॥ तस्मै पाणिनये नम: ॥
Page loading... Please wait.
1|1|12
SK 101
1|1|12
अदसो मात्   🔊
SK 101
सूत्रच्छेद:
अदसः - षष्ठ्येकवचनम् , मात् - पञ्चम्येकवचनम्
अनुवृत्ति:
ईत्-ऊत्-एत्  [1|1|11] - प्रथमैकवचनम् , प्रगृह्यम्  [1|1|11] - प्रथमैकवचनम्
अधिकार:
-
सम्पूर्णसूत्रम्
अदसः मात् ईत्-ऊत्-एत् प्रगृह्यम्
सूत्रार्थ:
अदस्-शब्दस्य तानि रूपाणि येषु शब्दस्य अन्ते मकारात् परः ईकारः / ऊकारः / एकारः अस्ति, प्रगृह्यसंज्ञकानि सन्ति ।
अदस्-शब्दस्य मीकारान्त/मूकारान्त/मेकारान्तरूपाणि अनेन सूत्रेण प्रगृह्यसंज्ञां प्राप्नुवन्ति । एतानि रूपाणि एतादृशानि -

अदस् (पुँ) - अमू (प्रथमा/द्वितीया-द्विवचनम्) , अमी (प्रथमाबहुवचनम्)
अदस् (स्त्री) - अमू (प्रथमा/द्वितीया-द्विवचनम्)
अदस् (नपुँ) - अमू (प्रथमा/द्वितीया-द्विवचनम्)

एतेषां सर्वेषाम् प्रगृह्यसंज्ञा भवति । इत्युक्ते, अदस्-शब्दस्य "अमी" तथा "अमू" एतयोः रूपयोः प्रगृह्यसंज्ञा भवति ।

यथा - "अमी आसते", "अमू आसाते" - इत्यत्र "अमी" तथा "अमू" एतयोः प्रगृह्यत्वात् इको यणचि 6|1|77 इति यणादेशः न भवति ।

अत्र एकः विशेषः ज्ञातव्यः । अदस्-शब्दस्य "अमू" इति रूपम् द्विवचनस्य अस्ति । अतः ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 अनेनैव सूत्रेण तस्य प्रगृह्यसंज्ञा भवितुम् अर्हति । परन्तु अदस्-शब्दस्य पुँल्लिङ्गस्य "अमू" रूपस्य विषये ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्सस्य प्रसक्तिः असिद्धत्वात् न भवति, अतः अदस्-शब्दस्य पुँल्लिङ्गस्य "अमू" रूपस्य विषये तु वर्तमानसूत्रेणैव प्रगृह्यसंज्ञा क्रियते । प्रक्रियां पश्यामश्चेत् स्पष्टं स्यात् -

अदस् (पुँ) + औ [प्रथमाद्विवचनस्य प्रत्ययः]
→ अद अ + औ [त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अदौ [वृद्धिरेचि 6|1|88 इति वृद्धि-एकादेशः]
→ अमू [अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य औकारस्य ऊकारः, तथा दकारस्य मकारः]

अत्र अग्रे अमू-शब्दस्य ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा न भवति, यतः अदसोऽसेर्दादु दो मः 8|2|80 एतत् सूत्रम् ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यस्य कृते असिद्धम् अस्ति । अतः ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन केवलं "अदौ" इति रूपं दृश्यते, यस्य अन्ते ईकार-ऊकार-एकारः नास्ति । अतः ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 अनेन सूत्रेण पुँल्लिङ्गस्य "अमू" इत्यस्य प्रगृह्यसंज्ञा भवितुं न अर्हति ।

तर्हि स्त्रीलिङ्ग-नपुँसकलिङ्गरुपयोः विषये किम् भवति? पुनः प्रक्रियाम् अनुसृत्य जानीमः -

अदस् (स्त्री) + औ
→ अद अ +औ [त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अद + टाप् + औ [स्त्रीत्वस्य विवक्षायाम् अजाद्यतष्टाप् 4|1|4 इति टाप्-प्रत्ययः]
→ अदा + औ [अकः सवर्णे दीर्घः 6|1|101 इति सवर्णदीर्घः]
→ अदा + शी [औङः आपः 7|1|18 इति औ-प्रत्ययस्य शी-आदेशः]
→ अदा + ई [लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ अदे [आद्गुणः 6|1|87 इति गुणादेशः]
→ अमू [अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य एकारस्य ऊकारः, तथा दकारस्य मकारः]

अत्रापि अमू-शब्दस्य ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा न भवितुम् अर्हति, यतः अदसोऽसेर्दादु दो मः 8|2|80 एतत् सूत्रम् ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यस्य कृते असिद्धम् अस्ति । परन्तु, अस्मात् सोपानात् पूर्वमेव "अदे" इत्यत्र ईदूदेद् द्विवचनं प्रगृह्यम् 1|1|11 इत्यनेन प्रगृह्यसंज्ञा भवितुं अर्हति । एकवारं प्रगृह्यसंज्ञा भवति चेत् अग्रे तस्याः नाशः न जायते । अतः अमू-शब्दस्य अपि अग्रे प्रगृह्यसंज्ञा भवति ।

एवमेव नपुँसकलिङ्गस्य विषये अपि -

अदस् (नपुँ) + औ
→ अद अ +औ [त्यदादीनामः 7|2|102 इति सकारस्य अकारः]
→ अद + औ [अतो गुणे 6|1|97 इति पररूप-एकादेशः अकारः]
→ अद + शी [नपुँसकाच्च 7|1|19 इति औ-प्रत्ययस्य शी-आदेशः]
→ अदा + ई [लशक्वतद्धिते 1|3|8 इति शकारस्य इत्संज्ञा । तस्य लोपः 1|3|9 इति लोपः]
→ अदे [आद्गुणः 6|1|87 इति गुणादेशः]
→ अमू [अदसोऽसेर्दादु दो मः 8|2|80 इत्यनेन दकारात् परस्य एकारस्य ऊकारः, तथा दकारस्य मकारः]

अत्रापि अदे-शब्दस्य प्रगृह्यसंज्ञा भवति, अतः अमू-शब्दस्यापि प्रगृह्यसंज्ञा भवति ।

अतः वर्तमानसूत्रेण केवलम् पुँल्लिङ्गस्य "अमू" तथा "अमी" एतयोः एव प्रगृह्यसंज्ञा क्रियते ।

ज्ञातव्यम् - अस्मिन् सूत्रे "अदस्" इत्यनेन "अदकस्" इति सर्वनामशब्दः अपि स्वीक्रियते । "अदकस्" इति अदस्-शब्दस्य अकच्-प्रत्ययान्तरूपम् । अव्ययसर्वनाम्नाम् अकच् प्राक्टेः 5|3|71 इत्यनेन अदस्-शब्दस्य कश्चन "अकच्" इति प्रत्ययः अपि भवितुम् अर्हति । अयम् "अकच्"-प्रत्ययः स्वार्थिकः अस्ति, इत्युक्ते अस्य प्रयोगेन अदस्-शब्दस्य अर्थपरिवर्तनं न भवति । तथा च, अयम् प्रत्ययः अदस्-शब्दस्य अन्ते न आगच्छति, अपितु टि-संज्ञकात् पूर्वम् आगच्छति । यथा - अदस् + अकच् → अद् + अकच् + अस् → अदकस् । तन्मध्यपतिताः तद्ग्रहणेन गृह्यन्ते अनया परिभाषया शब्दस्य मध्ये यः पतति सः शब्दस्यैव अंशः भवति । अतः अत्र "अदकस्" शब्दः अपि "अदस्" इत्येतावत् एवं कार्यं करोति । अतः अत्र अदकस्-शब्दः अपि गृह्यते । अतएव "मात्" इत्यस्य ग्रहणम् अस्मिन् सूत्रे आवश्यकम् अस्ति - अदकस्-शब्दस्य "अमुके" इति रूपम् एकारान्तम् वर्तते, तस्य अत्र प्रगृह्यसंज्ञा नेष्यते, यत् "मात्" ग्रहणेन निर्दिश्यते ।
One-line meaning in English
All those forms of अदस् word which end in मी / मू / मे are known as "प्रगृह्य".
काशिकावृत्तिः
अदसः सम्बन्धी यो मकारस्तस्मात्पर ईदूदेतः प्रगृह्यसंज्ञा भवन्ति । अमी अत्र, अमी आसते ; अमू अत्र, अमू आसाते । एकारस्य नास्त्युदाहरणम् । अदस इति किम् ? शम्यत्र, दाडिम्यत्र । मादिति किम् ? अमुकेऽत्र ॥
`अदसः सम्बन्धी यो मकारः` इति। अवयनवावयविभावलक्षणेन सम्बन्धेन षष्ठी।`अमी अत्र` इति अदस्शब्दात् परस्य जसः शी 7|1|17 त्यदाद्यत्वम् 7|1|102 ,अतो गुणो` 6|1|94 पररूपत्वम्, ईकारेण सह `आद्गुणः` 6|1|84 `एत ईद्बहुवचने` 8|2|81 इतीत्त्वम्, दस्य च मत्वम्, 8|2|80 । अयमद्विवचनार्थ आरम्भः। `अमू आसाते` इति। अदसो द्विवचनमौ। त्यदाद्यत्वम्,`वृद्धिरेचि` 6|1|85 इति वृद्धिः; `अदसोऽसेर्दादुदो मः` 8|2|80 इत्यौकारस्य दीर्घस्य स्थाने तादृश एवान्तरतम्यादुकरः।अत्राप्यूकारादिकार्यमसिद्धमिति पूर्वेणाप्राप्तिः। अतः `पूर्वात्रासिद्धम्` 8|2|1 इत्यस्य बाधनार्थं आरम्भः। कथं पुनः `पूर्वत्रासिद्धम्` 8|2|1 इत्येतच्छक्यं बाधितुम्, वचनसामथ्र्यात्? नैतदस्ति; यत् सिद्धे प्रगृह्रकार्यम् `अणोऽप्रगृह्र-स्यानुनासिकः` 8|4|56 इति, तदर्थं वचनं स्यात्, नैतदेवम्; न ह्रेकं प्रयोजनं योगारम्भं प्रयोजयति। यदि ह्रेतावत् प्रयोजनं स्यात्, तत्रैवेदं ब्राऊयात्, `अणोऽप्रगृह्रस्यानुनासिकः, अदसो न` इति। `शम्य्तर, दाडिम्यत्र` इति। `षिद् गौरादिभ्यश्च` 4|1|41 इति ङीष्, `यस्येति च` 6|4|148 इत्यकारलोपः। भवत्ययंमकारात्पर ईकारः, न त्वदः सम्बन्धीति। `अमुकेऽत्र` इति। `अव्ययसर्वनाम्नाम्` 5|3|71 इत्यकच्, `जसः शी` 7|1|17 , `आद्गुणः` 6|1|84 , पूर्ववदुत्वमत्वे अमुके इतिस्थिते परत्र चात्रशब्दे `एङः पदान्तादति` 6|1|105 इति पूर्वरूपत्वम्।
"स्वरितेनाधिकारः" इत्यत्र द्वौ पक्षौ-अर्थाधिकारः, शब्दाधिकारश्चेति । तत्रार्थाधिकारो नाम-यस्य यस्मिन्सूत्रे स्वरितत्वं प्रतिज्ञातं तत्र तस्य योऽर्थः स उतरत्राधिक्रियत इति । शब्दाधिकारस्तु स एव शब्दोऽविवक्षितार्थोऽधिकृतस्ततत्सूत्रानुगुणमर्थं प्रतिपादयतीति । तत्रार्थाधिकारे पूर्वत्रेदादिभिस्तदन्तं प्रत्यायितम्, इहानुवृतम् "मात्" इत्यनेन विशेष्येतेति "अमुकेऽत्र" इत्यत्रापि प्रसङ्गः, शब्दाधिकारे त्विदादिमात्रस्येहानुवृतस्यापि विशेष्याभावादसति तदन्तविधौ "मात्" इत्यनेन विशेषणाददोष इति तमाश्रित्याह-ऽतस्मात्परे ईदूदेदन्ताऽ इति । ऽप्रगृह्यसं ज्ञाऽ इति । प्रगृह्यशब्दः संज्ञा येषां ते तथोक्ताः । यद्यपि पूर्वसूत्र एव प्रगृह्यशब्दः संज्ञात्वेन विनियुक्तः, तथापीह संज्ञिनो न प्रत्याययति; स्वरूपपदार्थकस्यैव तस्येहानुवृतेः । किमर्थमिदमुच्यते, यावता स्त्रीनपुंसकयोर्द्विवचने मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वात् पूर्वेणैव सिद्धा संज्ञा; स्वरसन्धिप्रकरणे च मुत्वस्यासिद्धत्वादेकारस्यैव विकारप्रसङ्गे प्रकृतिभावोऽपि सिद्धः,अनुनासिकपर्युदासश्च कार्यकालपक्षे लिङ्गत्रयेऽपि द्विवचने सिद्धः ? "अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेन पूर्वसूत्रेण संज्ञायां क्रियमाणायां मुत्वस्य सिद्धत्वात् । अतोऽनुनासिकपर्य्युदासेऽद्विवचनार्थोऽयमारम्भः, प्रकृतिभावे तु पुंसि द्विवचनार्थश्च । नन्वारब्धेऽप्यस्मिन्यथोद्देशपक्षे संज्ञायां कर्तव्यायां मुत्वमीत्वयोराश्रयात्सिद्धत्वेऽपि स्वरसन्धिप्रकरणे तयोरसिद्धत्वादयावेकादेशप्रसङ्गः, अमी आसते इत्ययादेशः, अमू आसाते इति पुंस्यावादेशः, अमी अत्र इति "एङः पदान्तादति" इत्येकादेशः । न च संज्ञाया वैयर्थ्यम्; अनुनासिकपर्युदासेनार्थवत्वात् । तत्र हि कर्तव्ये मुत्वमीत्वयोरसिद्धत्वाभावाद्ययोरनेन संज्ञा कृता तावेव ?न, न तं प्रति । कार्यकालपक्षे तु संज्ञायामपि कर्तव्यायामाश्रयात् सिद्धत्वं नाश्रयणीयम्;"अणोऽप्रगृह्यस्य" इत्यत्रोपस्थितेऽस्मिन् कर्तव्ये मुत्वमीत्वयोः सिद्धत्वात्, तावता चास्य चरितार्थत्वात् । तदेवमुभयोरपि पक्षयोः स्वरसन्धिः स्यादेव ? उच्यते; यद्यनुनासिकपर्युदास एव प्रयोजनमभविष्यद् "अणोऽप्रगृह्यस्यानुनासिकोऽदसो न " इत्येवावक्ष्यत् । अमुके, अमुयेत्यादावनण्त्वादनवसानत्वाच्चाप्रसङ्गः । अतः संज्ञारम्भसामर्थ्यात् प्रकृतिभावार्थत्वमप्यस्य विज्ञायते, तच्च स्वरसन्धिप्रकरणे मुत्वमीत्वयोः सिद्धत्वमन्तरेणानुपपन्नमित्युभयोरपि पक्षयोः सामर्थ्यादसिद्धत्वबाधः । ऽमादिति किमिऽति । "अदस" इति षष्ठी, अमी अमू इत्यत्र च मूत्वमीत्वयोः स्थानिनावेकादेशावन्तवद्भावाददस्-शब्दग्रहणेन गृह्यएते इति तदादेशयोरपि तद्ग्रहणेन ग्रहणादस्ति तावदिष्टसिद्धिः । एदिति च निवर्तिष्यते, न च मात्परावीदूतौ सम्भवत इत्यतिप्रसङ्गोऽपि नास्तीति प्रश्नः । ऽअमुकेऽत्रेतिऽ । एकयोगनिर्द्दिष्टानामेकदेशानुवृत्तिर्दुर्ज्ञानेति भावः । न च मादित्यस्मिन् सत्यपि एद्ग्रहणसामर्थ्यादत्र प्रसङ्गः; मादित्यस्य वैयर्थ्यप्रसङ्गात् । न च विकल्पः; अतुल्यबलत्वात् । तद्धि पूर्वत्र चरितार्थम्, मादिति त्वकृतार्थम् । न चानुवृत्तिसामर्थ्यम्; अन्यानुरोधेनाप्यनुवृत्तिसम्भवात् ॥
सिद्धान्तकौमुदी
अस्मात्परावीदूतौ प्रगृह्यौ स्तः । अमी ईशाः । रामकृष्णावमू आसाते । मात् किम् । अमुकेऽत्र । असति माद्ग्रहणे एकारोऽप्यनुवर्तेत ॥
अदसो मात्। `अदस` इत्यवयवषष्ठी। अदश्शब्दावयवान्मकारादित्यर्थः। `ईदू`दिति `प्रगृह्य`मिति चानुवर्तते। `मा`दिति दिग्योगे पञ्चमी। परसभ्दोऽध्याहार्यः। तदाह--अस्मात्पराविति। अदश्शब्दावयवमकारात्परावित्यर्थः। `ए`दिति नानुवर्तते, अदश्शब्दे मकारात्परस्यैकारस्याऽसंभवात्। `द्विवचन`मित्यपि नानुवर्तते, अदश्शब्दे मकारात्परस्य ईकारस्य `अमी` इति बहुवचनत्वात्, ऊकारस्य च मकारात्परस्य तत्र द्विवचनान्तेष्वेव सत्त्वेन व्यावर्त्त्याऽभावात्। अमी ईशा इति। अदश्शब्दाज्जसि त्यदाद्यत्वं पररूपत्वं। जसश्शी। आद्गुणः। `अदे` इति स्थिते एकारस्य `एत ई`दिति ईत्त्वं, दस्य च मत्त्वम्। तदेवम्-`अमी`#इति रूपम्। अत्र ईकारस्य द्विवचनत्वा।ञभावात्पूर्वसूत्रेण प्रगृह्यसंज्ञा न प्राप्तेत्यनेन सा विधीयते। रामकृष्णावमू इति। पुँल्लिङ्गाददश्शब्दात्प्रथमाद्विवचने औङि, त्यदाद्यत्वं, पररूपत्वं। वृद्धिरेचि। अदौ इति स्थिते, अदसोऽसेरित्यौकारस्य ऊत्वं, दस्य मत्वम्। अमू इति रूपम्। यद्यप्ययमूकारो द्विवचनं भवति, तथापि पूर्वसूत्रेण प्रगृह्यत्वे कर्तव्ये उत्वमत्वयोरसिद्धतया दकारादौकारस्यैव शास्त्रदृष्ट�आ सत्त्वात्पूर्वस#ऊत्रेण तस्य प्रगृह्यत्वं न प्राप्तमित्यनेन विधीयते। `अदसो मा`दिति सूत्रं प्रति तु उत्वमत्वे नासिद्धे, आरम्भसामर्थ्यात्। पूर्वसूत्रस्य तु तत्र न सामर्थ्यं, हरी एतौ, विष्णू इमावित्यादौ चरितार्थत्वात्। `स्त्रियौ फले वा अमू आसाते` इति स्त्रीलिङ्गो नपुंसकलिङ्गश्च अदश्शब्दो नात्रोदाहरणम्। तथाहि स्त्रीलिङ्गददश्शब्दादौङि, त्यदाद्यत्वे, पररूपत्वे, टापि, `ओङ आप` इति शीभावे, आद्गुणे, उत्वमत्वयोरमू इत्येव रूपम्। तथा नपुंसलिङ्गात्तस्मादौङि, त्यदाद्यत्वे, पररूपत्वे, नपुंसकाच्चेति शीभावे, आद्गुणे, उत्वमत्वयोरमू #इत्येव रूपम्। अत्र पूर्वसूत्रेणैव प्रगृह्यत्वं सिद्धम्। उत्वमत्वयोरसिद्धत्वेऽप्येकारस्य द्विवचनस्य सत्त्वात्। अतः पुँल्लिङ्ग एव अदश्शब्दोऽत्रोदाहरणमिति प्रदर्शयितुं `रामकृष्णा` वित्युक्तम्। मात्किमिति। `अदस` इत्येव सूत्रमस्तु, माद्ग्रहणस्य किं प्रयोजनमिति प्रश्नः। अमुकेत्रेति `अव्ययसर्वनाम्नामकच् प्राक्टेः` #इत्यकचि अदकश्शब्दाज्जसि, त्यदाद्यत्वं, पररूपत्वम्, जसश्शी, आद्गुणः उत्वमत्वे। `अमुके` इति रूपम्। अत्र एकारस्य प्रगृह्यत्वनिवृत्त्यर्थं माद्ग्रहणम्। कृते च तस्मिन्नेकारस्य म#आत्परत्वाऽभावान्न प्रगृह्यत्वमिति भावः। नन्वेवमपि माद्ग्रहणं व्यर्थम्, एद्ग्रहणमननुवर्त्त्य ईदूतोरेवाऽत्र प्रगृह्यत्वविधानाब्युपगमेन `अमुके` इत्यत्र प्रगृह्यत्वप्रसक्तेरेवाऽभावादित्यत आह--असतीति। `अदसो मा`दित्यत्र ईदूदेतामेकसमासपदोपात्तानां मध्ये ईदूतोर्द्वयोरनुवृत्तौ एतोऽप्यनुवृत्तिप्रसक्तौ माद्ग्रहणादेतोऽनुवृत्तिः प्रतिबद्धा। माद्ग्रहणाऽभावे तु बाधकाऽभावादेतोऽप्यनुवृत्तिः स्यात्। ततश्च `अमुके` इत्यत्रापि एकारस्य प्रगृह्यत्वप्रसक्तौ तन्निवृत्त्यर्थं माद्ग्रहणम्। कृते तु तस्मिन्नेतोऽनुवृत्तिप्रतिबन्धादमुके इत्यत्र न प्रगृह्यत्वम्। तथाच एकाराननुवृत्तिफलसकं माद्ग्रहणमिति भावः।
अदसो मात्। इह एकारो नानुवर्तते, असंभवादित्यभिप्रेत्याह-ईदूताविति। अदसः किम् ?। शम्यत्र, वाम्यत्र। ननूकारानुवृत्तिर्व्यर्था, `स्त्रियौ फले वा अमू आसाते` इत्यत्र पूर्वेणैव सिद्धेः। मुत्वस्यासिद्धत्वेऽप्येकारान्तत्वादत आह--रामकृष्णाविति। पुंसि पूर्वेण न सिध्द्यति, औकारान्तत्वादिति भावः। `अदसो मा`दिति सूत्रं प्रति मूत्वमीत्वं च नाऽसिद्धम्, आरम्भसामर्थ्यात्। अमुकेऽत्रेति। स्त्रीलिङ्गद्विवचनस्य तु पूर्वसूत्रेण प्रगृह्यत्वे प्रकृतिभाव एव। अमुकेऽत्र। एकारोऽप्यनुवर्तेतेति। तथाच एकाराननुवृत्तितात्पर्यग्रहफलकं माद्ध्रहणमिति भावः।
लघुसिद्धान्तकौमुदी
अस्मात्परावीदूतौ प्रगृह्यौ स्तः। अमी ईशाः। रामकृष्णावमू आसाते। मात्किम्? अमुकेऽत्र॥
महाभाष्यम्
अदसो मात् ।। मात्प्रगृह्यसञ्ज्ञायां तस्यासिद्धत्वादयावेकादेशप्रतिषेधः।। मात् प्रगृह्यसञ्ज्ञायां तस्य इर्त्वस्य ऊत्वस्य चासिद्धत्वादयावेकादेशाः प्राप्नुवन्ति तेषां प्रतिषेधो वक्तव्यः। अमी अत्र। अमी आसते।अमू अत्र। अमू आसते। ननु च प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति। ।। वचनार्थो हि सिद्धे।। नेदं वचनाल्लभ्यम्। अस्ति ह्यन्यदेतस्य वचने प्रयोजनम्। किम्। यत् सिद्धे प्रगृह्यकार्यं तदर्थमेतत् स्यात्। अणोऽप्रगृह्यस्यानुनासिक इति ।। नैकं प्रयोजनं योगारम्भं प्रयोजयति। यद्येतावत् प्रयोजनं स्यात् तत्रैवायं ब्रूयादणोऽप्रगृह्यस्यानुनासिकोऽदसो नेति। ।। विप्रतिषेधाद्वा।। अथवा प्रगृह्यसञ्ज्ञा क्रियताम् अयादयो वेति। प्रगृह्यसञ्ज्ञा भविष्यति विप्रतिषेधेनेति। नैष युक्तो विप्रतिषेधः। विप्रतिषेधे परमित्युच्यते। पूर्वा च प्रगृह्यसञ्ज्ञा परेऽयादयः। परा प्रगृह्यसञ्ज्ञा करिष्यते। सूत्रविपर्यासः कृतो भवति। एवं तर्हि परैव प्रगृह्यसञ्ज्ञा। कथम्। कार्यकालं सञ्ज्ञापरिभाषम्। यत्र कार्यं तत्रोपस्थितं द्रष्टव्यम्। प्रगृह्यः प्रकृत्येत्युपस्थितमिदं भवति अदसो मादिति। एवमप्ययुक्तो विप्रतिषेधः। कथम्। द्विकार्ययोगो हि विप्रतिषेधः। नचात्रैको द्विकार्ययुक्तः। एचामयादयः। इर्दूतोः प्रगृह्यसञ्ज्ञा। नावश्यं द्विकार्ययोग एव विप्रतिषेधः। किं तर्हि असंभवोपि। स चास्त्यत्रासंभवः। कोऽसावत्रासंभवः? प्रगृह्यसञ्ज्ञाऽभिनिर्वर्तमाना अयादीन् बाधते। अयादयोऽभिनिर्वर्तमानाः प्रगृह्यसञ्ज्ञाया निमित्तं विघ्नन्तीत्येषोऽसंभवः। सत्यसंभवे युक्तो विप्रतिषेधः। एवमप्ययुक्तो विप्रतिषेधः। सतोर्हि विप्रतिषेधो भवति। न चात्रेत्वोत्वे स्तः। नापि मकारः। उभयमप्यसिद्धम् । ।। आश्रयात् सिद्धत्वं च यथा रोरुत्वे।। आश्रयात् सिद्धत्वं भविष्यति। तद्यथा रुरुत्वे आश्रयात् सिद्धो भवति । किं पुनः कारणं रुरुत्वे आश्रयात् सिद्धो भवति। न पुनर्यत्रैव रुः सिद्धस्तत्रैवोत्वमप्युच्येत । नैवं शक्यम्। ।। असिद्धे ह्युत्वे आद्गुणाप्रसिद्धिः।। असिद्धे ह्युत्वे आद्गुणस्याप्रसिद्धिः स्यात्। वृक्षोऽत्र। प्लक्षोऽत्र। तस्मात् तत्राश्रयात् सिद्धत्वमेषितव्यम्। यथा तत्राश्रयात् सिद्धत्वं भवति। एवमिहाप्याश्रयात् सिद्धत्वं भविष्यति। ।। अथवा प्रगृह्यसञ्ज्ञावचनसार्मथ्यादयादयो न भविष्यन्ति।। अथवा योगविभागः करिष्यते। अदसः। अदसः परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। ततो मात्। माच्च परे इर्दादयः प्रगृह्यसञ्ज्ञा भवन्तीति। अदस इत्येव। किमर्थो योगविभागः। एको यत् तत् सिद्धे प्रगृह्यकार्यं तदर्थः। अपरो यदसिद्धे । इहापि तर्हि प्राप्नोति। अमुया। अमुयोरिति। किं च स्यात् यद्यत्र प्रगृह्यसञ्ज्ञा स्यात्। प्रगृह्याश्रयः प्रकृतिभावः प्रसज्येत । नैष दोषः। पदान्तप्रकरणे प्रकृतिभावः। न चैष पदान्तः । एवमप्यमुकेऽत्र,अत्रापि प्राप्नोति। द्विवचनमिति वर्तते। यदि द्विवचनमिति वर्तते अमी अत्र न प्राप्नोति । एवं तर्हि एदन्तमिति निवृत्तम्। अथवाहायमदसो मादिति। न च इर्त्वोत्वे स्तः। नापि मकारः। तत एवं विज्ञास्यामः मार्थादीदाद्यर्थानामिति। ।। उक्तं वा।। किमुक्तम्। अदस इर्त्वोत्वे स्वरे बहिष्पदलक्षणे सिद्धे वक्तव्ये। प्रगृह्यसञ्ज्ञायां चेति । ।। तत्र सकि दोषः।। तत्र सककारे दोषो भवति। अमुकेऽत्र । नवा ग्रहणविशेषणत्वात्। न माद्ग्रहणेन इर्दाद्यन्तं विशेष्यते, किं तर्हि। इर्दादयो विशेष्यन्ते मात्परे ये इर्दादय इति ।