यं, तथापि `अस्मे इति` `त्वे इति` इत्याद्यवग्रहे लोकार्थत्वस्यापि सत्त्वादिह तन्निबन्धनम् , पदपाठस्याधुनिकत्वात्।
शे इति। छान्दसमपीदं सन्दर्भशुध्द्यर्थमुक्तामित्याहुः। अस्मे इति। अस्मभ्यमित्यर्थः। `सुपां सुलु`गिति भ्यसः शेआदेशः। `शेषे लोपः`।
लघुसिद्धान्तकौमुदी
-
महाभाष्यम्
शे इह कस्मान्न भवति काशे कुशे वंशे इति ? ।। शेऽर्थवद्ग्रहणात्।। अर्थवतः शे शब्दस्य ग्रहणम्। न चैषोऽर्थवान् । एवमपि हरिशे बभ्रुशे इत्यत्रापि प्राप्नोति । एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति। अथवा पुनरस्तु अर्थवद्ग्रहणे नानर्थकस्येति। कथं तर्हि- हरिशे बभ्रूशे इति। एकोऽत्र विभक्त्यर्थेनार्थवान्। अपरस्तद्धितार्थेन। समुदायोऽनर्थकः ।