अत्रेदादि यद्द्विवचनम्,तत् प्रगृह्रमित्येवं वा विज्ञायते? ईदाद्यन्तं यद् द्विवचनम्, तत् प्रगृह्रमिति वा? तत्राद्ये पक्षे `पचेते` इत्यादौ प्रगृह्रसञ्ज्ञा न प्राप्नोति, न ह्रेकारमात्रमत्र द्विवचनम्; अपि तु आतेशब्द इति। इममाद्येपक्षे दोषं दृष्ट्वा द्वितीयं पक्षमाश्रित्याह- `ईदूदेदित्येवमन्तम्ित्यादि। नन्वेतस्मिन्नपि पक्षे अग्नी इत्येवमादि न सिध्यति, ईदाद्येव ह्रत्र द्विवचनं न तदन्तम्? `आद्यन्तवदेकस्मिन्`
1|1|20 इत्यनेनान्तवद्भावो भवतीत्यदोषः। `अग्नी` इति। ` प्रथमयोः पूर्वसवर्णः`
6|1|98 इति दीर्घत्वम्। अत्र प्रगृह्रसञ्ज्ञायां सत्याम्`प्लुतप्रगृह्रा अचि`
6|1|121 इति प्रकृतिभावादितिशब्दे परतः `अकः सवर्णे` दीर्घत्वं
6|1|97 न भवति। `वायु` इत्यत्रापि `इको यणचि`
6|1|74 इति यणादेशः। शेषेष्वप्युदाहरणेष्वयादेशः। `खट्वे` इति। `औङ आपः`
7|1|18 इति शीभावः। ` आद्गुणः`
6|1|84 । `पचेते` इति,`यजेते` इति। स्वरितेत्वादात्मनेपदम्, आताम्, टेरेत्त्वम्, `आतो ङितः`
7|2|81 इतीयादेशः `लोपो व्योर्वलि`
6|1|64 इति यलोपः। `वृक्षावत्र, प्लक्षावत्र` इति। भवत्येतद् द्विवचनम्; न त्वीदूदेदन्तम्। तेन प्रकृतिभावाभावादादेशो भवत्येव। `कुमार्यत्र` इति। `वयसि प्रथमे`
4|1|20 इति ङीपिकृते `कुमारी` इत्येतदीकारान्तम्, न तु द्विवनचान्तम्; तेनासति प्रकृतिभावे भवत्येव यणादेशः। अथ तपरकरणं किमर्थम्?प्लुतनिवृत्त्यर्थमिति चेत्, न; इष्टत्वात् प्लुतस्य। यथा च तपरत्वे क्रियमाणेऽपि प्लुतस्य प्रगृह्रसञ्ज्ञा सिध्यति, तथा भाष्ये `असिद्धः प्लुतः, तस्यासिद्धत्वात् तत्काल एव`(म।भा।1।66) इत्यादिना प्रतिपादितम्। गुणान्तरभिन्नानां तत्कालानां ग्रहणार्थमिति चेत्,न; `अभेदकत्वाच्छास्त्रे गुणानाम्` (सो।प।80) इत्यत आह- `तपरकरणमसन्देहार्थम्` इति। असति हि तपरकरण ईकारस्योकारस्य च यणादेशः स्यात्। ततश्च सन्देह एव स्यात्-किमिदं यकारवकारोयग्र्रहणम्, आहोस्विदिकारोकारयोरिति `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेदं व्याख्यातम्- वक्ष्यमाणं शाकल्यग्रहणमिहोपतिष्ठते सिंहावलोकितन्यायेन , सा च व्यवस्थित-विभाषा; तेन मणीवादीनां प्रतिषेधो भविष्यति, मणीव, दम्पतीव्, रोदसीवेति। मणीवेत्या-दयः शब्दा द्विवचनान्ताः। तत्रासति प्रगृह्रत्वे `अकः सवर्णे दीर्घः` (
6|1|97 एकादेशो भवत्येव।